भारतकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 45, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 45

२६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः लिप्त्वा च मेखलामध्यं चूर्णेनात्र रसं क्षिपेत् । रसस्योपरि गन्धस्य चूर्णं दद्यात्समांशकम् ॥ १८३ ॥ दत्त्वोपरि शरावं च भस्ममुद्रां प्रदापयेत् । तस्योपरि पुटं दद्याच्चतुर्भिर्गोमयोपलैः ॥ १८४ ॥ एवं पुनः पुनर्गन्धं षड्गुणं जारयेद्बुधः । गन्धे जीर्णे भवेत्सूतस्तीक्ष्णाग्निः सर्वकार्यकृत् ॥१८५॥इति॥ रसरत्नाकरे— संस्थाप्य गोमयं भूमौ पक्कमूषां तथोपरि । तन्मध्ये कटुतुम्बीयुत्थं तैलं दत्त्वा रसं क्षिपेत् ॥ १८६ ॥ काकमाचीद्रवो देयस्तैलतुल्यः पुनःपुनः। गन्धकं व्रीहिमात्रं च क्षिप्त्वा तां च निरोधयेत् ॥१८७॥ (१तत्पृष्ठे श्रावकं देयं पूर्णं वा वह्निखर्परम् । स्वाङ्गशीतलतां ज्ञात्वा जीर्णतैलं च गन्धकम् । काकमाचीद्रवं चाग्निं दत्त्वा दत्त्वा तु जारयेत् ॥ १८८ ॥) मूषाधो गोमयं सान्द्रं दत्त्वा चोर्ध्वं च पावकम् । षड्गुणं गन्धकं जार्य सूतस्यैवं मुखं भवेत् ॥ १८९ ॥ इत्याद्यजारणम् ॥ अथान्त्यं यथा— सूतप्रमाणं सिकताख्ययन्त्रे दत्त्वा बलिं मृद्घटितेऽल्पभाण्डे । तैलावशेषं च रसं निदध्यान्मग्नार्धकायं प्रविलोक्य भूयः १९० आषड्गुणं गन्धकमल्पमल्पं क्षिपेद्रसो जीर्णबलिर्बलीयान् । रसेषु सर्वेषु नियोजितोऽयमसंशयं हन्ति गदं जवेन ॥ १९१ ॥ इति गन्धकजारणम् ॥ १. अयं पाठः ख. पुस्तके नोपलभ्यते.