बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 173, कुल 486 में से
संदर्भ में पढ़ेंपञ्चदशः खण्डः ] प्रथमप्रश्ने अष्टमोऽध्यायः १२१
अमेध्यं दृष्ट्वा जपति—"अबद्धं मनो दरिद्रं चक्षुस्सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हासी" रिति ॥ ३१ ॥ इति बौधायनीये धर्मसूत्रे प्रथमप्रश्ने पञ्चदशः खण्डः ॥ १५ ॥
अनु०—अमेध्य पदार्थ को देखकर "अबद्धं मनो दरिद्रं चक्षुस्सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हासीः" (मन अनियन्त्रित है, नेत्र दरिद्र हैं; सूर्य आकाश के नक्षत्रों में श्रेष्ठ है; हे दीक्षा, मेरा त्याग मत करो, मत करो) का जप करे । ( तैत्तिरीय संहिता ३.१.१०.२ ) ॥ ३१ ॥
अमेध्यदर्शने प्रायश्चित्तमिदमनिष्टदर्शने वा । कुतः 'अमेध्यमनिष्टं वा दृष्ट्वा जपतेऽप्येतदुक्तं भवति' इति यज्ञप्रायश्चित्तेषु द्वयोरप्यनुभाषणात् । मन्त्रस्तु विव्रियते—वामदेवस्यार्षम्, गायत्रं छन्दः, सूर्यो देवता । अबद्धं अबोद्धव्यं अनिरोध्यं अनिवार्यं मनः पापमपि सङ्कल्पयतीत्यर्थः । तथा च श्रुतिः—'तस्मात्तेनोभयं सङ्कल्पयन्ते सङ्कल्पनीयं चाऽसङ्कल्पनीयञ्च' इति । चक्षुरपि दरिद्रमेव । द्रा गतिकुत्सनयोरिति । गतिकुत्सतगतिरिति । श्रुतिरपि—'तस्मात्तेनोभयं पश्यति दर्शनीयं चाऽदर्शनीयं च' इति । किमेभिरनिरोध्यैः करणैः ? भगवान्नेव हि सूर्यो ज्योतिषां श्रेष्ठः श्रेयान् सम्यक्पश्यति, तस्मादहं दीक्षे एव, न नियमाननुपाळयितुं स त्वं मा मा हासीः मा त्याक्षीरिति ॥ ३१ ॥
इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते प्रथमप्रश्ने सप्तमोऽध्यायः ॥ ७ ॥
अष्टमोऽध्यायः
यज्ञप्रसङ्गात् ब्राह्मणादीन् स्मृत्वाऽऽह— 'चत्वारो वर्णा ब्राह्मणक्षत्रिय$^२$विट्शूद्राः ॥ १ ॥
अनु०—चार वर्ण हैं—ब्राह्मण, क्षत्रिय, वैश्य और शूद्र ॥ १ ॥
चतुस्सङ्ख्यया प्रतिलोमानुलोमानां वर्णसंज्ञानिवृत्त्यर्था ॥ १ ॥
वर्णचतुष्टयप्रभवाः इतराः मनुष्ययोनय इति वक्तुं ब्राह्मणादीनां भार्या आह— तेषां वर्णानुपूर्व्येण चतस्रो भार्या ब्राह्मणस्य ॥ २ ॥
१. Cf आप. ध. १. १. ४. and वासिष्ठ ध. २. १.
२. वैश्यशूद्राः इति. कं. ग. पु.