भारतकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पञ्चदशः खण्डः ] प्रथमप्रश्ने अष्टमोऽध्यायः १२१

अमेध्यं दृष्ट्वा जपति—"अबद्धं मनो दरिद्रं चक्षुस्सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हासी" रिति ॥ ३१ ॥ इति बौधायनीये धर्मसूत्रे प्रथमप्रश्ने पञ्चदशः खण्डः ॥ १५ ॥

अनु०—अमेध्य पदार्थ को देखकर "अबद्धं मनो दरिद्रं चक्षुस्सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हासीः" (मन अनियन्त्रित है, नेत्र दरिद्र हैं; सूर्य आकाश के नक्षत्रों में श्रेष्ठ है; हे दीक्षा, मेरा त्याग मत करो, मत करो) का जप करे । ( तैत्तिरीय संहिता ३.१.१०.२ ) ॥ ३१ ॥

अमेध्यदर्शने प्रायश्चित्तमिदमनिष्टदर्शने वा । कुतः 'अमेध्यमनिष्टं वा दृष्ट्वा जपतेऽप्येतदुक्तं भवति' इति यज्ञप्रायश्चित्तेषु द्वयोरप्यनुभाषणात् । मन्त्रस्तु विव्रियते—वामदेवस्यार्षम्, गायत्रं छन्दः, सूर्यो देवता । अबद्धं अबोद्धव्यं अनिरोध्यं अनिवार्यं मनः पापमपि सङ्कल्पयतीत्यर्थः । तथा च श्रुतिः—'तस्मात्तेनोभयं सङ्कल्पयन्ते सङ्कल्पनीयं चाऽसङ्कल्पनीयञ्च' इति । चक्षुरपि दरिद्रमेव । द्रा गतिकुत्सनयोरिति । गतिकुत्सतगतिरिति । श्रुतिरपि—'तस्मात्तेनोभयं पश्यति दर्शनीयं चाऽदर्शनीयं च' इति । किमेभिरनिरोध्यैः करणैः ? भगवान्नेव हि सूर्यो ज्योतिषां श्रेष्ठः श्रेयान् सम्यक्पश्यति, तस्मादहं दीक्षे एव, न नियमाननुपाळयितुं स त्वं मा मा हासीः मा त्याक्षीरिति ॥ ३१ ॥

इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते प्रथमप्रश्ने सप्तमोऽध्यायः ॥ ७ ॥


अष्टमोऽध्यायः

यज्ञप्रसङ्गात् ब्राह्मणादीन् स्मृत्वाऽऽह— 'चत्वारो वर्णा ब्राह्मणक्षत्रिय$^२$विट्शूद्राः ॥ १ ॥

अनु०—चार वर्ण हैं—ब्राह्मण, क्षत्रिय, वैश्य और शूद्र ॥ १ ॥

चतुस्सङ्ख्यया प्रतिलोमानुलोमानां वर्णसंज्ञानिवृत्त्यर्था ॥ १ ॥

वर्णचतुष्टयप्रभवाः इतराः मनुष्ययोनय इति वक्तुं ब्राह्मणादीनां भार्या आह— तेषां वर्णानुपूर्व्येण चतस्रो भार्या ब्राह्मणस्य ॥ २ ॥


१. Cf आप. ध. १. १. ४. and वासिष्ठ ध. २. १.
२. वैश्यशूद्राः इति. कं. ग. पु.

१२२ बौधायन-धर्मसूत्रम् [ वर्णधर्मविचारः

**अनु०—**इन वर्णों में वर्णों के क्रमानुसार ( अर्थात् चार वर्णों की ) ब्राह्मण की चार पत्नियां हो सकती हैं ॥ २ ॥

तेषां मध्ये ब्राह्मणस्येति सम्बन्धः। आनुपूर्व्यग्रहणात् प्रथमं ब्राह्मणी, ततः क्षत्रिया इत्येवं द्रष्टव्यम्। अस्वजातीयापरिणयनम् (?) 'इतरथाऽसदृशीम्' इत्यविशेषकं स्यात्। आह च मनुः—

सवर्णाऽग्रे द्विजातीनां प्रशस्ता दारकर्मणि।
कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोवराः ॥ इति ॥ २ ॥

तिस्रो राजन्यस्य ॥३॥ द्वे वैश्यस्य ॥ ४ ॥

**अनु०—**क्षत्रिय की वर्णों के क्रम से तीन ( क्षत्रिय, वैश्य, शूद्र वर्ण की ) पत्नियां हो सकती हैं। वैश्य की दो पत्नियां ( वैश्य तथा शूद्र वर्ण की ) होती हैं ॥ ३-४ ॥

आनुपूर्व्येण कामत इति चाऽनुसन्धेयम् ॥ ३-४ ॥

एका शूद्रस्य ॥ ५ ॥

**अनु०—**शूद्र की केवल एक ( शूद्र वर्ण की ) पत्नी होती है ॥ ५ ॥

कामप्रवृत्तस्याऽपि शूद्रस्य शूद्रैव भार्या ॥ ५ ॥

तासु पुत्रास्सवर्णानानन्तरासु सवर्णाः ॥ ६ ॥

**अनु०—**इन पत्नियों में अपने वर्ण की या अपने वर्ण के ठीक नीचे वाले वर्ण की पत्नियों से उत्पन्न पुत्र सवर्ण कहलाते हैं ॥ ६ ॥

**टि०—**वस्तुतः सवर्ण पुत्र समान वर्ण की पत्नी से उत्पन्न पुत्र होते हैं किन्तु ठीक नीचे वाले वर्ण की पत्नी के पुत्र भी सवर्ण के समान ही समझे जाते हैं। गौतम० १.४.१४ 'अनुलोमा अनन्तरैकान्तरद्व्यन्तरासु जाताः सवर्णाम्बष्ठोग्रनिषाददौष्म-न्तपारशवाः'।

संव्यवहारार्थं संज्ञाकरणम्। सवर्णास्वनन्तरासु चेति विग्रहः। संवर्णास्स-मानजातीयाः। अनन्तरा इतराः। ब्राह्मणस्य क्षत्रिया वाऽनन्तरेत्यादि योज्यम्। तत्र सवर्णायां जातः पुत्रस्स एव वर्ण इति व्युत्पत्त्या सवर्णः। अनन्तरायां तु सवर्णसदृश इति। आह च मनुः—

स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान् सुतान् ।
सदृशानेव तानाहुर्मातृदोषविगर्हितान् ॥ इति ॥ ६ ॥

