भारतकोश
संग्रह पर लौटें

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

१३० आयुर्वेदीयग्रन्थमाला । [ अध्यायः वह्निं प्रदीपयति कामबलं करोति मृत्युं च नाशयति संततसेवितः सः ॥ १७८ ॥ अशुद्धः कुरुते नागः प्रमेहक्षयकामलाः । तस्मात्संशुद्ध एवायं मारणीयो भिषग्वरैः ॥ १७९ ॥ अपक्वदोषाः— पाकेन हीनौ किल नागवङ्गौ कुष्ठानि गुल्मांश्च तथाऽतिकष्टान् । पाण्डुप्रमेहानलसादशोथभगन्दरादीन् कुरुतः प्रयुक्तौ ॥ १८० ॥ अस्य शोधनं विशेषशोधनं च प्रागुक्तम् । अथ मारणम्— अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निःक्षिपेत् । मृत्पात्रे विद्रुते नागे लोहदर्व्या प्रचालयेत् ॥ १८१ ॥ यामैकेन भवेद्भस्म तत्तुल्या तु मनःशिला । काञ्जिकेन द्वयं पिष्ट्वा पुटेद्गजपुटेन च ॥ १८२ ॥ स्वाङ्गशीतं पुनः पिष्ट्वा शिलया काजिकेन च । पुनः पचेच्छरावाभ्यामेवं षष्टिपुटैर्मृतिः ॥ १८३ ॥ इति षष्टिपुटी नागभस्म ॥ ताम्बूलरससंपिष्टशिलालेपात्पुनः पुनः । द्वात्रिंशद्भिः पुटैर्नागो निरुत्थं भस्म जायते ॥ १८४ ॥ इति द्वात्रिंशत्पुटी नागभस्म । अथान्यमतम्— भूभुजङ्गमगास्थि च पिष्ट्वाऽहेः पत्रमादिहेत् । हण्ड्यामग्नौ द्रवीकृत्य वासापामार्गसंभवम् ॥ १८५ ॥ क्षारं विमिश्रयेत्तत्र चतुर्थांशं गुरुक्तितः । प्रहरं पाचयेच्चुल्यां वासादर्व्या विघट्टयन् ॥ १८६ ॥ चूर्णीभूतं पिधायाथ कुर्यादग्निं समं पुनः । तत उद्धृत्य तच्चूर्णं शुद्धया शिलयाऽन्वितम् ॥ १८७ ॥ वस्वंशयाऽथ तत्सर्वं वासानीरैर्विमर्दयेत् ।

११.] आयुर्वेदप्रकाशः । १३१ पुटेत्पुनः समुद्धृत्य तद्द्रवेण विमर्दयेत् । एवं सप्तपुटैर्नागः सिन्दूराभो भवेद्ध्रुवम् ॥ १८८ ॥ भूभुजङ्गः भूनागः, अगस्तिर्मुनिद्रुमस्तत्पर्णरसम् । क्षारं सौकर्याद्द्रस ग्राह्यम् । गुरुक्तिः स्वल्पं स्वल्पं प्रतिक्षणं देय- मित्येवंरूपा, प्रहरं यावद्द्रस भवत्यखिलं तावत्, न तु प्रहर- नियमः ॥ इति निरुत्थं नागभस्म । रसपद्धत्याम्— नागं काष्ठकृशानुना पटुघटआष्ट्रे द्रुतं कन्यका- मूलैर्घृष्टमिभाशनार्कबहुपाद्ब्रह्मद्रुमूलायसाम् । दण्डेनान्यतमस्य वा यदवधि स्यात्पिष्टिका तत्पुनः सिन्दूरारुणमुद्धृतं च शिलया त्वंशया योजितम् १८९ कन्यावारिविभावितं पुनरपि प्राक्प्रक्रियोत्पादितं त्रिः स्याद्रस करीषवह्निपुटितं प्रान्तेऽतिमन्दं सकृत् । कन्यामूलविघट्टनारहितया वङ्गोऽपि भस्मीभवे- त्पूर्वप्रक्रिययैव मानसशिलास्थाने तु दत्तालया ॥१९०॥ व्याख्या—इभाशनः पिप्पलः, अर्कः प्रसिद्धः, बहुपा- न्न्यग्रोधः, ब्रह्मद्रुः पलाशः, आयसं लोहं, एतेषामन्यतमेन दण्डेन दर्व्या यदवधि पिष्टिका स्यात्तदवधि पटुघटआष्ट्रे दृढघटार्धखण्डे, नागं काष्ठाग्निना द्रवीकृत्य, तत्र कन्यामूलं शुष्कं कन्यारसं वा दत्त्वा, घृष्टं कुर्यादिति भावार्थः । पुटितं त्रिःसप्तवारं कन्यावारिणा मर्दितं शरावसंपुटस्थं करीषाग्निषु गजपुटेषु त्रिःपुटितं प्रान्तेऽतिमन्दपुटितं भस्म स्यात् । अमुं प्रकारं वङ्गेऽप्यतिदिशति—कन्येत्यादि । स्पष्टम् । अथान्यः प्रकारः— नागं खर्परके निधाय कुनटीचूर्णं ददीत द्रुते निम्बूत्थद्रवगन्धकेन पुटितं भस्मीभवत्याशु तत् ।

