आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 28, कुल 232 में से
संदर्भ में पढ़ें१.] आयुर्वेदप्रकाशः । ९ अन्यत्राऽपि।— जलैः सोष्णारनालैर्वा क्षालनादुत्थितो भवेत् । अथवा पातनायन्त्रे पातनाडुत्थितो भवेत् ॥६७॥ इति । अथ पातनम् । तच्च त्रिविधं—ऊर्ध्वाधस्तिर्यग्भेदात्; तत्रोर्ध्वपातनं यथा— भागास्त्रयो रसस्यार्कचूर्णस्यैकोऽथ निम्बुकैः ॥ ६८ ॥ एतत्संमर्दयेत्तावद्यावदेति पिण्डताम् । तत्पिण्डं तलभाण्डस्थमूर्ध्वभाण्डे जलं क्षिपेत् ॥ ६९ ॥ कृत्वाऽऽलवालं केनापि दत्त्वा चार्द्रं हि प्लोत कम् । संमुद्रयाग्निमधस्तस्य चतुर्यामं प्रबोधयेत् ॥ ७० ॥ युक्त्योर्ध्वभाण्डसंलग्नं गृह्णीयात्पारदं ततः । ऊर्ध्वपातनमित्युक्तं भिषग्भिः सूतशोधने ॥ ७१ ॥ ससूतभाण्डविवरमन्यद्विलति भाण्डकम् । तथा संधिर्द्वयोः कार्यः पातनात्रययन्त्रके ॥ ७२ ॥ यन्त्रप्रमाणं वदनाङ्कुरोर्ज्ञेयं विचक्षणैः । रसस्य मानानियमात्कथितुं नैव शक्यते ॥ ७३ ॥ अर्कचूर्णस्य ताम्ररजसः ॥ अथान्यन्मतम् ।— मयूरग्रीवताप्याभ्यां नष्टपिष्टीकृतस्य च । यन्त्रे डमरुके कुर्याद्रसेन्द्रस्योर्ध्वपातनम् ॥ ७४ ॥ मयूरग्रीवं तुत्थकं, ताप्यं स्वर्णमाक्षिकं, नष्टपिष्टीकृतस्य 'कुमारिकाद्रवयोगेन' इति शेषः ॥ अथाधःपातनम् । त्रिफलाशिग्रुशिखिभिर्लवणासुरिसंयुतैः । नष्टपिष्टं रसं कृत्वा लेपयेदूर्ध्वभाण्डके ॥ ७५ ॥