एकान्तरद्व्यन्तरास्वम्बष्ठोग्रनिषादाः ॥ ७ ॥

षोडशः खण्डः ] प्रथमप्रश्ने अष्टमोऽध्यायः १२३

अनु०—एक वर्ण के अन्तर से अपने से तीसरे वर्ण की पत्नी से (ब्राह्मण की वैश्यवर्ण की पत्नी से, क्षत्रिय की शूद्रा से) क्रमशः अम्बष्ठ और उग्र नाम के तथा अपने वर्ण से दो वर्ण के अन्तर वाले वर्ण की पत्नी से (ब्राह्मण की शूद्रा स्त्री से) निषाद नाम का पुत्र उत्पन्न होता है ॥ ७ ॥

टि०—ये सभी पुत्र अनुलोम पुत्र कहे जाते हैं, क्योंकि पिता उच्च वर्ण का होता है और माता पिता से निम्न वर्ण की। प्रतिलोम इसके विपरीत सम्बन्ध से उत्पन्न होते हैं।

ब्राह्मणस्य वैश्या एकान्तरा । स तस्यामम्बष्ठं जनयति । तस्यैव शूद्रा द्वयन्तरा । तस्यां निषादम् । क्षत्रियस्य पुनस्सैवैकान्तरा । सोऽपि तस्यामेवोग्रं नाम पुत्रं जनयति । एते त्रयः पूर्वेरनुलोमैस्सह षडनुलोमा अनुक्रान्ताः । तत्र बीजोत्कर्षे क्षेत्रापकर्षे च सत्यानुलोम्यं भवति । विपर्यये तु प्रातिलोम्यं भवति ॥ ७ ॥

के पुनः प्रतिलोमाः ? तानाह—

प्रतिलोमास्त्वायोगवमागधवैणक्षत्तृपुल्कसकुक्कुटवैदेहकचण्डालाः ॥८॥ 'अम्बष्ठात् प्रथमायां श्वपाकः ॥ ९ ॥ उग्रात् द्वितीयायां वैणः ॥ १० ॥ निषादात् तृतीयायां पुल्कसः ॥ ११ ॥ विपर्यये कुक्कुटः ॥ १२ ॥

अनु०—प्रतिलोम विवाह वाली (अपने से निम्न वर्ण के पुरुष के साथ विवाहिता) स्त्रियों से आयोगव, मागध, वैण, क्षत्तृ, पुल्कस, कुक्कुट, वैदेहक और चण्डाल नाम के पुत्र उत्पन्न होते हैं ॥ ८ ॥

टि०—क्षत्रिय और ब्राह्मणी से सूत, वैश्य और ब्राह्मणी से क्षत्त, वैश्य और क्षत्रिया से मागध, शूद्र और वैश्या से आयोगव, शूद्र और क्षत्रिया से वैदेहक, शूद्र और ब्राह्मणी से चण्डाल नाम के पुत्र उत्पन्न होते हैं। द्रष्टव्य-गौतम ध०सू० १.४. १५ पृ० ४२: 'प्रतिलोमास्तु सूतमागधायोगवक्षत्तृवैदेहकचण्डालाः'।

अनु०—अम्बष्ठ प्रथम वर्ण की स्त्री से श्वपाक पुत्र उत्पन्न करता है। उग्र द्वितीय वर्ण की स्त्री से वैण पुत्र उत्पन्न करता है। निषाद तृतीय वर्ण की पत्नी से पुल्कस पुत्र उत्पन्न करता है। इसके विपरीत पुल्कस पुरुष निषाद वर्ण की स्त्री से कुक्कुट पुत्र उत्पन्न करता है ॥ ९-१२ ॥


१. अन्येपि श्वपाकादयः ११ सूत्रादावुच्यन्ते ।

३२४ बौधायन-धर्मसूत्रम् [वर्णधर्मविचारः

पुल्कसान्निषाद्यां जातस्य कुक्कुटसंज्ञेत्यर्थः। अनेनैतद्विज्ञातं भवति—प्रतिलोमानुलोमेन स्त्रियां जातोऽपि प्रतिलोम एवेति। अन्यथा कथमेवमर्धं-क्ष्यत् ॥ ८—१२ ॥

अथ बीजोत्कर्षवशात् वर्णान्तरप्राप्तिमाह— निषादेन निषाद्यामा पञ्चमाज्जातोऽपहन्ति शूद्रताम् ॥ १३ ॥

अनु०—निषाद पुरुष निषाद स्त्री से विवाह करे तो उसके वंश में पाँचवें पुरुष में शूद्रत्व समाप्त हो जाता है ॥ १३ ॥

अत्र गौतमीयम्—'वर्णान्तरगमनमुत्कर्षापकर्षाभ्यां सप्तमेन । पञ्चमेनाऽऽचार्याः' इति। नाङ्ग तत्राऽभिविधौ। निषादो वैश्याच्छूद्रायां जात इति कृत्वोच्यते ॥ १३ ॥

तमुपनयेत्षष्ठं याजयेत्सप्तमोऽविकृतो भवति$^१$ ॥ १४ ॥ इति बोधायनधर्मसूत्रे प्रथमप्रश्ने षोडशः खण्डः ॥ १६ ॥

अनु०--पाँचवें पुरुष का उपनयन करे, छठें से यज्ञ कराये तो सातवाँ दोषरहित होता है ॥ १४ ॥

टि०—द्रष्टव्य मनु० १०: ५-४२

अविकृतः नैजमेव वर्णं प्रतिपद्यत इत्यर्थः। एवं तावच्छूद्रायां वैश्याज्जा-तस्याऽऽसप्तमाद्वैश्यत्वापत्तिरुक्ता। एवमेव वैश्यायां जातस्य क्षत्रियत्वापत्तिः। तथा क्षत्रियायां जातस्य ब्राह्मण्यापत्तिरुच्यते—सवर्णत्यागादपि वर्णसङ्करो जायत इतीदं प्रदर्शयितुम्। आह च मनुः— व्यभिचारेण वर्णानामवेद्यावेदनेन च। स्वकर्मणां च त्यागेन जायते वर्णसङ्करः॥ इति। स्वकर्मणां त्याग उपनयनादिसंस्कारहानिरधिकृते। अतो वर्णसङ्करप्रदर्श-नार्थत्वादुपपन्नमिहाभिधानम् ॥ १४ ॥

इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते प्रथमप्रश्नेऽष्टमोऽध्यायः ॥ ८ ॥


१. See. मनु १०. ५—४२.

सप्तदशः खण्डः ]प्रथमप्रश्ने नवमोऽध्यायः१२५

अथ नवमाध्याये सप्तदशः खण्डः

अथाऽनन्तरप्रभवानामेव किञ्चिद्वक्तव्यमित्यत आह—

तत्र सवर्णासु सवर्णाः ॥ १ ॥

**अनु०—**इन पुत्रों में सवर्णा पत्नियों से सवर्ण पुत्र होते हैं ॥ १ ॥

अनुलोमविषयमिदम् । वर्णानन्तरजसवर्णासु सवर्णैरुत्पादिता अपि सवर्णा भवन्तीत्यर्थः ॥ २ ॥