१३२ आयुर्वेदीयग्रन्थमाला । [अध्यायः एवं तालकवापतस्तु कुटिलं चूर्णीकृतं तत्पुटे- द्वन्धाम्लेन समस्तदोषरहितं योगेषु योज्यं भवेत् १९१ अथान्यः प्रकारः— त्रिभिः कुम्भिपुटैर्नागो वासारसविमर्दितः । सशिलो भस्मतामेति तद्रजः सर्वमेहनुत् ॥ १९२ ॥ कुम्भी गजः । नागो नागपिष्टिः। सशिलोऽष्टमांशशुद्धशिलायुक्तः। 'शरावसंपुटस्थः' इत्यध्याहार्यम् । इति नागभस्मीकरणम् । अथ नागभस्मनि विशेष उक्तो रसपद्धतिकृता । तद्यथा— सर्वेषां मतमेतदेव भिषजां यत्तारसीसोद्भवं पार्थक्येन गुणावहं न भसितं प्रोक्तोपलोहस्य च । किं कार्यं भसितस्य चेच्छृणु रसादिष्वेव योज्यं हि त- त्तादृक्सङ्घटनानुरोधबलतः प्रोक्ताव्यवस्था इति॥१९३॥ अथ नागेश्वरः ।— [L

११.] आयुर्वेदप्रकाशः । १३३ रीरसेन मर्दयेत्, तदुपरि अर्कदुग्धेन मर्दयेत् प्रहरैकं, पश्चात्त- चक्रिकां कृत्वा संशोष्य शरावसंपुटे धृत्वा पञ्चपट्टकपरिमितै- र्वनोपलैः पुटेत्, तदुत्तरं तस्य सहदेव्या रसेन पुटैकं दद्यात्, ततः सिद्धो जातः । अथ प्रयोगः—रक्तिकाद्वयमस्य वाकुची- चूर्णेन सह देयं दिनानि चत्वारिंशत्, पथ्यं गोधूमतिलतैलं, औषधं भक्षयित्वा घर्मे प्रहरैकं स्थेयं, ततोऽल्पदिनैर्मण्डलपा- काञ्जलस्रावोत्तरं क्रमेण सवर्णता । देवदारुदारुचिनीवाकुची- युक्तं गलत्कुष्ठे, त्रिकटुदेवदारुयुक्तं वातरक्ते, मूत्रकृच्छ्रे वाकुचीयुक्तं, दुग्धोदनं सर्वत्र पथ्यम् । इति नागेश्वरो रसः ॥ अथ लोहस्योत्पत्तिनामलक्षणभेदगुणशोधन- मारणानि । पुरा लोमिलदैत्यस्य निहतस्य सुरैर्युधि । उत्पन्नानि शरीरेभ्यो लोहानि विविधानि वै ॥ १९४ ॥ अथ नामानि— लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी । मुण्डं तीक्ष्णं तथा कान्तमिति लोहं त्रिधा स्मृतम् ॥ १९५ ॥ मुण्डं तु त्रिविधं तत्र मृदु कुण्ठं कडारकम् । तीक्ष्णकं षड्विधं प्राहुः खराख्यं सारसंज्ञकम् ॥ १९६ ॥ हुन्तालमपरं तारावहं वाजिरकालकम् । कान्तं पञ्चविधं ज्ञेयं आमकं चुम्बकं तथा ॥ १९७ ॥ कर्षकं द्रावकं तद्वद्रोमकान्तं च पञ्चमम् । एकास्यं द्विमुखं त्र्यास्यं वेदास्यं शरवक्त्रकम् । सर्वतोमुखमित्येवमुत्तमाधमकान्तकम् ॥ १९८ ॥ लक्षणम्— भेदानां लक्षणान्यत्र न संप्रोक्तानि गौरवात् । आख्यया प्रस्फुटानि स्युर्मुख्यानां लक्ष्म कथ्यते ॥१९९॥ १२

१३४ आयुर्वेदग्रन्थमाला । [अध्यायः मुण्डं तु वर्तुलं भूमौ पर्वतेषु च जायते । गजवह्व्यादि तीक्ष्णं स्यात् कान्तं चुम्बकसंभवम् ॥२००॥ अन्यच्च— मुण्डात्कटाहपात्रादि जायते, तीक्ष्णलोहतः । खड्गादिशस्त्रभेदाः स्युः, कान्तलोहं तु दुर्लभम् ॥ २०१ ॥ मुण्डाच्छतगुणं तीक्ष्णं तीक्ष्णात्कान्तं शताधिकम् । तस्मान्मुण्डं परित्यज्य तीक्ष्णं वा कान्तमुत्तमम् ॥ २०२ ॥ 'मारणाय' इति शेषः । अथ तीक्ष्णकान्तयोर्विशेषलक्षणानि— कासीसामलकल्काक्ते लोहेऽङ्गं दृश्यते स्फुटम् । तीक्ष्णलोहं तदुद्दिष्टं मारणायोत्तमं विदुः ॥ २०३ ॥ अन्यच्च— क्ष्माभृच्छिखराकाराण्यङ्गान्यम्लेन मर्दिते । लोहे स्युर्यत्र सूक्ष्माणि तत्सारमभिधीयते ॥ २०४ ॥ अस्य गुणाः— लोहं साराह्वयं हन्याद्ग्रहणीमतिसारकम् । अर्धसर्वाङ्गजं वातं शूलं च परिणामजम् ॥ छर्दिं च पीनसं पित्तं श्वासमाशु व्यपोहति ॥ २०५ ॥ अथ कान्तलक्षणगुणाः— यत्पात्रे न प्रसरति जले तैलविन्दुः प्रतप्ते हिङ्गुर्गन्धं त्यजति च निजं तिक्ततां निम्बकल्कः । तप्तं दुग्धं भवति शिखराकारकं नैति भूमिं कृष्णाङ्गः स्यात्सजलचणकः कान्तलोहं तदुक्तम् ॥२०६ कान्तायः कामलाशोफकुष्ठानि क्षयगुल्मकौ । शूलोदरार्शःप्लीहानमामवातं भगन्दरम् ॥ २०७ ॥ अम्लपित्तं यकृच्चापि शिरोरोगं हरेद्ध्रुवम् । १ 'लेपिते' ग. ।

