आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 44, कुल 232 में से
संदर्भ में पढ़ें१. ] आयुर्वेदप्रकाशः । २५ अन्तर्धूमविपाचितषड्गुणगन्धेन जारितः सूतः । स भवेत्सहस्रवेधी तारे ताम्रे भुजङ्गे च ॥ १७३ ॥ रसरत्नाकरे ।— जीर्णे शतगुणे गन्धे शतवेधी भवेद्रसः । सहस्रगुणिते जीर्णे सहस्रांशेन वेधयेत् ॥ १७४ ॥ एतत्प्रकारस्तु तत्रैव द्रष्टव्यः; प्राधान्यं षड्गुणस्य सर्वसं- मतम् ॥ अथ षड्गुणगन्धकजारणायां कच्छपयन्त्रं यथा— आकण्ठं कलशं भूमौ निखाय जलसंभृतम् । शरावस्तन्मुखे स्थाप्यो मध्ये छिद्रसमन्वितः ॥ १७५ ॥ नीरावियोगिनीं तत्र छिद्रे काचविलेपिताम् । मृन्मूषां स्थापयेत्तस्यामूर्ध्वाधस्तुल्यगन्धकम् ॥ १७६ ॥ रसं निक्षिप्य तस्योर्ध्वं शरावेण विमुद्रयेत् । वन्योपलानि तस्योर्ध्वं ज्वालयेद्गुरुमार्गतः ॥ १७७ ॥ स्वाङ्गशीतं समुद्धृत्य पुनस्तुर्यांशगन्धकम् । दत्त्वा पूर्वक्रमेणैव जारयेत् षड्गुणं बलिम् ॥ १७८ ॥ इति ॥ अथान्यप्रकारः ।— सूते गन्धं रसैकांशं निक्षिप्य मृदुखल्वके । तावत्संकुट्टयेत्पिण्डं भवेद्वा ताम्रपात्रके ॥ १७९ ॥ तत्तुल्यं गन्धकं दत्त्वा रुद्ध्वा तल्लोहसंपुटे । पुटयेद्भूधरे यन्त्रे यावज्जीर्यति गन्धकः ॥ १८० ॥ एवं पुनः पुनर्गन्धं दद्यादाषड्गुणं बुधः ॥ १८१ ॥ इति ॥ अथ कच्छपयन्त्रेण गन्धकजारणमाह शार्ङ्गधरः— मृत्कुण्डे प्रक्षिपेन्नींर तन्मध्ये च शरावकम् । महत्कुण्डपिधानाभं मध्ये मेखलया युतम् ॥ १८२ ॥ १ 'समगुणे' ख. । ३