ब्राह्मणात्क्षत्रियायां ब्राह्मणो वैश्यायामम्बष्ठः शूद्रायां निषादः ॥ २ ॥

**अनु०—**ब्राह्मण से क्षत्रिया पत्नी से ब्राह्मण, वैश्य पत्नी से अम्बष्ठ, शूद्र पत्नी से निषाद होता है ॥ २ ॥

ब्राह्मणात्क्षत्रियायां जातायां तस्यां ब्राह्मणेनोत्पादितः । अत्र पूर्वसूत्रे आदि-स्सवर्णशब्दस्सदृशवर्ण इत्यनया व्युत्पत्त्या वर्तते । सूत्रारम्भस्तु तेषामपि वर्णधर्मप्राप्त्यर्थः ॥ २ ॥

पारशव इत्येके ॥ ३ ॥

**अनु०—**कुछ लोग ब्राह्मण द्वारा शूद्रा पत्नी से उत्पन्न को पारशव कहते ॥ ३ ॥
**टि०—**द्रष्टव्य गौतम० १.४.२१. पृ० ४४ ।
सोऽयं संज्ञाव्यतिरेकः ॥ ३ ॥

क्षत्रियाद्वैश्यायां क्षत्रियश्शूद्रायामुग्रः ॥ ४ ॥

**अनु०—**क्षत्रिय पुरुष द्वारा वैश्य वर्ण की स्त्री से क्षत्रिय तथा शूद्रा स्त्री से उग्र उत्पन्न होता है ॥ ४ ॥

अयमप्येकीयमतेन संज्ञाव्यतिरेकप्रकारः ॥ ४ ॥

वैश्याच्छूद्रायां रथकारः ॥ ५ ॥

**अनु०—**वैश्य पुरुष द्वारा शूद्रा स्त्री से रथकार उत्पन्न होता है ॥ ५ ॥

अस्य त्वाधानेऽधिकारो ‘वर्षासु रथकारः’ इति । एते अनुक्रान्ता अनुलोमाः ॥ ५ ॥


१. एवमेव सूत्रपाठो व्याख्यानपुस्तकेषु “तमुपनयेत् षष्ठं याजयेत् ॥ १४ ॥ ससमो विकृतबीजस्समबीजस्सम इत्येतेषां संज्ञाः क्रमेण निपतन्ति ॥ १५ ॥ त्रिषु वर्णेषु सादृश्याद्ब्रती जनयेत् यान् । तान् सावित्रीपरिभ्रष्टान् व्रात्यानाहुर्मनीषिणः—व्रात्यानाहुर्मनीषिणः इत्यधिकसूत्रपाठो दृश्यते ।

१२६बौधायन-धर्मसूत्रम्[ वर्णधर्मविचारः

अथ प्रतिलोमासु यच्छूद्रबीजं तदाह—
शूद्राद्वैश्यायां मागधः क्षत्रियायां क्षत्ता ब्राह्मण्यां चण्डालः ॥ ६ ॥
अनु०— शूद्र पुरुष द्वारा वैश्य स्त्री से मागध, क्षत्रिया से क्षत्ता, ब्राह्मणी से चण्डाल उत्पन्न होता है ॥ ६ ॥

अथ वैश्यबीजमुच्यते—
वैश्यात्क्षत्रियायामायोगवो ब्राह्मण्यां वैदेहकः ॥ ७ ॥
अनु०— वैश्य पुरुष द्वारा क्षत्रिया पत्नी से आयोगव तथा ब्राह्मणी से वैदेहक उत्पन्न होते हैं ॥ ७ ॥

क्षत्रियबीजं पुनः—
क्षत्रियाद् ब्राह्मण्यां सूतः ॥ ८ ॥
अनु०— क्षत्रिय पुरुष द्वारा ब्राह्मणी पत्नी से सूत उत्पन्न होता है ॥ ८ ॥

अथ वर्णसङ्करजातानां परस्परसङ्करजातानाह—
अत्राऽम्बष्ठोग्रसंयोगो भवत्यनुलोमः ॥ ९ ॥
अनु०— यदि इनमें अम्बष्ठ पुरुष और उग्र वर्ण की स्त्री का संयोग हो तो अनुलोम पुत्र उत्पन्न होता है ॥ ९ ॥
उत्कृष्टबीजप्रभवायामनुलोमायां जाता अप्यनुलोमा एव भवन्तीत्यभिप्रायः ॥ ९ ॥

क्षत्तृवैदेहकयोः प्रतिलोमः ॥ १० ॥
अनु०— क्षत्ता पुरुष और वैदेहक स्त्री के संयोग से प्रतिलोम पुत्र होता है ॥१०॥
शूद्रक्षत्रियापत्यभवात् प्रतिलोमाद्वैश्यब्राह्मणीप्रभवायां प्रतिलोमायामुत्पन्नोऽपि प्रतिलोमो भवतीत्यर्थः । एवमन्यत्राऽपि प्रयोजकानुसन्धानेन वेदनीयम् ॥ १० ॥

अतः पुनरपि प्रतिलोमानेवाह—
¹उग्राज्जातः क्षत्तायां श्वपाकः ॥ ११ ॥
वैदेहकादम्बष्ठायां वैणः ॥ १२ ॥
निषादाच्छूद्रायां पुल्कसः ॥ १३ ॥


१. See मनु. १० ५.४२.
२. क्षत्तुश्चायां जातः पुल्कसः ( म. १०. १९. ) इति मनुः ।

सप्तदशः खण्डः ] प्रथमप्रश्ने दशमोऽध्यायः १२७

शूद्रान्निषाद्यां कुक्कुटः ॥ १४ ॥

**अनु०—**उग्र पुरुष और क्षत्तृ स्त्री से श्वपाक, वैदेहक पुरुष और अम्बष्ठ स्त्री से वैण, निषाद पुरुष और शूद्रा स्त्री से पुल्कस, शूद्र पुरुष तथा निषाद स्त्री से कुक्कुट उत्पन्न होता है ॥ ११ ॥

**टि०—**क्षत्तुमुग्रायां जातः पुल्कसः ( मनु० १०।१९ )

इदमपि प्रयोजकमहणार्थं, नोदाहरणावधिकमेव कथ्यते । एवं एकार्था अनेकशब्दाः अनेकार्थश्चैकशब्दः शब्दान्तरेषु तत्र संव्यवहारभेदप्रदर्शनार्थः । एवं च तेन कर्मणा तरतमभावं विजानीयादित्युकतं भवति । तथा च वसिष्ठः—

