भारतकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 46, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 46

१. ] आयुर्वेदप्रकाशः । २७ अथ स्वर्णजारणम् । तदुक्तं— गन्धकजारणमादौ कुर्यादथ जारणं सुवर्णस्य । जलधरसत्त्वस्य ततो जारणमथ सर्वलोहानाम् ॥ १९२ ॥ अथ तदुपयोगिविडकथनम् । काञ्चनादिग्रसनतीव्रबुभुक्षा- कराणि द्रव्याणि विडानि कथ्यन्ते । यथा— वज्रकण्टकवज्राग्रं विद्धमष्टाङ्गुलं मृदा । विलिप्य गोविशाल्पाग्नौ पुटितं तत्र शोषितम् ॥ १९३ ॥ त्र्यहं वज्रिबिले क्षिप्तो ग्रासार्थी जायते रसः । ग्रसते गन्धहेमादिवज्रसत्त्वादिकं क्षणात् ॥ १९४ ॥ मूर्च्छाध्यायोक्तषड्गुणवलिजीर्णपिष्टिकोत्थितरसः खल्वेऽ- त्यन्तं बुभुक्षितो घनहेमवज्रसत्त्वादि त्वरितमेव ग्रसतीत्यन्य- प्रकारः। एतद्वयमपि कृत्वा व्यवहरन्त्यन्ये । अथान्ये विडाः— सतुत्थं टङ्कणं सर्जिः पटु ताम्रे त्र्यहोषितम् । काञ्जिकं भावितं तेन गन्धाद्यं चरति क्षणात् ॥ १९५ ॥ बिडे सकाञ्जिके क्षिप्तो रसः स्याद्ग्रासलालसः । ग्रसते सर्वलोहानि सर्वसत्त्वानि वज्रकम् ॥ १९६ ॥ अथान्यप्रकारः ।— शङ्खचूर्णं रविक्षीरैरातपे भावयेद्दिनम् । तद्वज्जम्बीरजद्रावैर्द्दिनैकं धूमसारकम् ॥ १९७ ॥ सौवर्चलमजामूत्रैर्भाव्यं यामचतुष्टयम् । कण्टकारीं च संक्वाथ्य दिनैकं नरमूर्तके ॥ १९८ ॥ खर्जिक्षारं तिन्तिडीकं कासीसं तु शिलाजतु । जम्बीरोत्थद्रवैर्भाव्यं पृथग्यामचतुष्टयम् ॥ १९९ ॥

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक) · पृष्ठ 46, कुल 232 में से · BharatKosha