भारतकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 148, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 148

११.] आयुर्वेदप्रकाशः । १२९ तालेन दशमांशेन याममेकं ततः पुटेत् । एवं दशपुटैः पक्वं वङ्गं भवति मारितम् ॥ १७२ ॥ इति दशपुटि वङ्गभस्म ॥ अथ यशदस्य नामलक्षणगुणमारणानि । 'जस्ता' इति भाषा ॥ जसदं रङ्गसदृशं रीतिहेतुश्च तन्मतम् । उक्तं च— जशदं गिरिजं तस्य दोषाः शोधनमारणे । वङ्गस्येव हि बोद्धव्या गुणांस्तु प्रवदाम्यहम् ॥ १७३ ॥ गुणाः— जसदं तुवरं तिक्तं शीतलं कफपित्तहृत् । चक्षुष्यं परमं मेहान् पाण्डुं श्वासं च नाशयेत् ॥ १७४ ॥ अथ नागस्योत्पत्तिनामलक्षणगुणशोधनमारणानि । दृष्ट्वा भोगिसुतां रम्यां वासुकिस्तु मुमोच यत् । वीर्यं जातस्ततो नागः सर्वरोगापहो नृणाम् ॥ १७५ ॥ नागः सीसं च वध्रं च योगेष्टं नागनामकम् । नागनामकं भुजङ्गादिपर्यायवाचकमित्यर्थः ॥ सीसं रङ्गगुणं ज्ञेयं विशेषान्मेहनाशनम् ॥ १७६ ॥ अन्यच्च— नागः समीरकफपित्तविकारहन्ता सर्वप्रमेहवनराजिकृपीटयोनिः । उष्णः सरो रजतरञ्जनकद्रुणाशो- गुल्मग्रहण्यतिसृतिक्षणदांशुमाली ॥ १७७ ॥ नागस्तु नागशततुल्यबलं ददाति व्याधिं विनाशयति जीवनमातनोति ।