छन्नोत्पन्नास्तु ये केचित्प्रातिलोम्यगुणाश्रिताः ।
गुणाचारपरिभ्रंशात्कर्मभिस्तान् विजानीयुरिति ॥

तद्विशेषावगतिश्च तत्परिहरणार्थम् ॥ ११–१४ ॥

वर्णसंकरादुत्पन्नान्त्रात्यानाहुर्मनीषिणो व्रात्यानाहुर्मनीषिण इति ॥ १५ ॥

इति बोधायनीये धर्मसूत्रे प्रथमप्रश्ने सप्तदशः खण्डः ॥ २६ ॥

**अनु०—**विद्वान् लोग इस प्रकार वर्णों के संकर से उत्पन्न को व्रात्य कहते हैं ॥ १५ ॥

वर्णग्रहणात्सङ्करजा व्रात्या भवन्ति । यद्वा प्रतिलोमजा वर्णसङ्करादुत्पन्ना इति कल्पनीयम् । ततश्च व्रात्यास्संस्कारहीना इति कृत्वा प्रतिलोमा धर्महीना इत्येतदेव ज्ञापितं भवति ॥

इति बौधायनधर्मसूत्रविवरणे गोविन्दस्वामिकृते प्रथमप्रश्ने नवमोऽध्यायः ॥ ९ ॥


अथ दशमोऽध्यायः

रक्षकाभावे सति आगः प्रवर्तते । ततश्च वर्णसङ्करोऽपि जायते । अतस्तत्परिहारार्थमाह—

षड्भागभृतो राजा रक्षेत्प्रजाम् ॥ १ ॥

**अनु०—**राजा प्रजा की आय या पुण्य का छठाँ भाग वेतन के रूप में लेकर प्रजा की रक्षा करे ॥ १ ॥

षट्शब्दोऽत्र लुप्तपूरणप्रत्ययो द्रष्टव्यः । भृतिर्वेतनं तद्ग्राही भृतः । राजा चाऽत्राऽभिषिक्तः। स चाऽपि तासां प्रजानां षष्ठभागमाग्भवति । ब्राह्मणस्याऽनु

१२८बौधायन-धर्मसूत्रम्[राजधर्मः

रक्षितस्य धर्मषड्भागभागभवति। तथा च वसिष्ठः—'राजा तु धर्मेणानुशा- शासन् षष्ठं धनस्य हरेदन्यत्र ब्राह्मणात्। इष्टापूर्तस्य तु षष्ठमंशं भजति' इति। इष्टं वर्णसामान्याधिकारावष्टम्भेन विहितो ज्योतिष्टोमादिः। पूर्तं तु साधारणो धर्मः सर्वेषां सत्यमक्रोधो दानमहिंसा प्रजननमित्यादि। अभिषिक्तस्य प्रजापरिपालनं धर्मः। गौतमश्च तदेवाधिकृत्य वदति—'चलतश्चैनान् स्वधर्मे स्थापयेत्। धर्मस्य ह्यंशभागभवति' इति। वसिष्ठश्च—'स्वधर्मो राज्ञः परिपा- लनं भूतानाम्' इति। आचार्यश्च स्वधर्मेषु स्थापनमेव रक्षणमिति मत्वाऽस्येमे स्वधर्मा इत्याह ॥ १ ॥

ब्रह्म वै स्वं महिमानं ब्राह्मणेष्बदधादध्ययनाध्यापनयजनयाज- नदानप्रतिग्रहसंयुक्तं वेदानां गुप्त्यै ॥ २ ॥

**अनु०—**ब्रह्म ने अपनी महिमा को ब्राह्मणों में रखा और वेदों की रक्षा के लिए अध्ययन करना, वेदों का अध्यापन करना, यज्ञ करना और यज्ञ कराना, दान देना और दान ग्रहण करना उनके कर्म उसके साथ संयुक्त कर दिये ॥ २ ॥

एष हि षट्कर्मयुक्तो ब्राह्मणः स्वो महिमा। किमर्थमेवं कृतवान् ब्रह्मेत्याह— वेदानां गुप्त्यै। गुप्तिः रक्षणम् ॥ २ ॥ सर्वेषां वर्णानां रक्षणायैमे क्षत्रधर्मा इत्याह—

क्षत्रे बलमध्ययनयजनदानशस्त्रकोशभूतरक्षणसंयुक्तं क्षत्रस्य वृद्ध्यै ॥ ३ ॥

**अनु०—**ब्रह्म ने क्षत्रिय में बल का आधान किया और राज्य शक्ति की वृद्धि के लिए वेदाध्ययन, यज्ञ करना, दान देना, शस्त्र धारण करना, धन की तथा प्राणियों के जीवन की रक्षा करना उनके कर्तव्य उसके साथ अन्वित कर दिये ॥ ३ ॥

अदधादित्यनुवर्तते। किं तत् ? बलं शक्तिः वेदाध्ययनादिसंयुक्तम्। शस्त्र- मायुधम्। तथा च वसिष्ठः—'शस्त्रेण च प्रजापालनं स्वधर्मः' इति। भूतग्रहणं चतुर्विधस्याऽपि भूतस्य ग्रहणार्थम्। तथा च गौतमः—'चतुर्विधस्य मनुष्यजा- तस्याऽन्तस्संज्ञानां चलनपतनसर्पणानाभायतं जीवनं प्रसूतिरक्षणम्' इति। क्षत्रस्य वृद्धिरभ्युदयः ॥ ३ ॥ वैश्येषु वैश्यकर्माऽदधादित्याह—

विट्स्वध्ययनयजनदानकृषिवाणिज्यपशुपालनसंयुक्तं कर्मणां वृद्ध्यै ॥ ४ ॥

**अनु०—**ब्रह्म ने वैश्यों में (यज्ञादि) कर्म की वृद्धि के लिए अध्ययन, यज्ञ करना, दान देना, कृषि, व्यापार, पशुपालन कर्म संयुक्त किये ॥ ४ ॥

अष्टादशः खण्डः ] प्रथमप्रश्ने दशमोऽध्यायः १२९

अध्ययनादिसंयुक्तं अध्ययनादिनिष्पादितमित्यर्थः । कृषिः भूविलेखनम् । वाणिज्यं क्रयविक्रयव्यवहारः । कर्माणि यागादीनि । तेषां साधने सति वृद्धिर्भवति ॥ ४ ॥

शूद्रेषु पूर्वेषां परिचर्या ॥ ५ ॥

**अनु०—**शूद्रों के लिए पूर्व वर्णों की सेवा का कार्य निर्धारित किया ॥ ५ ॥

अदधादित्येव । पूर्वेषां ब्राह्मणादीनाम् । परिचर्या शुश्रूषा । आह चाऽऽपस्तम्बः—‘शुश्रूषा शूद्रस्येतरेषां वर्णानाम्’ इति ॥ ५ ॥