११. ] आयुर्वेदप्रकाशः । १३५ बलं वीर्यं वपुःपुष्टिं कुरुतेऽग्निं विवर्धयेत् । सर्वान् गदान् विजयते कान्तलोहं न संशयः ॥ २०८ ॥ अथ सामान्यगुणाः— लोहं शीतं सरं तिक्तं मधुरं तुवरं गुरु । रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं, जयेत् ॥ २०९ ॥ कफं पित्तं गरं शूलं शोफार्शःप्लीहपाण्डुताः । मेदोमेहकृमीकुष्ठं तत्किट्टं तद्गुणं स्मृतम् ॥ २१० ॥ अथलोहदोषाः— गुरुता दृढतोत्क्लेदः कश्मलं दाहकारिता । अश्मदोषः सदुर्गन्धो दोषाः सप्तायसः स्मृताः ॥ २११ ॥ अथाशुद्धगुणाः— षण्ढत्वकुष्ठामयमृत्युदं भवेद्धृद्रोगशूलौ कुरुतेऽश्मरीं च । नानारुजानां च तथा प्रकोपं करोति हल्लासमशुद्धलोहम् २१२ अथासम्यङ्मारितस्य गुणाः— जीवहारि मदकारि चायसं देहशूलकृदसंस्कृतं ध्रुवम् । पाटवं न तनुते शरीरके दारुणां हृदि रुजां च यच्छति २१३ अथ केचित्— न रसेन विना लोहं न लोहं चाभ्रकं विना । एकत्वेन शरीरस्य बन्धो भवति देहिनः ॥ २१४ ॥ पारदेन विना लोहं यः करोति पुमानिह । उदरे तस्य किट्टानि जायन्ते नात्र संशयः ॥ २१५ ॥ वस्तुतस्तु प्राशस्त्याय रसयोगो रसाभ्रयोगश्च । अथानुपान- मेतस्य— त्रिफलामधुसंयुक्तं सर्वरोगेषु योजयेत् । पथ्याशिनां लोहभस्म यथोक्तगुणदं भवेत् ॥ २१६ ॥

१३६ आयुर्वेदीयग्रन्थमाला। [ अध्यायः अस्य मात्राप्रमाणं प्रागुक्तम्। अथ लोहसेविनां वर्ज्यानि— कूष्माण्डं तिलतैलं च माषान्नं राजिकां तथा। मद्यमम्लं मसूरांश्च त्यजेल्लोहस्य सेवकः ॥ २१७ ॥ अथ लोहोपद्रवे— मुनिरसपिष्टविडङ्गं मुनिरसलीढं चिरं स्थितं घर्मे। द्रावयति लोहदोषान् वह्निर्नवनीतपिण्डमिव ॥ २१८ ॥ काले मलप्रवृत्तिर्लाघवमुदरे विशुद्धिरुद्वारे। अङ्गेषु नावसादो मनःप्रसादोऽस्य परिपाके ॥ २१९ ॥ अस्य लोहस्य ॥ कृमिरिपुसहितं लीढं सहितं स्वरसेन वङ्गसेनस्य। क्षपयत्यचिरान्नियतं लोहाजीर्णोद्भवं शूलम् ॥ २२० ॥ आरग्वधस्य मज्जाभी रेचनं किट्टशान्तये। भवेद्यद्यतिसारश्च पीत्वा दुग्धं

११.] आयुर्वेदप्रकाशः । १३७ शस्त्रकृल्लोहकाराणां गृहे तद्बहुलं भवेत् ॥ २२५ ॥ तच्चूर्णं तु समानीय सुधौतं निर्मलं शुचि । युक्त्या संशोध्य विधिना मारणं तस्य कारयेत् ॥ २२६ ॥ युक्तिस्तु दृढशरावे वा लोहजशरावे वा तच्चूर्णं संस्थाप्य, कोकिलैः शुल्कानीतैर्ध्मत्वा लोहकारादिभिर्ध्माययित्वा वा भस्त्रावातेन, अग्निसमानं दृष्ट्वा, संदंशेन निष्कास्य, तन्मध्ये तैलतक्रादि देयं; एवं सुकरं भवति । तैलतक्रादिषु चूर्णं निक्षिप्तं चेत्पुनः पुनस्तस्मान्निष्कासने महत्प्रयास इति । एवं यथाबुद्धिवैभवं शोधयेत् । पुनरन्योऽपि चूर्णप्रकारः— संशुद्धं लोहजं पत्रं तप्तं तप्तं वराजले । गोजले वा मुहुः क्षिप्तं क्षिप्रं चूर्णत्वमाप्नुयात् ॥ २२७ ॥ पुनरन्योऽपि चूर्णप्रकारः— स्थूलाभ्यः सिकताभ्योऽपि चुम्बकेन शनैर्मुहुः । लोहचूर्णं हि गृह्णन्ति सुसूक्ष्मं मारणे हितम् ॥ २२८ ॥ अथ विशेषशोधनम्— तैलतक्रादिसंशुद्धं लोहं शोध्यं विशेषतः । प्रोक्तदोषविनाशाय तदिदानीमिहोच्यते ॥ २२९ ॥ त्रिफलाष्टगुणे तोये त्रिफलाषोडशं पलम् । तत्काथे पादशेषे तु लोहस्य पलपञ्चकम् ॥ २३० ॥ कृत्वा पत्राणि तप्तानि सप्तवारं निषेचयेत् । एवं प्रलीयते दोषो गिरिजो लोहसंभवः ॥ २३१ ॥ अथात्र कान्तलोहे विशेषः— शशरक्तेन संलिप्तं किंवाऽऽर्कपयसाऽऽयसम् । दलं हुताशने ध्मातं सिक्तं त्रैफलवारिणि ॥ त्रिशः कान्तस्य संशुद्धिरित्येवं परमा भवेत् ॥ २३२ ॥ १ 'तत्सूक्ष्मं' ग. ।

