आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 198, कुल 232 में से
संदर्भ में पढ़ें१३.] आयुर्वेदप्रकाशः । १७९ वैदूर्यं श्यामशुभ्राभं समं स्वच्छं गुरु स्फुटम् । भ्रमच्छुभ्रोत्तरीयेण गर्भितं शुभमीरितम् ॥ १०९ ॥ घृष्टं यदात्मना स्वच्छं स्वच्छायां निकषात्मनि । स्फुटं प्रदर्शयेदेतद्वैदूर्यं जात्यमुच्यते ॥ ११० ॥ वैदूर्यं रक्तपित्तघ्नं प्रजायुर्बलवर्धनम् । पित्तप्रधानरोगघ्नं दीपनं वृष्यमेव च ॥ १११ ॥ अथ गोमेदम् । सुस्वच्छगोजलच्छायं स्निग्धं स्वच्छं समं गुरु । निर्दलं मसृणं दीप्तं गोमेदं शुभमष्टधा ॥ ११२ ॥ गोमेदकोऽम्ल उष्णश्च वातकोपविकारजित् । दीपनः पाचनश्चैव धृतोऽयं पापनाशनः ॥ ११३ ॥ पात्रे यत्र न्यस्ते पयः प्रयात्येव गोजलोज्ज्वलितम् । घर्षेऽप्यहीनकान्ति गोमेदं तं बुधा विदुर्जात्यम् ॥ ११४ ॥ गोमेदं कफपित्तघ्नं क्षयपाण्डुक्षयंकरम् । दीपनं पाचनं रुच्यं त्वच्यं बुद्धिप्रबोधनम् ॥ ११५ ॥ विच्छायं लघु रूक्षाङ्गं चिपिटं पटलाचितम् । निष्प्रभं पीतकाचाभं गोमेदं न शुभावहम् ॥ ११६ ॥ अथेन्द्रनीलम् । एकच्छायं गुरु स्निग्धं स्वच्छं पिण्डितविग्रहम् । मृदुर्मध्ये लसज्ज्योतिः सप्तधा नीलमुत्तमम् ॥ ११७ ॥ श्वासकासहरं वृष्यं त्रिदोषघ्नं सुदीपनम् । विषमज्वरदुर्नार्मपापघ्नं नीलमीरितम् ॥ ११८ ॥ नीलकस्तिक्तकः श्रेष्ठः कफपित्तानिलापहः । यो दधाति शरीरस्य शौरिर्मङ्गलदो भवेत् ॥ ११९ ॥ न निम्नो निर्मलो गात्रे मसृणो गुरुदीप्तिकः । तृणग्राही मृदुन्नीलो दुर्लभो लक्षणान्वितः ॥ १२० ॥