किमिति शुश्रूषा शूद्राणामित्यत आह—

‘पत्तॊ ह्यसृज्यन्तेति ॥ ६ ॥

**अनु०—**क्योंकि शूद्र (प्रजापति के) पैर से उत्पन्न है, ऐसा श्रुति का वचन है॥६॥

हिशब्दो हेतौ । यस्मात्प्रजापतेः पादात्सृष्टः तस्माच्छूद्रो यज्ञेऽनवकल्पः । अतो द्विजानां शुश्रूषैव शूद्रस्य धर्मः ॥ ६ ॥

एवं चातुर्वर्ण्यधर्ममभिधाय पुना राज्ञ एवाऽऽह—

सर्वतोधुरं पुरोहितं वृणुयात् ॥ ७ ॥

**अनु०—**राजा सभी विषयों के ज्ञान में प्रवीण पुरोहित का चयन करे ॥ ७ ॥

सर्वत्र धूर्यस्य सर्वतोधूः । धूश्च व्यापारः विषयज्ञानमिहाऽभिप्रेतम् । सर्वज्ञ इति यावत् । पुरो धीयत इति पुरोहितः । तं वृणुयात् वृणीत ॥ ७ ॥

तस्य शासने वर्तेत ॥ ८ ॥

**अनु०—**उसी के आदेश के अनुसार कार्य करे ॥ ८ ॥

तत्प्रयुक्तः कर्माणि कुर्यात् । स च ब्राह्मणः विद्याभिजनवांश्च गौतमवचनात् । स ह्याह—‘ब्राह्मणं पुरोदधीत विद्याभिजनवाग्रूपवयस्सम्पन्नं न्यायवृत्तं तपस्विनम् । ब्रह्मप्रसूतः कर्म कुर्वीत । ब्रह्मप्रसूतं हि क्षत्रमृध्यते’ इत्यादि ॥ ८ ॥


१. तैत्तिरीयसंहितायां सप्तमकाण्डे प्रजापतेर्ब्राह्मणादीनां सृष्टिकथनावसरे “तस्मात् पादावुपजीवन्तः पत्तो ह्यसृज्येताम्” इति शूद्रस्य पादजन्यत्वमुक्तम् । तस्यैवाऽयं बहुवचनान्तेनाऽनुवादः ।
२. पुरोहितवरणमैतरेयब्राह्मणेऽष्टमपञ्चिकायां “न ह वा अपुरोहितस्य राज्ञो देवा अन्नमदन्ति” ( ४०. १ ) इत्यादिना विस्तरशो विहितम् । तदेवास्य सूत्रस्य मूलमिति भाति ॥

१२ बौ०ध०

१३० | बौधायन-धर्मसूत्रम् | [ राजधर्माः

सङ्ग्रामे न निवर्तेत ॥ ९ ॥

अनु०—युद्ध में पलायन न करे ॥ ९ ॥

युद्धे उपस्थिते पलायनपरायणेन न भवितव्यमित्यर्थः ॥ ९ ॥

युद्धे तु वर्तमाने— न कर्णिभिर्न दिग्धैः प्रहरेत् ॥ १० ॥

अनु०—बर्छीदार अस्त्रों से या विषदिग्ध अस्त्रों से प्रहार न करे ॥ १० ॥

कर्णवन्त्यस्त्राणि कर्णानि शूलादीनि । विषेण लिप्तानि दिग्धानि । असमासः प्रत्येकं प्रतिषेधप्राप्त्यर्थः ॥ १० ॥

किञ्च— भीतमत्तोन्मत्तप्रमत्तविसन्नाहस्त्रीबालवृद्धब्राह्मणैर्न युध्येताऽन्यत्राऽऽ- ततायिनः ॥ ११ ॥

अनु०—भयभीत, सुरापान से मत्त, पागल, चेतनाहीन, कवचादि बन्धन से हीन, स्त्री, बालक, वृद्ध और ब्राह्मण के साथ युद्ध न करे, किन्तु आततायी के ऊपर आक्रमण करे ॥ ११ ॥

टि०—द्र० गौतम० २-१०-१८ ‘अन्यत्र व्यश्वसारथ्यायुधकृताञ्जलिप्रकीर्णकेश-पराङ्मुखोपविष्टस्थलवृक्षारूढदूतगोब्राह्मणवादिभ्यः' तात्पर्य यह है कि राजा ऐसे लोगों पर प्रहार न करे ।

भीतः त्रस्तः । मत्तस्सुरादिपायी । उन्मत्तो विरुद्धचेष्टः । प्रमत्तो विगतचेताः। विसन्नाहो विगलितकवचादिबन्धः विगतव्यापारो वा । शेषाः प्रसिद्धाः । तैर्न युध्येत तान् न हिंस्यादित्यर्थः । १ तथा च गौतमः—'न दोषो हिंसायामाहवे । अन्यत्र व्यश्वसारथ्यनायुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षारूढ-दूतगोब्राह्मणवादिभ्यः' इति । व्यश्वसारथीत्यत्र व्यश्वो विसारथिरिति योजना । व्यश्वादिशब्दो दूतादिभिः प्रत्येकं सम्बन्धनीयः । अदूतोऽपि दूतोऽहमिति यो वदति गैरहं ब्राह्मणोऽहमिति । पूर्वोक्तान्विशिनष्टि—अन्यत्राऽऽततायिन इति । आततायी साहसकारी ॥ ११ ॥

तद्धिंसायां दोषाभावं परकीयमतेनोपन्यस्यति— अथाऽप्युदाहरन्ति— 'अध्यापकं कुले जातं यो हन्यादाततायिनम् । न तेन भ्रूणहा भवति मन्युस्तं मन्युमृच्छतीति ॥ १२ ॥


१. See. मनु. ८.१५०, १५१ ।

अष्टादशः खण्डः ] प्रथमप्रश्ने दशमोऽध्यायः १३१

अनु०—धर्मशास्त्रज्ञ इस विषय में निम्नलिखित पद्य उद्धृत करते हैं—यदि वेदाध्ययन करने वाले, उच्चकुल में ( ब्राह्मण वर्ण में ) उत्पन्न आततायी का वध करता है तो उससे वध करने वाला भ्रूणहा ( विद्वान् ब्राह्मण की हत्या का दोषी ) नहीं होता, क्योंकि क्रोध ही क्रोध के ऊपर परावर्तित हो जाता है ॥ १२ ॥

टि०—द्रष्टव्य—मनु० ८-१५०, १५१ ।

भ्रूणहा यज्ञसाधनवधकारी । भ्रूणो यज्ञः बिभर्ति सर्वमिति । एवं ब्रुवतैतद-भिप्रेतम्—आततायिविषयेऽपि ब्राह्मणवधे दोषोऽस्तीति । इतरथा 'न तेन भ्रूणहा भवति' इति नाऽवक्ष्यत् ॥ १२ ॥

