भारतकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 57, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 57

३८ आयुर्वेदीयग्रन्थमाला। [अध्यायः पीते स्वर्णे, शुक्ले रूप्ये ॥ अथ खोटमार्गेण जारणवेधनरञ्जनानि । खोटकं स्वर्णसंतुल्यं समावर्त्त तु कारयेत् । माक्षिकं कान्तपाषाणं शिला गन्धं समं समम् ॥ २७० ॥ भूनागैर्मर्दयेद्द्यामं वल्लमात्रं वटीकृतम् । एषा बिडवटी ख्याता योज्या सर्वत्र जारणे ॥ २७१ ॥ दरदं माक्षिकं गन्धं राजावर्तं प्रवालकम् । शिला तुत्थं च कङ्कुष्ठं समं चूर्णं प्रकल्पयेत् ॥ २७२ ॥ वर्गाभ्यां पीतरक्ताभ्यां कङ्गुणीतैलकैः सह । भावयेद्दिवसान् पञ्च सूर्यतापे पुनः पुनः ॥ २७३ ॥ रञ्जितं मृतखोटं च कल्केनानेन संयुतम् । वालुकाहाण्डिमध्यस्थं शरावपुटमध्यगम् ॥ २७४ ॥ त्रिदिनं पाचयेच्चूल्ह्यां कल्को देयः पुनः पुनः । रञ्जितो जायते सूतः शतवेधी न संशयः ॥ २७५ ॥ लोहं गन्धं टङ्कणं ध्मातमेतत्तुल्यं चूर्णैर्भानुभेकाहिवङ्गैः । सूतं गन्धं सर्वसाम्येन कूप्यामीपत्साध्यं चित्त नो विस्मयस्व ॥ इति सिद्धमते कल्कः ॥ रसदरदताप्यगन्धकमनःशिलाभिः क्रमेण वृद्धाभिः । पुटमृतशुल्वं तारे त्रिन्यूढं हेमकृष्टिरियम् ॥ २७७ ॥ अष्टानवतिभागं तु रूप्यमेकं च हाटकम् । सूतैकेन च वेधः स्याच्छतांशविधिरीरितः ॥ २७८ ॥ चन्द्रस्यैकोनपञ्चाशत्तथा शुद्धस्य भास्करः । वह्निरेकः शम्भुरेकः शतांशविधिरीरितः ॥ २७९ ॥ द्वावेव रजतयोनित्ताम्रयोनित्वेनोपचर्येते; एवं सहस्रवेधा- दयो जारणबीजवशादनुसर्तव्याः ॥


१ चन्द्रस्य तारस्य, भास्करः ताम्रस्य, वह्निः स्वर्णे, शम्भुः रसः ।