आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 42, कुल 232 में से
संदर्भ में पढ़ें१. ] आयुर्वेदप्रकाशः । २३ अन्यत्रापि— गुरुशास्त्रे परित्यज्य विना जारितगन्धकात् । रसं निर्माति दुर्मेधाः शपेत्तं परमेश्वरः ॥ १६७ ॥ तत्र गन्धकजारणा बहिर्धूमान्तर्धूमभेदेन द्विविधा । आद्या यथा—‘तत्र षड्गुणगन्धकजारणक्रिया साधीयसी निगद्यते’ इत्युक्तं प्रागेव ॥ रसगुणबलिजारणं विनाऽयं न खलु रुजां हरणक्षमो रसेन्द्रः ॥ न जलदकलधौतपाकहीनः स्पृशति रसायनतामिति प्रतिज्ञा ॥ १६८ ॥ तन्निमित्तकं सिकतायन्त्रद्वयं कथ्यते । यथा—निरवधिनि- ष्पीडितमृद्वस्त्रादिपरिलिप्तामतिकठिनकाचघटीमग्रे वक्ष्यमाण- प्रकारां रसगर्भिणीमधस्तर्जन्यङ्गुलिप्रमाणितच्छिद्रायामनुरूप- स्थालिकायामारोप्य छिद्रस्य परितो द्वित्र्यङ्गुलिमितेन लवणेन निरन्तरालीकरणपुरःसरं सिकताभिरापूर्य वर्धमानकमारोपणीयः; क्रमतश्च त्रिचतुराणि पञ्चषाणि वा वासराणि ज्वलनज्वालया पचनीयमित्येकं यन्त्रं; हस्तैकमात्रप्रमाणभूगर्भान्तर्निखातां प्रागुक्तकाचघटीं नातिचिपिटमुखीं नात्युच्चमुखीं मषी- भाजनप्रायां खर्परचक्रिकया काचचक्रिकया वा निरुद्धवदन- विवरां मृण्मयीं वा घटीं विधाय करीषैरुपरि पुटो देय इत्य- न्यद्यन्त्रम् । ‘यन्त्रमध्ये तु भूधरः’ इति त्रिविक्रमः । ‘कूर्मयन्त्रे रसे गन्धं षड्गुणं जारयेद्बुधः’ इत्यन्ये । अत्र पक्षे राग- स्तथा न स्यात्, तेनादौ त्रिगुणं जारयित्वा शेषः कच्छपि- कोदरे देयः, तदा रागः साधुः स्यात् । अत्र कज्जलिमन्तरेण केवलगन्धकमपि साम्येन जारयन्ति ॥ १ प्राग्वत्काचघटी’ ख. ।