'षड्भागभृत्तो राजा' ( १.१८.१ ) इत्युक्तम् । तस्य कचिदपवादमाह—

सामुद्रश्शुल्कः ॥ १३ ॥

अनु०—दूसरे द्वीप से समुद्र मार्ग से लायी गयी वस्तु पर कर इस प्रकार होता है ॥ १३ ॥

राज्ञो भवतीति शेषः । द्वीपान्तरादाहृतं सामुद्रं वस्तु तत्सम्बन्धी सामुद्र-श्शुल्कः पणद्रव्यम् ॥ १३ ॥

तस्मिन् भागः कियानित्यत आह —

वरं रूपमु द्धृत्य दशपणं शतम् ॥ १४ ॥

अनु०—राजा उसमें से किसी उत्कृष्ट द्रव्य ( रत्नादि ) को लेकर शेष में सौ में दस पण ग्रहण करे ॥ १४ ॥

गृह्णीयाद्राजेति शेषः । वरमुत्कृष्टद्रव्यरूपं रत्नादिद्रव्यं स्वामिने प्रदाय शेषं शतधा विभज्य दशपणं गृह्णीयात् । अनेन सामुद्रे दशभागश्शुल्क इत्युक्तं भवति ॥ १४ ॥

अन्येषामपि सारानुरूप्येणाऽनुपहत्य धर्मं प्रकल्पयेत् ॥ १५ ॥

अनु०—दूसरी व्यापारिक वस्तुओं में भी उनके मूल्य के अनुसार उसमें से सबसे अच्छी वस्तु को लिए बिना, व्यापारी को पीडित न करते हुए शुल्क ग्रहण करे ॥ १५ ॥

असामुद्राणामपि द्रव्याणां सारफल्गुत्वापेक्षया वरं रूपमनुपहत्यैव धर्मं प्रकल्पयेदात्मार्थम् । तत्र सारफल्गुविभागो गौतमेनोक्तः 'विंशतिभागश्शुल्कः पण्ये । मूलफलपुष्पौषधमधुमांसतृणेन्धनानां षाष्ठ्यम्' इति षष्ठतमं षाष्ठ्यम् ॥

किञ्च—

अब्राह्मणस्य प्रणष्टस्वामिकं रिक्थं संवत्सरं परिपाल्य राजा हरेत् ॥१६॥

१३२बौधायन-धर्मसूत्रम्[ राजधर्माः

**अनु०—**जिस सम्पत्ति का स्वामी ब्राह्मणेतर वर्ण का हो और उस स्वामी का पता न हो, तो राजा एक वर्ष तक स्वामी के लौटने की प्रतीक्षा कर स्वयं उस सम्पत्ति को ग्रहण कर ले ॥ १६ ॥

असावस्य द्रव्यस्य प्रभुरित्यज्ञानमात्रे प्रणष्टशब्दः । ब्रह्मस्वमिति तु विज्ञाते ब्राह्मण एवाऽऽददीत । उक्तं चैतच्छौचाधिष्ठानाध्याये ‘न तु कदाचिद्राज्ञा ब्राह्मणस्य स्वमाददीत’ इति । आह च मनुः—

प्रणष्टस्वामिकं रिक्थं राजा ^१त्वब्दं निधापयेत् ।
^२अर्वाग्ब्दाद्धरेत् स्वामी परेण नृपतिर्हरेत् ॥ इति ॥

गौतमोऽपि ‘प्रणष्टस्वामिकमधिगम्य राज्ञे प्रब्रूयुः । विख्याप्य संवत्सरं राज्ञा रक्ष्यम् । ऊर्ध्वमधिगन्तुश्चतुर्थं राज्ञश्शेष’ इति ॥ १६ ॥

अवध्यो व ब्राह्मणस्सर्वापराधेषु ॥ १७ ॥

**अनु०—**ब्राह्मण को किसी भी अपराध के लिए वध का दण्ड नही होता ॥१७॥

वैशब्दः श्रुतिसंसूचनार्थः । तथा च गौतमः—‘षड्भिः परिहार्यो राज्ञाऽव-ध्यश्चाऽदण्ड्यश्चाऽबहिष्कार्यश्चाऽपरिवाद्यश्चाऽपरिहार्यश्चेति’ ^३इति । सर्वापराधेषु ब्रह्महत्यादिष्वपि ॥ १७ ॥

तत्र तर्हि किं कर्तव्यमित्याह—

ब्राह्मणस्य ब्रह्महत्यागुरुतल्पगमनस्वर्णस्तेयसुरापानेषु कुसिन्धभग-सृगालसुराध्वजांस्तप्तेनाऽयसा ललाटेऽङ्कयित्वा विषयान्निर्धमनम् ॥ १८ ॥

**अनु०—**ब्राह्मण के ब्राह्मण की हत्या करने पर, गुरुपत्नीगमन करने पर (ब्राह्मण का ) सुवर्ण चुरानेपर, सुरापान करने पर राजा उसके ललाट पर मनुष्य के धड़, स्त्रीयोनि, सृगाल और सुरापात्र की आकृति ( क्रमशः ) जलते हुए लोहे से अङ्कित करावे ओर राज्य से बाहर निकाल दे ॥ १८ ॥

कृत्वा प्रवासयेदिति शेषः । कुसिन्धः कबन्धः । भगः स्त्रीव्यञ्जनम् । सृगालो गोमायुः । स च शुनोऽपि प्रदर्शनार्थः । सुराध्वजः सुराभाण्डम् । आह च मनुः—

स्तेनस्य श्वापदः कार्यः सुरापाने सुराध्वजः ।
गुरुतल्पे भगः कार्यो ब्रह्महण्यशिराः पुमान् ॥ इति ॥


१. त्र्यब्दं निधापयेदिति क. पु. ।
२. अर्वाक्त्व्यब्दाद्धरेदिति ग. पु. ।
३. अपरिभाष्यश्चेति. ग. पु. ।

एकोनविंशः खण्डः ] प्रथमप्रश्ने दशमोऽध्यायः १३३

कबन्धाद्याकृतिकेन कृष्णायसेन ललाटेऽङ्कयति । उत्तरीयवाससां चौर्ये विषयान्तरं निर्वासयेत् । यस्स्वयमेव प्रायश्चित्तं न करोति तस्याऽयं दण्डः॥१८॥

क्षत्रियादीनां ब्राह्मणवधे वधस्सर्वस्वहरणं च ॥ १९ ॥

अनु०—क्षत्रिय आदि अन्य वर्ण के व्यक्ति द्वारा ब्राह्मण का वध करने पर उसका वध करे और उसकी सम्पत्ति का हरण करे ॥ १९ ॥

