आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 56, कुल 232 में से
संदर्भ में पढ़ेंप्रदा भवन्ति । उच्यते च—समजीर्णश्चायं शतवेधी, द्विगुण- जीर्णः सहस्रवेधी; एवं लक्षायुतकोटिवेधी समनुकर्तव्यः, चतुःषष्टिगुणजीर्णस्तु धूमस्पर्शावलोकशब्दतोऽपि विध्यति ॥ अथ सारणोच्यते । अन्धमूषा तु कर्तव्या गोस्तनाकारसन्निभा । सैव छिद्रान्विता मन्दगम्भीरा सारणोचिता ॥ २६७ ॥ अस्यामेव मूषायां तत्तै¹लमपगतकल्कविमलमापूर्य तस्मिन्न²- धिकमूष्मात्मनि द्रुतबीजप्रक्षेपसमकालमेव समा³वर्तनीयः सूत- वरः, तदनु सद्यो मूषाननमाच्छादनीयमेतत्तैलाक्तपटखण्डग्र- न्थिबन्धेन, अरुणसितबीजाभ्याममुना सारणकर्मणा मिलितश्चे- त्सारितः सम्यक् संयमितश्च विज्ञेयः; प्रतिसारितस्तु द्विगुण- बीजेन, तद्वदनुसारितस्तु त्रिगुणबीजेन; अत्र त्रिविधायामेव सारणायामरुणसितकर्मणोः क्रामणार्थमीषत्पन्नगवङ्गौ विश्रा- णयाविति ॥ सारितो जारितश्चैव पुनः सारितजारितः । सप्तसङ्क(शृङ्ख)लिकायोगात्कोटिवेधी भवेद्रसः ॥ २६८ ॥ इत्यादीनि कर्माणि पुनः केवलमीश्वरानुग्रहसाध्यत्वान्न प्रपञ्चितानि ॥ (द्रुतयोऽपि न दृष्टास्ते शास्त्रे दृष्टा अपि ध्रुवम् । विना शम्भोः प्रसादेन न सिध्यन्ति कदाच⁴न ॥ १ ॥) अथ क्रामणम् । शिलया निहतो नागो वङ्गं वा तालकेन शुद्धेन । क्रमशः पीते शुक्ले क्रामणमेतत्समुद्दिष्टम् ॥ २६९ ॥ १ तत्तैलं सारणतैलम् । २ तस्मिन् सारणतैले, अधिकमूष्मात्मनि सम्यक् प्रतप्ते । ३ 'समावर्जनीयः' ग. । ४ अयं श्लोकः ख. पुस्तके नोपलभ्यते । ४