आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 47, कुल 232 में से
संदर्भ में पढ़ें२८ | आयुर्वेदीयग्रन्थमाला। [अध्यायः निस्तुषं जयपालं च मूलकानां द्रवैर्दिनम् । सैन्धवं टङ्कणं गुञ्जां दिनं शिग्रुजटाम्भसा ॥ २०० ॥ एतत्सर्वं समांशं तु मर्द्यं जम्बीरजद्रवैः । तद्गोलं रक्षयेद्यत्नाद्विडोऽयं वडवानलः ॥ २०१ ॥ अनेन मर्दितः सूतः संस्थितस्तप्तखल्वके । स्वर्णादिसर्वलोहानि सत्त्वानि ग्रसते क्षणात् ॥ २०२ ॥ इति वडवानलो बिडः ॥ मूलकार्द्रकवह्नीनां क्षारं गोमूत्रगालितम् । वस्त्रपूतो द्रवो ग्राह्यो गन्धकं तेन भावयेत् । शतवारं खरे घर्मे विडोऽयं हेमजारणे ॥ २०३ ॥ इति सिद्धलक्ष्मीश्वरतन्त्रोक्तो बिडः ॥ एवं बिडान्तराण्यपि तन्त्रान्तरादनुसर्तव्यानि। इति बिडकथनम्॥ चतुःषष्ट्यंशकं हेमपत्रं मायूरमायुना । विलिप्तं तप्तखल्वस्थे रसे दत्त्वा विमर्दयेत् । दिनं जम्बीरतोयेन ग्रासे ग्रासे त्वयं विधिः ॥ २०४ ॥ शनैः संस्वेदयेद्दर्जे बद्ध्वा सपटुकाञ्जिके । भाण्डके त्रिदिनं सूतं जीर्णस्वर्णं समुद्धरेत् ॥ २०५ ॥ अधिकस्तोलितश्चेत्स्यात्पुनः स्वेद्यः समावधि । द्वात्रिंशत्षोडशाष्टांशक्रमेण वसु जारयेत् ॥ २०६ ॥ रूप्यादिषु च सत्त्वेषु विधिरेवंविधः स्मृतः । चूलिकालवणं गन्धमभावे शिखिपित्ततः ॥ २०७ ॥ इति स्वर्णरूप्यादिसर्वसत्त्वजारणविधिः ॥ अथ तप्तखल्वलक्षणम् ।— अजाशकृत्तुषाग्निं च खातयित्वा भुवि क्षिपेत् । तस्योपरि स्थितो लोहखल्वः स तप्तखल्वकः ॥ २०८ ॥ इति तप्तखल्वलक्षणम् ॥