१३८ आयुर्वेद्रीयग्रन्थमाला । [ अध्यायः अन्यत्रापि— तप्तं क्षाराम्लसंयुक्तं शशरक्तेन भावितम् । कान्तलोहं भवेच्छुद्धं सर्वदोषविवर्जितम् ॥ २३३ ॥ अत्रान्योऽपि विशेषः— तत्तद्व्याध्युपयुक्तानामौषधानां जलेऽयसः । प्रक्षेपं प्राह तत्त्वज्ञः सिद्धो नागार्जुनस्ततः ॥ २३४ ॥ ततः सामान्यविशेषशोधनतः । अन्यच्च— सर्वाभावे निषेक्तव्यं क्षीरतैलाज्यगोजले । शुद्धस्य शोधनं ह्येतद्गुणाधिक्याय संमतम् ॥ २३५ ॥ इति विशेषशोधनम् । अथ भस्मप्रकारः— संशुद्धं लोहचूर्णं तु समानीय भिषग्वरः । अपक्वतिन्दुकफलरसैः संमर्दयेद्दिनम् ॥ २३६ ॥ त्रिफलाभृङ्गराजस्य कण्टकारीरसस्य च । पुटानि त्रीणि दत्तानि सत्यं वारितरं भवेत् ॥ २३७ ॥ तत्तद्रोगानुपानेन सर्वरोगहरं भवेत् । लाला अनूपरायेण उपदिष्टं न संशयः ॥ २३८ ॥ शुद्धस्य सूतराजस्य भागो भागद्वयं बलेः । द्वयोः समं सारचूर्णं मर्दयेत्कन्यकाम्बुना ॥ २३९ ॥ यामद्वयं तस्य गोलं संवेष्ट्यैरण्डजैर्दलैः । ततः सूत्रेण संबध्य स्थापयेत्ताम्रसंपुटे ॥ २४० ॥ संमुद्र्य वदनं तस्य मृदा संशोष्य तत्पुनः । त्रिदिनं धान्यराशिस्थं तत उद्धृत्य मर्दयेत् ॥ २४१ ॥ रजस्तद्वस्त्रगलितं नीरे तरति हंसवत् । सोमामृताभिदमिदं लोहभस्म प्रकीर्तितम् ॥ २४२ ॥ इति निरग्निकं सोमामृताभिदं लोहभस्म । अथ रसपद्धत्यां सूर्यतापि लोहभस्म उक्तम्—

११. ] आयुर्वेदप्रकाशः । १३९ शाणोद्धान्तमयस्तु कान्तमथवा क्षित्त्वार्द्धलेलीतकं दत्त्वाऽङ्घ्र्यंशरसं विमर्द्य सलिलैर्भृङ्गाद्रिकर्णीरसैः । पक्वं सूर्यपुटैश्चतुर्दशदिनैरेण्डपत्रावृतं भस्म स्याद्गृहधूमधूसररुचि प्राग्धान्यराशिस्थितम् २४३ व्याख्या—संशुद्धं लोहं शाणोद्धान्तं शाणं शस्त्रोत्तेजकं शस्त्रं तत्र घर्षणेन उद्धान्तं पतितमयः सारलोहं, अथवा तेनैव प्रकरेण पतितं कान्तलोहं, तत्रार्धलेलीतकं गन्धकं क्षित्त्वा, तत्र चतुर्थांशं शुद्धपारदं च दत्त्वा, सर्वं विमर्द्य पूर्वं शुष्कमेव मर्दयित्वा, पश्चात्सलिलैः काञ्जिकादिभिः, पश्चाद्भृङ्गरसेन तथा अद्रिकर्णी गिरिकर्णी तस्याः स्वरसै- र्विमर्द्य, सूर्यपुटैः पक्वं चतुर्दशदिनैर्भावनाभिः, पश्चादे- रण्डपत्रावृतं गोलकं कृत्वा धान्यराशिस्थं त्रिदिनं, गृहधूमधू- सररुचि अलिन्दधूमतुल्यं भस्म स्यात् । अत्र सूर्यपुटानि प्रातः- कालादारभ्य सन्ध्यापर्यन्तं शुष्कमर्दनेन संपादनीयानि, भावना तु सन्ध्यायां यथाऽऽर्द्रभावं संपद्यते तथा कार्या । अत्र भावनानियमो नास्ति, मर्दनस्यैव भस्मसंपादनत्वात् । इति सूर्यतापि लोहभस्म । मतान्तरम्— सत्यानुभूतो योगीन्द्रैः क्रमोऽन्यो लोहमारणे । कथ्यते रामराजेन कौतूहलधियाऽधुना ॥ २४४ ॥ यथा— सूतकाद्विगुणं गन्धं दत्त्वा कुर्याच्च कज्जलीम् । द्वयोः समं लोहचूर्णं मर्दयेत्कन्यकाद्रवैः ॥ २४५ ॥ यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके । घर्मे धृत्वा रुब्रूकस्य पत्रैराच्छादयेद्बुधः ॥ २४६ ॥ यामद्वयाद्भवेदुष्णं धान्यराशौ न्यसेत्ततः । १ 'कौतूहलविधायिना' ग. ।