सर्वत्र निकृष्टजातीयेनोत्कृष्टजातीयवधे वधस्सर्वस्वहरणं च दण्डो द्रष्टव्यः ॥ १९ ॥

तेषामेव तुल्यापकृष्टवधे यथाबलमनुरूपान् दण्डान् प्रकल्पयेत् ॥ २० ॥

इति बौधायनीयधर्मसूत्रे प्रथमप्रश्नेऽष्टादशः खण्डः ॥ १८ ॥

अनु०—क्षत्रिय आदि यदि ( जाति, कुल, धन, वृत्ति आदि के आधार पर ) समान व्यक्ति का वध करें तो उनकी शक्ति को देखकर यथोचित दण्ड दे ॥ २० ॥

तुल्यापकृष्टता चाऽत्र जातितोऽभिजनधनवर्तनादिभिः । यथाबलं यथास्वशक्ति । तथा स्मृत्यन्तरम्—

देशकालवयश्शक्तिबल सञ्चिन्त्य कर्मणि ।
तथाऽपराधं चाऽवेक्ष्य दण्डं दण्ड्येषु पातयेत् ॥ इति ॥ २० ॥


एकोनविंशः खण्डः

क्षत्रियवधे गोसहस्रमृषभैकाधिकं राज्ञ उत्सृजेद्वैर्निर्यातानाम् ॥ १ ॥

अनु०—क्षत्रिय का वध करने पर अपराधी व्यक्ति राजा को एक हजार गाय और एक साँड पाप को दूर करने के लिए प्रायश्चित्त स्वरूप प्रदान करे ॥ १ ॥

दण्डः प्रायश्चित्तं चैतत् । यथा 'श्वभिः खाद्येद्राजा निहीनवर्णगमने स्त्रियं प्रकाशम्' इति । राजे पालयित्रे त्यजेत् । एवं च वैरनिर्यातनमपि कृतं भवति । वैरस्य पापस्य निर्यातनमपयात नं नाश इत्यनर्थान्तरम् । यद्वा— स्वजातीयनिमित्तकापप्रशमनम् । यथा

द्रव्याणि हिंस्याद्यो यस्य ज्ञानतोऽज्ञानतोऽपि वा ।
स तस्योत्पादयेत्तृप्तिम्······। इति ॥ १ ॥

शतं वैश्ये दश शूद्रे ऋषभश्चात्राधिकः ॥ २ ॥

१३४बौधायन-धर्मसूत्रम्[ राजधर्माः

अनु०—वैश्य की हत्या करने पर सौ और शूद्र की हत्या करने पर दस गायें तथा दोनों स्थितियों मे एक साँड भी राजा को दे ॥ २ ॥

सर्वत्र प्रायश्चित्तार्थ इति शेषः । एषोऽपि राज्ञे त्यागः ॥ २ ॥

शूद्रवधेन स्त्रीवधो गोवधश्च व्याख्यातः ॥ ३ ॥

अनु०—शूद्रवध के प्रायश्चित्त के द्वारा ही (ब्राह्मणी के अतिरिक्त अन्य वर्ण की) स्त्री का वध तथा गो-वध का प्रायश्चित्त भी समझना चाहिए ॥ ३ ॥

ऋषभैकादशगोत्यजनमत्राऽतिदिश्यते । इह चान्द्रायणस्याऽभ्युपचयो द्रष्टव्यः । आह च मनुः—

स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम् ।
उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत् ॥ इति ॥

इति प्रस्तुत्य

एतदेव व्रतं कुर्यु रुपपातकिनो द्विजाः ।
अवकीर्णिवर्ज्यं शुद्धयर्थं चान्द्रायणमथापि वा ॥ इति ॥ ३ ॥

^१अन्यत्राऽऽत्रेय्या वधात् ॥ ४ ॥

अनु०—किन्तु आत्रेयी (मासिक अशुद्धि के बाद स्नान करने वाली ब्राह्मणी) के अतिरिक्त अन्य स्त्री के विषय में उपर्युक्त नियम है ॥ ४ ॥

टि०—'अत्रिगोत्रोत्पन्ना स्त्री आत्रेयी' ऐसी व्युत्पत्ति भी है ।

तस्या वधे वक्ष्यति—'आत्रेय्या वधः क्षत्रियवधेन व्याख्यातः' (१९.७) इति । अनात्रेयीस्त्रीवधे ऋषभैकादशदानमित्यर्थः ॥ ४ ॥

धेन्वनडुहोश्च ॥ ५ ॥

अनु०—गाय या बैल की हत्या करने पर भी उपर्युक्त प्रायश्चित्त नियम है ॥ ५ ॥

वध इति शेषः । धेनुः पयस्विनी । अनड्वान् ^२अनोवहनक्षमः पुङ्गवः । अयमपि ऋषभैकादशगोदानातिदेशः ॥ ५ ॥

वधे धेन्वनडुहोरन्ते चान्द्रायणं चरेत् ॥ ६ ॥

अनु०—गाय या बैल (जो विशिष्ट यज्ञादि कार्य में उपयोगी और विशेष महत्त्व के हों) की हत्या करने पर उपर्युक्त प्रायश्चित्त रूप दण्ड देने के बाद (अपराधी व्यक्ति) चान्द्रायण व्रत करे ॥ ६ ॥


१. अत्रिगोत्रोत्पन्ना स्त्री आत्रेयी इत्यपि केचित् ।
२. आरोपितभारवहनक्षमः इति. क. पु. ।

एकोनविंशः खण्डः ] प्रथमप्रश्ने दशमोऽध्यायः १३५

ऋषभैकादशगोदानस्याऽन्ते तु नाऽत्र दानतपसोस्समुच्चयः । अत एवैतत् ज्ञापितं भवति-धेन्वनडुहावत्र विशिष्टपुरुषसम्बन्धिनावग्निहोत्रादिविशिष्टोपयोगार्थौ । दुर्भिक्षादिषु च बहुदोग्धृत्वेन बहुवोढृत्वेन प्रजासंरक्षणार्थौ वेति । अन्यथा शूद्रहत्यातः तस्य प्रायश्चित्तं गुरुतरं न स्यादिति ॥ ६ ॥

आत्रेय्या वधः क्षत्रियवधेन व्याख्यातः ॥ ७ ॥

अनु०— (रजस्वला ऋतुस्नाता ब्राह्मणी) आत्रेयी के वध का प्रायश्चित्त क्षत्रियवध के प्रायश्चित्त द्वारा बता दिया गया है ॥ ७ ॥

