आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 40, कुल 232 में से
संदर्भ में पढ़ें१.] आयुर्वेदप्रकाशः । २१ संमर्द्यः परिपात्य यन्त्रविधिना निष्कासितः सप्तधा । शुद्धः पारदमर्दकैर्निगदितो वैद्यैरवैद्यैर्नरैः ॥ १४८ ॥ अथान्यन्मतम्— श्रीखण्डं देवदारुं च काकतुण्डीजयाद्रवम् । कर्कोटीमुसलीकन्याद्रवं दत्त्वा विमर्दयेत् ॥ १४९ ॥ दिनैकं पातयेत्पात्रे तच्छुद्धं विनियोजयेत् । अथान्यत्सिद्धमतम्— कुमार्या च निशाचूर्णैर्दिनैकं मर्दयेद्रसम् ॥ १५० ॥ पातयेत्पातनायन्त्रे शुद्धो भवति पारदः । अथान्यत्सिद्धमतम्— एकेन लशुनेनापि शुद्धो भवति पारदः ॥ १५१ ॥ तप्तखल्वे मासमेकं पिष्टो लवणसंयुतः । अथवा ग्राहयेत्सूतं दरदात्तन्निगद्यते ॥ १५२ ॥ कञ्चुकैर्नागवङ्गाद्यैर्विमुक्तो रसकर्मणि । हिङ्गुलाकृष्टसूतस्तु जीर्णगन्धसमो गुणैः ॥ १५३ ॥ निम्बपत्ररसैः पेष्यं हिङ्गुलं याममात्रकम् । जम्भीराणां द्रवैर्वाऽथ पात्यं पातनयन्त्रके ॥ १५४ ॥ तं सूतं योजयेत्पश्चात्सप्तकञ्चुकवर्जितम् । इत्येवं शुद्धमाख्यातं यथेष्टैकं प्रकारयेत् ॥ १५५ ॥ अन्यत्रापि— अथवा दरदाकृष्टं स्विन्नं लवणाम्बुभिस्तु दोलायाम् । रसमादाय यथेच्छं कर्तव्यस्तेन भेषजो योगः ॥ १५६ ॥ निम्बूरसेन संपिष्टात् प्रहरं दरदाद्दृढम् । ऊर्ध्वपातनयन्त्रेण ग्राह्यो निर्मलो रसः ॥ १५७ ॥ इति सुगमशोधनम् ॥ १ ‘पारदकर्मठैः’ क. । २ ‘पातयेत्पश्चात्’ क. ।