ी गिरिकर्णी, चाङ्गेरी अम्लपर्णी," Wait, look at "अद्रिकर्णी": "वरा त्रिफला, अद्रिकर्णी गिरिकर्णी, चाङ्गेरी अम्लपर्णी,"

Let's read line : "नीरवानीरो जलवेतसः, एषामन्यतमस्य रसैस्त्रिदिवसं पिष्टं" Wait, punctuation after जलवेतसः is a comma: "नीरवानीरो जलवेतसः, एषामन्यतमस्य रसैस्त्रिदिवसं पिष्टं"

Let's read line : "त्रिवारं भावितं, पश्चाद्दन्तिपुटैः पक्वं भस्म स्यात्त्रिंशत्संख्याकग-"

Let's read line : "जपुटैरित्यर्थः । परैरतोऽप्यधिकैर्गजपुटैरुत्कृष्टतरं जलतरं भस्म"

Let's read line : "स्यादित्यर्थः । अत्र वाशब्दः समुच्चये । तेन एतैरौषधैर्यथा"

Let's read line : "त्रिंशत्पुटानि भवन्ति तथा कार्यम् । त्रिदिवसशब्दस्तु भाव-"

Let's read line : "नात्रयवाचकः, न त्वैकैकदिनसाध्यभावनावाचकः । इत्यग्नि-"

Let'

११.] आयुर्वेदप्रकाशः । १४१ तत्पञ्चमांशं दरदं क्षिप्त्वा सर्वं विमर्दयेत् । कुमारीनीरतः श्लक्ष्णं पुटेद्गजपुटेन तु ॥ २५२ ॥ त्रिवारं त्रिफलाक्वाथैस्तत्संख्यैरपि तत्त्ववित् । निरुत्थं जायते लोहं त्रिधाऽप्यत्र न संशयः ॥ २५३ ॥ इत्यग्निपक्वं षट्पुटि लोहभस्म । मतान्तरम्— निम्बूफलस्य पानीयैः सकासीसैः प्रपूरिते । कांस्यपात्रे क्षिपेत्खड्गखण्डांश्चण्डातपस्थितान् ॥ २५४ ॥ दिनैकेन स्फुन्त्येते दिनान्ते तांस्तु पेषयेत् । त्रिफलाक्वाथपिष्टं तच्चूर्णं गजपुटे पचेत् ॥ २५५ ॥ पौनःपुन्येन यावत्स्यात्तद्वारितरमुत्तमम् । ततः पारदगन्धाभ्यां तत्समाभ्यां हि मर्दितम् ॥ पूर्ववद्धान्यराशिस्थं तीक्ष्णं सर्वोत्तमं भवेत् ॥ २५६ ॥ इति लोहभस्म । मतान्तरम्— लोहं पत्रमतीव तप्तमसकृ(१००)त्क्वाथे क्षिपेत्त्रैफले चूर्णीभूतमिदं पुनस्त्रिफलजे क्वाथे पचेद्गोजले । मत्स्याक्षीत्रिफलारसेन पुटयेद्यावन्निरुत्थं भवे- त्पश्चादाज्यमधुप्लुतं सुपुटितं सिद्धं भवेदायसम् ॥२५७॥ मत्स्याक्षी शालञ्ची । इति लोहभस्म । मतान्तरम्— परिप्लुतं दाडिमपत्रवारा लौहं रजः स्वल्पकटोरिकायाम् । म्रियेत वस्त्रावृतमर्कभासा योग्यं पुटैः स्यात्त्रिफलादिकानाम् ॥ इति लोहभस्म । मतान्तरम्— लोहचूर्णं पलं खल्वे सोरकस्य पलं तथा । अच्छगन्धपलं चापि सर्वमेकत्र मर्दयेत् ॥ २५९ ॥ कुमार्यद्भिर्दिनं कुर्याद्गोलकं रुबुपत्रकैः । संवेष्ट्य च मृदा लिप्त्वा पुटेद्गजपुटे भिषक् ॥ २६० ॥

१४२ आयुर्वेदीयग्रन्थमाला । [अध्यायः स्वाङ्गशीतं समुद्धृत्य सिन्दूराभमयोरजः । मृतं वारितरं ग्राह्यं सर्वकार्यकरं परम् ॥ २६१ ॥ इत्येकपुटि लोहभस्म । सर्वमेव मृतं लोहं ध्मातव्यं मित्रपञ्चकैः । यद्येवं स्यान्निरुत्थं तु सेव्यं वारितरं हि तत् ॥ २६२ ॥ मधुघृतगुग्गुलुगुञ्जाटङ्कणमेतत्तु मित्रपञ्चकं नाम । मेलयति सप्तधातूनङ्गाराग्नौ प्रधमनेन ॥ २६३ ॥ मध्वाज्यं मृतलोहं च सरूप्यं संपुटे क्षिपेत् । रुद्धा ध्माते च संग्राह्यं रूप्यं वै पूर्वमानकम् ॥ तदा लोहं मृतं विद्यादन्यथा मारयेत्पुनः ॥ २६४ ॥ इति मृतामृतलोहपरीक्षा । गन्धकेनोत्थितं लोहं तुल्यं खल्वे विमर्दयेत् । दिनैकं कन्यकाद्रावै रुद्ध्वा गजपुटे पचेत् ॥ इत्येवं सर्वलोहानां कर्त्तव्येयं निरुत्थितिः ॥ २६५ ॥ इत्यपक्वस्य निरुत्थीकरणम् । अथ मृतलोहस्यामृतीकरणम्— द्विगुणे त्रिफलाक्वाथे तुल्ये पिष्ट्वाऽप्ययोरजः । विपचेन्मध्यपाकेन सर्वव्याधिजरापहम् ॥ २६६ ॥ इत्यमृतीकरणम् । जम्बीररससंयुक्ते दरदे तप्तमायसम् । बहुवारं विनिक्षिप्तं म्रियते नात्र संशयः ॥ २६७ ॥ अथ लोहद्रुतिः— देवदाल्या रसैर्भाव्यं गन्धकं दिनसप्तकम् । तस्य प्रवापमात्रेण लोहास्तिष्ठन्ति सूतवत् ॥ २६८ ॥ सुरदालिभवं भस्म नरमूत्रेण गालितम् । त्रिसप्तवारं तत्क्षारावापात्कान्तद्रुतिर्भवेत् ॥ २६९ ॥ इति कान्तद्रुतिः ।

