आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 149, कुल 232 में से
संदर्भ में पढ़ें१३० आयुर्वेदीयग्रन्थमाला । [ अध्यायः वह्निं प्रदीपयति कामबलं करोति मृत्युं च नाशयति संततसेवितः सः ॥ १७८ ॥ अशुद्धः कुरुते नागः प्रमेहक्षयकामलाः । तस्मात्संशुद्ध एवायं मारणीयो भिषग्वरैः ॥ १७९ ॥ अपक्वदोषाः— पाकेन हीनौ किल नागवङ्गौ कुष्ठानि गुल्मांश्च तथाऽतिकष्टान् । पाण्डुप्रमेहानलसादशोथभगन्दरादीन् कुरुतः प्रयुक्तौ ॥ १८० ॥ अस्य शोधनं विशेषशोधनं च प्रागुक्तम् । अथ मारणम्— अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निःक्षिपेत् । मृत्पात्रे विद्रुते नागे लोहदर्व्या प्रचालयेत् ॥ १८१ ॥ यामैकेन भवेद्भस्म तत्तुल्या तु मनःशिला । काञ्जिकेन द्वयं पिष्ट्वा पुटेद्गजपुटेन च ॥ १८२ ॥ स्वाङ्गशीतं पुनः पिष्ट्वा शिलया काजिकेन च । पुनः पचेच्छरावाभ्यामेवं षष्टिपुटैर्मृतिः ॥ १८३ ॥ इति षष्टिपुटी नागभस्म ॥ ताम्बूलरससंपिष्टशिलालेपात्पुनः पुनः । द्वात्रिंशद्भिः पुटैर्नागो निरुत्थं भस्म जायते ॥ १८४ ॥ इति द्वात्रिंशत्पुटी नागभस्म । अथान्यमतम्— भूभुजङ्गमगास्थि च पिष्ट्वाऽहेः पत्रमादिहेत् । हण्ड्यामग्नौ द्रवीकृत्य वासापामार्गसंभवम् ॥ १८५ ॥ क्षारं विमिश्रयेत्तत्र चतुर्थांशं गुरुक्तितः । प्रहरं पाचयेच्चुल्यां वासादर्व्या विघट्टयन् ॥ १८६ ॥ चूर्णीभूतं पिधायाथ कुर्यादग्निं समं पुनः । तत उद्धृत्य तच्चूर्णं शुद्धया शिलयाऽन्वितम् ॥ १८७ ॥ वस्वंशयाऽथ तत्सर्वं वासानीरैर्विमर्दयेत् ।