आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 107, कुल 232 में से
संदर्भ में पढ़ें८८ आयुर्वेदीयग्रन्थमाला। [अध्यायः अथ मृतलक्षणम्— तालं मृतं तदा ज्ञेयं वह्निस्थं धूमवर्जितम्। सधूमं न मृतं प्राहुर्वृद्धवैद्या इति स्थितिः॥ ८॥ इयं परीक्षा वृद्धानां मुखेभ्य एव श्रुत्वा मया पद्येन निबद्धा, परं रसशास्त्रेषु कुत्रापि न दृष्टा; भवतु सत्येयं, नह्य- मूला प्रसिद्धिरिति न्यायात्। अथ तालकशोधनम्— तालकं कणशः कृत्वा बद्धा पोटलिकां ततः। दोलायन्त्रेण यामैकं सचूर्णे काञ्जिके पचेत्॥ ९॥ यामैकं दोलया तद्वत्कूष्माण्डस्वरसे ततः। तिलतैले पचेद्यामं यामं च त्रैफले जले। दोलायन्त्रे चतुर्यामं पक्वं शुध्यति तालकम्॥ १०॥ अथ तालकस्य मारणविधिः— पत्राख्यं तालकं शुद्धं पौनर्नवरसेन तु। खल्वे विमर्दयेदेकं दिनं पश्चाद्विशोषयेत्॥ ११॥ संशोष्य गोलकं कृत्वा चक्राकारमथापि वा। ततः पुनर्नवाक्षारैः स्थाल्यामर्धं प्रपूरयेत्॥ १२॥ तत्र तद्गोलकं कृत्वा पुनस्तेनैव पूरयेत्। स्थालीं चूल्यां समारोप्य क्रमाद्वह्निं विवर्धयेत्॥ १३॥ दिनान्यन्तरशून्यानि पञ्च वह्निं प्रदीपयेत्। एवं तन्म्रियते तालं मात्रा तस्यैकरक्तिका। अनुपानान्यनेकानि यथारोगं प्रयोजयेत्॥ १४॥ किंचिद्यथा— गुडूच्यादिकषायेण गदानेतान् व्यपोहति। सोपद्रवं वातरक्तं कुष्ठान्यष्टादशापि च॥ १५॥