११.] आयुर्वेदप्रकाशः । १४३ अथ मण्डूरोत्पत्तिनामलक्षणगुणशोधनमारणानि । ध्मायमानमयो वह्नौ परित्यजति यन्मलम् । तत् किट्टसंज्ञां लभते तदनेकविधं मतम् ॥ २७० ॥ उक्तं च— ध्मायमानस्य लोहस्य मलं मण्डूरमुच्यते । लोहसिंहानिका किट्टी सिंहानं च निगद्यते ॥ यस्य लोहस्य यत्प्रोक्तं तत्किट्टमपि तद्गुणम् ॥ २७१ ॥ लक्षणानि— ईषच्छोणं गुरु स्निग्धं मुण्डकिट्टं जगुर्बुधाः । भिन्नाञ्जनप्रभं किट्टं विशेषाद्गुरु निर्व्रणम् ॥ २७२ ॥ निःकोटरं च विज्ञेयं तीक्ष्णकिट्टं मनीषिभिः । पिङ्गं रूक्षं गुरुतमं मन्ददीर्घमकोटरम् ॥ छिन्नं तु रजतच्छायं स्यात्तत्किट्टं तु कान्तजम् ॥ २७३ ॥ अन्यच्च— अकोटरं गुरु स्निग्धं दृढं शतसमाधिकम् । चिरोज्झितजनस्थानसंस्थितं किट्टमाहरेत् ॥ २७४ ॥ शतोत्थमुत्तमं किट्टं मध्यं चाशीतिवार्षिकम् । अधमं षष्टिवर्षीयं ततो हीनं विषोपमम् ॥ २७५ ॥ अथ किट्टमारणम्— अक्षाङ्गारैर्धमेत्किट्टमक्षपात्रस्थगोजले । निर्वापयेदष्टवारं ततः सूक्ष्मं विचूर्णयेत् ॥ तच्चूर्णं मधुना लीढं पाण्डुं हन्ति सकामलम् ॥ २७६ ॥ अथ किट्टगुणाः— किट्टं कषायं शिशिरं पाण्डुश्वयथुशोफजित् । हलीमकं कामलां च हरते कुम्भकामलाम् ॥ २७७ ॥

१४४ आयुर्वेदौयग्रन्थमाला । [अध्यायः किट्टाद्दशगुणं मुण्डं मुण्डात्तीक्ष्णं शताधिकम् । तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात्कुरुते बलम् ॥ २७८ ॥ सुवर्णमथवा रौप्यं मृतं यत्र न विद्यते । कान्तलोहेन कर्माणि तत्र कुर्याद्भिषग्वरः ॥ २७९ ॥ स्वर्णाभावे मतं ताप्यं ततोऽपि स्वर्णगैरिकम् । रूप्यादीनामलाभे तु प्रक्षिपेद्विमलादिकम् ॥ २८० ॥ इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु- र्वेदप्रकाशे एकादशोऽध्यायः ॥ ११ ॥ अथ द्वादशोऽध्यायः । अथोपधातुनिरूपणम् । अथ तेषु स्वर्णमाक्षिकम्—'सोनामखी' इति लोके । स्वर्णमाक्षिकमाख्यातं तापीजं मधुमाक्षिकम् । ताप्यं माक्षिकधातुश्च माक्षिकं चैव तन्मतम् ॥ १ ॥ किंचित्सुवर्णसाहित्यात्स्वर्णमाक्षिकमीरितम् । उपधातुः सुवर्णस्य किंचित्स्वर्णगुणैः समम् ॥ २ ॥ न केवलं स्वर्णगुणा वर्तन्ते स्वर्णमाक्षिके । द्रव्यान्तरस्य संसर्गात्सन्त्यन्येऽपि गुणा यतः ॥ ३ ॥ किन्तु तस्यानुकल्पत्वात् किञ्चिदूना गुणास्ततः । तथाऽपि काञ्चनाभावे दीयते स्वर्णमाक्षिकम् ॥ ४ ॥ कान्यकुब्जाख्यविषये जायते स्वर्णमाक्षिकम् । तपतीतीरतोऽपि स्यादित्येवं तद्द्वियोनिकम् ॥ ५ ॥ कान्यकुब्जोद्भवं ताप्यं विज्ञेयं स्वर्णवर्णकम् । तपतीतीरगं तत्तु पञ्चवर्णमुदाहृतम् ॥ ६ ॥ लक्षणम्— स्वर्णाभं स्वर्णमाक्षीकं निष्कोणं गुरुतायुतम् । कालिमां विकिरेत्तत्तु करे घृष्टं न संशयः ॥ ७ ॥

