आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 41, कुल 232 में से
संदर्भ में पढ़ें२२ आयुर्वेदीयग्रन्थमाला । [ अध्यायः अथैवं शोधितस्य मुखकरणमुक्तं तन्त्रान्तरे ।— सास्यो रसः स्यात्पटुशिग्रुतुत्थैः सराजिकैः सोषणकैस्त्रिरात्रम् । पिष्टस्ततः स्विन्नतनुः सुवर्णमुखानयं खादति सर्वधातून् ॥ अन्यन्मतम् ।— अथ पङ्कबिन्दुकीयैश्च रसो मर्द्यस्त्रिवासरम् । लवणाम्लैर्मुखं तस्य जायते ग्रांसलोलुपम् ॥ १५९ ॥ ‘अथवा बिन्दुलीकीटैः’ इत्यपि पाठान्तरम् । शार्ङ्गधरोऽपि— कालकूतो वत्सनाभः शृङ्गीकश्च प्रदीपनः । हालाहलो ब्रह्मपुत्रो हारिद्रः सक्तुकस्तथा ॥ १६० ॥ सौराष्ट्रिक इति प्रोक्ता विषभेदा अमी नव । अर्कसेहुण्डधत्तूरलाङ्गलीकरवीरकाः ॥ १६१ ॥ गुञ्जाहिफेनावित्येताः सप्तोपविषजातयः । एतैर्विमर्दितः सूतश्छिन्नपक्षः प्रजायते ॥ १६२ ॥ मुखं च जायते तस्य धातूंश्च ग्रसतेतराम् । अथवा त्रिकटु क्षारौ राजी लवणपञ्चकम् ॥ १६३ ॥ रसोनो नवसारश्च शिग्रुश्चैकत्र चूर्णितैः । समांशैः पारदादेतैर्जम्बीरोत्थद्रवेण च ॥ १६४ ॥ निम्बुतोयैः काञ्जिकैर्वा सोष्णखल्वे विमर्दयेत् । अहोरात्रत्रयेण स्याद्रसे धातुचरं मुखम् ॥ १६५ ॥ वस्तुतस्तु दीपनस्यैवापरपर्यायो मुखकरणमिति न पृथक् संस्कारः, तत्साधकान्यूनविंशतिकर्माणीति नियमभङ्गात् ॥ अथैवं संशुद्धरसे आदौ गन्धकजारणा । शिवागमे— अजीर्णं तु अबीजं तु सूतकं यस्तु घातयेत् । ब्रह्महा स दुराचारी मम द्रोही महेश्वरि ! ॥ १६६ ॥ १ ‘धातुघस्मरम्’ ख. । २ ‘त्वरन्’ क. ।