आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 169, कुल 232 में से
संदर्भ में पढ़ें[ १५० आयुर्वेदीयग्रन्थमाला । [ अध्यायः शोधनम्— विष्ठया मर्दयेत्तुत्थं मार्जारककपोतयोः दशांशं टङ्कणं दत्त्वा पचेल्लघुपुटे तथा ॥ पुटं दध्ना पुटं क्षौद्रैर्देयं तुत्थविशुद्धये ॥ ४० ॥ इति तुत्थशुद्धिः । प्रकारान्तरम्— ओतोर्विशा समं तुत्थं सक्षौद्रं टङ्कणाङ्घ्रियुक् । त्रिधैव पुटितं शुद्धं वान्तिभ्रान्तिविवर्जितम् ॥ ४१ ॥ प्रकारान्तरम्— अम्लवर्गेण लुलितं स्नेहसिक्तं हि तुत्थकम् । दोलायां वाजिगोमूत्रे दिनं पक्वं विशुध्यति ॥ ४२ ॥ इति तुत्थशुद्धिः । क्वचिन्मारणमप्युक्तं तुत्थकस्य— गन्धाश्मटङ्कणयुतं लकुचद्रावमर्दितम् । अन्धमूषागतं द्वित्रिकुकुटैर्मृतिमाप्नुयात् ॥ ४३ ॥ अथ तुत्थसत्त्वाकृष्टिः— तुत्थकं टङ्कणयुतं निम्बूद्रवविमर्दितम् । अन्धमूषागतं ध्मातं सत्त्वं मुञ्चति ताम्रकम् ॥ ४४ ॥ अथात्र मुद्रिकोपयुक्तत्वेन भूनागस्वरूपं सत्त्वाकृष्टिश्च प्रोच्यते भूनागः क्षितिनागश्च भुजङ्गो रक्तजन्तुकः । क्षितिजः क्षितिजन्तुश्च भूमिजो रक्ततुण्डकः ॥ ४५ ॥ गुणाः— भूनागो वज्रमारः स्यान्नानाविज्ञानकारकः । रसस्य जारणे प्रोक्तं तत्सत्त्वं तु रसायनम् ॥ ४६ ॥ वर्षासु वृष्टिसंक्लिन्नभूगर्भे संभवन्ति हि । जन्तवः कृमिरूपा ये ते भूनागा इति स्मृताः ॥ ४७ ॥ चतुर्विधास्तु भूनागाः स्वर्णादिखनिसंभवाः । स्वर्णभूमिभवाः पीता रूप्यभूमिभवाः सिताः ॥ ४८ ॥