१२.] आयुर्वेदप्रकाशः। १४५ अथ मारणयोग्यस्य लक्षणम्— स्वर्णवर्णं गुरु स्निग्धमीषन्नीलच्छवि स्फुटम् । कषे कनकवद्घृष्टं तद्वरं हेममाक्षिकम् ॥ ८ ॥ गुणाः— सुवर्णमाक्षिकं स्वादु तिक्तं वृष्यं रसायनम् । चक्षुष्यं वस्तिहृत्कण्ठपाण्डुमेहविषोदरम् ॥ ९ ॥ अर्शः शोफं विषं कण्डूं त्रिदोषमपि नाशयेत् । अनुपानं वराव्योषं वेल्लं साज्यं हि माक्षिके ॥ १० ॥ अथाशुद्धस्यासम्यग्मारितस्य गुणाः— मन्दानलत्वं बलहानिमुग्रां विष्टम्भितां नेत्रगदान् सकुष्ठान् । मालां विधत्तेऽपि च गण्डपूर्वां शुध्यादिहीनं खलु माक्षिकं तु ॥ अथोपधातूनां भिन्नानि शोधनानि धातुशोधनेभ्यो विलक्ष- णानि सन्ति । तत्र स्वर्णमाक्षिकशोधनम्— माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च । मातुलुङ्गद्रवैर्वाऽथ जम्बीरस्य द्रवैः पचेत् ॥ १२ ॥ चालयेल्लोहजे पात्रे यावत्पात्रं सुलोहितम् । भवेत्ततस्तु संशुद्धं स्वर्णमाक्षिकमत्र तु ॥ १३ ॥ माक्षिकस्य माक्षिकचूर्णस्य । अथ मारणम्— माक्षिकस्य चतुर्थांशं दत्त्वा गन्धं विमर्दयेत् । उरुबूकस्य तैलेन ततः कार्याऽस्य चक्रिका ॥ १४ ॥ शरावसंपुटे धृत्वा पुटेद्गजपुटेन च । धान्यस्य तुषमूर्ध्वाधो दत्त्वा शीतं समुद्धरेत् । सिन्दूराभं भवेद्भस्म माक्षिकस्य न संशयः ॥ १५ ॥ इति स्वर्णमाक्षिकमारणम् । मतान्तरम्— कुलत्थस्य कषायेण घृष्ट्वा तैलेन वा पुटेत् । अजामूत्रेण वा नूनं म्रियते स्वर्णमाक्षिकम् ॥ १६ ॥ १३

१४६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः इति स्वर्णमाक्षिकमारणम् । अथ सत्त्वाकृष्टिः— एरण्डोत्थेन तैलेन गुञ्जा क्षौद्रं च टङ्कणम् । मर्दितं तस्य वापेन सत्त्वं माक्षिकजं भवेत् ॥ १७ ॥ इति माक्षिकसत्त्वम् । अथ तारमाक्षिकम्— तारमाक्षिकमन्यत्तु तद्भवेद्रजतोपमम् । किंचिद्रजतसाहित्यात्तारमाक्षिकमीरितम् ॥ १८ ॥ अनुकल्पतया तस्य ततो हीनगुणाः स्मृताः । न केवलं रौप्यगुणा वर्तन्ते तारमाक्षिके ॥ १९ ॥ द्रव्यान्तरस्य संसर्गात् सन्त्यन्येऽपि गुणा यतः ॥ २० ॥ अथैतत्स्वरूपलक्षणम्— कांस्यवच्चाकचिक्याढ्यं कषे घृष्टे तु रूप्यवत् । गुरु स्निग्धं सितं यत्तच्छ्रेष्ठं स्यात्तारमाक्षिकम् ॥ २१ ॥ स्वर्णमाक्षिकवद्दोषा विज्ञेयास्तारमाक्षिके । अतस्तद्दोषशान्त्यर्थं शोधनं तस्य कथ्यते ॥ २२ ॥ यथा— कर्कोटीमेषशृङ्ग्युत्थैर्द्रवैर्जम्बीरजैर्दिनम् । भावयेदातपे तीव्रे विमला शुध्यति ध्रुवम् ॥ २३ ॥ विमला तारमाक्षिकम् । कर्कोटी खखसा, मेषशृङ्गी मेढासिंगी । तन्मारणम्— स्वर्णमाक्षिकवज्ज्ञेयं तारमाक्षिकमारणम् । विमलाया गुणाः किंचिन्न्यूनाः कनकमाक्षिकात् ॥ २४ ॥ इति तारमाक्षिकशोधनमारणम् ॥ अथ विमला । माक्षिकस्यैव भेदान्तरं, प्रायशस्तत्रैव तपतीतीरसंनिधावु- त्पद्यते । तत्स्वरूपलक्षणशोधनमारणानि रसपद्धत्यां यथा—

१२.] । आयुर्वेदप्रकाशः । १४७ तापीजं द्विरुदाहरन्ति विमलामाक्षीकभेदादिह त्रेधाऽऽद्या तु सुवर्णकांस्यरजतच्छायानुकारादमूः । तिस्रोऽप्यस्रयुताश्चतुस्त्रिफलकावृत्ताः स्वनामश्रियो मध्योक्ता सफला तु शुध्यति दिनं वासाजशृङ्गीरसे २५ स्विन्ना जम्भीरसेऽपि तालवलिना वस्वंशकेनाम्भसा जम्भस्यैव परिप्लुता दशपुटैर्जीवेन्न योगानुगाः ॥ २६ ॥ व्याख्या—तापीजं माक्षिकं द्विविधमुक्तं, विमलामाक्षि- कभेदात् । इह द्विविधभेदमध्ये, आद्या विमला, सा तु त्रेधा त्रिविधा । विमलाशब्दस्तु त्रिलिङ्गः । एका विमला सुवर्ण- च्छायानुकारात्; द्वितीया कांस्यच्छायानुकारात्, तस्सात्कां- स्यविमलाऽप्यस्तीति सूचितं; तृतीया रजतच्छायानुकारात्; तत्तन्नामपूर्विका विमला भवन्ति । यथा—स्वर्णविमला, कांस्य- विमला, रजतविमला चेति । तत्र स्वर्णविमला स्वर्णमाक्षिक- भेदः, कांस्यविमला कांस्यमाक्षिकभेदः, एतद्वचनसामर्थ्यादेव कांस्यस्यापि माक्षिकोऽस्तीति गम्यते, रजतविमला रजतमाक्षि- कभेदः । अथैषां माक्षिकेभ्यो भेदकानि लक्षणान्याह— अमूस्तिस्रोऽपि; अस्रं धारा, फलकं चिपिटं, वृत्तत्वं वर्तुलत्वं; स्वनामश्रिय इत्यनेन स्वर्णादिप्रभा उक्ताः, मध्या कांस्यवि- मला सफला उक्ता सचिपिटोक्ता । त्रयाणामपि शोधनमार- णमाह—शुध्यन्तीति । दिनं चतुर्यामम् । वासा अटरूषः, अजशृङ्गी मेषशृङ्गी, अनयो रसे चूर्णीकृत्य वस्त्रबद्धं कृत्वा स्विन्नास्तथा निम्बुरसे स्विन्नाः शुध्यन्ति। पश्चात्तालकः शुद्धः, बलिर्गन्धकः सोऽपि शुद्धः, तेन समुचितेन अष्टमांशेन जम्भा- म्भसा त्रिवारं भाविता दशपुटैर्न जीवेत् म्रियते । पुटे च प्रत्येकं भावना देया । तद्रस योगानुगं भवति यत्र रसे उक्तं तत्र प्रयोज्यम् । उक्तं च—

१४८ आयुर्वेदीयग्रन्थमाला । [ अध्यायः त्रेधा स्याद्विमलः स्वर्णपूर्वको रूप्यपूर्वकः । कांस्यपूर्वश्च विख्यातस्तत्तत्कान्त्या स लक्ष्यते ॥ २७ ॥ विमलस्तपतीतीरवर्तिन्यद्रिविभागके । उत्पद्यते परैः कांस्यमाक्षिकोऽयमिति स्मृतः ॥ २८ ॥ आद्यो हेमक्रियासक्तश्चरमः श्वेतकर्मसु । मध्यो रजतनामा यः स प्रोक्तो वै रसादिषु ॥ २९ ॥ अथ लक्षणगुणाः— वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः । मरुत्पित्तहरो वृष्यो विमलश्च रसायनः ॥ ३० ॥ अनुपानमपि रसपद्धत्याम्— वेल्लव्योषवराज्येन विमलः सेवितो यदि । भगन्दरादिकान् रोगान्नृणां जयति दुस्तर rank... दुस्तरान् ॥ ३१ ॥ अथ रसपद्धत्याम्— माक्षीको द्विरहादिमः कनकरुग्दुर्वर्णवर्णोऽपरः कांस्यश्रीकमुशन्ति

१२.] आयुर्वेदप्रकाशः । १४९ त्यर्थः । विमलाभ्यो भेदकं लक्षणमाह-निष्कोणा धारार- हिताः, गुरवो भारयुक्ताः, करे हस्ते घृष्टाः कालिकां किरन्ति । शुद्धिमाह-खिन्ना इति । रुबुतैलमेरण्डतैलं, लुङ्गं मातुलुङ्गं तत्सलिलैः, कर्कोटिका खेखसा, तस्याः कन्दं मूलं, तयो रम्बुना जलेन पक्वाः शुध्यन्ति । स्वेदनं तु चूर्णीकृत्य दोलायन्त्रेण । पश्चाल्लुङ्गाम्बु मातुलुङ्गरसः, गन्धकश्च, आभ्यां भाविताः, कूर्मपुटैस्त्रिभिर्दग्धा भस्मानि स्युः । ते च व्युत्क्र- मेण कांस्यतारसुवर्णसंज्ञकाः जघन्यमध्यमोत्तमा उदिताः । वृष्या शुक्रप्रदाः । पाण्डुपटीयसः पाण्डुघ्नाः । तथा बलकराः योगे उपयुक्ताः सन्तो बलकरा भवन्ति । इति माक्षीकविम- लानिर्णयः ॥ अथ तुत्थोत्पत्तिनामलक्षणशोधनगुणाः । गरुडेनामृतं पीत्वा पश्चात्पीतं विषं पुरा । वान्तं मरकताद्रौ तु तद्धनं शिखिदुत्थकम् ॥ ३४ ॥ तुत्थं वितुन्नकं चापि शिखिग्रीवं मयूरकम् । तुत्थं ताम्रोपधातुः स्यात्किञ्चित्ताम्रेण तद्भवेत् ॥ ३५ ॥ किंचित्ताम्रगुणं तत्स्याद्वक्ष्यमाणगुणं च तत् । तुत्थस्यैव भवेद्भेदः खर्परं तद्गुणं च तत् ॥ ३६ ॥ शिखिकण्ठसदृकछायं भाराढ्यं तुत्थकं च यत् । गुणवत्तत्परिशेयमन्यद्धीनगुणं मतम् ॥ ३७ ॥ गुणाः- तुत्थं तु कटुकं क्षारं कषायं वामकं लघु । लेखनं भेदनं शीतं चक्षुष्यं कफपित्तहृत् ॥ ३८ ॥ विषाश्मंकुष्ठकण्डूघ्नं खर्परं चापि तद्गुणम् । वान्तिं भ्रान्तिमशुद्धं तत् कुरुते, शोधितं शुभम् ॥ ३९ ॥ १ 'विषापस्मारकण्डूघ्नं' ग. ।