'रजस्वलामृतुस्नातामात्रेयीमाहुरत्र ह्येष्यदपत्यं भवति' इति । गोवध इत्यन्ते । क्षत्रियवधदण्डप्रायश्चित्तयोरुभयोरयमतिदेशः ॥ ७ ॥

हंसभासबर्हिणचक्रवाकप्रचलाककाकोलूककण्टकडिड्डिकमण्डूकडेरिकाश्ववभ्रुनकुलादीनां वधे शूद्रवत् ॥ ८ ॥

अनु०— हंस, भास, मोर, चक्रवाक, प्रचलाक, कौवा, उल्लू, कण्टक, छुछुन्दर, मेढक, डेरिका, कुत्ता, वभ्रु, नेवला आदि का वध करने पर शूद्र की हत्या के लिए विहित प्रायश्चित्त होता है (अर्थात् राजा को दस गायें और एक साँड प्रदान करे)॥ ८॥

शूद्रं हत्वा यत्प्रायश्चित्तं तत्प्रायश्चित्तमेतेषां वधे भवति । सर्वत्र चातिदेशे मानाधीनता । इह मण्डूकग्रहणं मार्जारादीनामपि प्रदर्शनार्थम् । आह च मनुः—

मार्जारनकुलौ हत्वा चाषं मण्डूकमेव च ।
श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत् ॥ इति ॥

प्रचलाको डिम्भः । डिड्डिकः चुचुन्दरी । आदिग्रहणात् कृकवाक्वादेरपिग्रहणम् । 'कृकवाक्वौ शूद्रहत्यावत् प्रायश्चित्तम्' इति स्मृत्यन्तरात् । एवं तावत् 'शास्ता राजा दुरात्मनाम्' इति मत्वा प्रायश्चित्तान्यपि राज्ञा कारयितव्यानीत्यर्थः । तानि दिङ्मात्रेण दर्शितानि ॥ ८ ॥

साम्प्रतं पापप्रसङ्गात् कूटसाक्षिनिवृत्त्यर्थं साक्षिप्रकरणमारभ्यते । तत्र प्रथमं मृषावदनं परिहारयति—

लोकसङ्ग्रहणार्थं यथादृष्टं यथाश्रुतं साक्षी ब्रूयात् ॥ ९ ॥

अनु०— लोक में प्रशंसा तथा मान पाने के लिए साक्षी को वैसा ही बताये जैसा उसने देखा हो या सुना हो ॥ ९ ॥

द्वयोः परस्परविप्रतिपत्तौ ज्ञातमर्थं साक्षिभिर्भावयेत् । महाजनपरिग्रहार्थं

११६ बौधायनधर्मसूत्रम् [ राजधर्माः

तत्र साक्षी यथादृष्टं निरपेक्षप्रमाणेनावगतं यथाश्रुतमाप्तवाक्यादवगतं तथैव ब्रूयात् ॥ ९ ॥

परीक्षकाणां सम्यक्परीक्षाभावे—

पादोऽधर्मस्य कर्तारं पादो गच्छति साक्षिणम् ।
पादस्सभासदस्सर्वान् पादो राजानमृच्छति ॥
राजा भवत्यनेनाश्च मुच्यन्ते च सभासदः ।
एनो गच्छति कर्तारं यत्र निन्द्यो ह निन्द्यते ॥ १० ॥

अनु०—(निर्णय में) अधर्म का एक चौथाई अधर्म करने वाले अपराधी पर पड़ता है, एक चौथाई साक्षियों पर पड़ता है, एक चौथाई सभी निर्णायकों पर पड़ता है तथा एक चौथाई राजा पर पड़ता है। किन्तु जहाँ निन्दनीय व्यक्ति की ही निन्दा की जाती है वहाँ राजा पापरहित हो जाता है, सभासद् दोष से मुक्त हो जाते हैं और पाप अपराधी के ऊपर ही पहुँचता है ॥ १० ॥

राज्ञा सम्यक्परीक्षा कर्त्तव्येति श्लोकद्वयस्य तात्पर्यार्थः । इतरथा अधर्मस्य कृत्स्नस्य पाद् एव तत्कर्त्तारं गच्छेत् । इतरे त्रयः पादाः साक्षिसभासद्राजगा इत्युक्तम् । सम्यक्परीक्ष्य दुष्टनिग्रहः परीक्षकाणां पापप्रमोचनार्थ इति द्वितीय-श्लोकार्थः ॥ १० ॥

तत्र परीक्षावेलायां पृथक् श्लोकसञ्चयः—

साक्षिणं त्वेवमुद्दिष्टं यत्नात्पृच्छेद्विचक्षणः ॥ ११ ॥

**अनु०—**इस लिए विद्वान् न्यायकर्ता साक्षियों को उद्दिष्ट करके इस प्रकार पूछे :॥ ११ ॥

अर्थिना निर्दिष्टान् साक्षिण एवं पृच्छेदिति पदान्वयः ॥ ११ ॥

कथं पृच्छेत् ?

यां रात्रिमजनिष्ठास्त्वं यां च रात्रिं मरिष्यसि ।
एतयोरन्तरा यत्ते सुकृतं सुकृतं भवेत् ॥
तत्सर्वं राजगामि स्यादनृतं ब्रुवतस्तव ॥ १२ ॥

**अनु०—**जिस रात्रि तुम उत्पन्न हुए थे और जिस रात्रि तुम मरोगे, उन दोनों के बीच (अपने सम्पूर्ण जीवन में) तुम्हारा जो कुछ धर्माचरण का पुण्य होगा वह सभी तुम्हारे असत्य भाषण करने पर राजा को प्राप्त होवे ॥ १२ ॥

एकोनविंशः खण्डः ] प्रथमप्रश्ने दशमोऽध्यायः १३७

सुकृतं धर्मः। स च सुष्ठु कृतो यथाविध्यनुष्ठितः। यमनृतेन पराजयसि तद्गामी त्वदीयो धर्म इति याज्ञवल्क्योऽभिप्रैति—

सुकृतं यत्त्वया किञ्चिज्जन्मान्तरशतैः कृतम् ।
तत्सर्वं तस्य जानीहि पराजयसि यं मृषा ॥

इत्यवदत् ॥ १२ ॥

किञ्च—

त्रीनेव च पितॄन् हन्ति त्रीनेव च पितामहान् ॥ १३ ॥

अनृतवदनमात्रे एष दोषः ॥ १३ ॥

साक्ष्यनृते तु —

सप्त जातानजातांश्च साक्षी साक्ष्यं मृषा वदन् ॥ १४ ॥

**अनु०—**अपने तीनों पिता को, अपने तीन पितामहों को, अपने से पहले उत्पन्न तथा अपने बाद उत्पन्न होने वाले सात-पीढ़ी के पुरुषों को झूठी गवाही देने वाला साक्षी मार डालता है ॥ १३-१४ ॥

स आत्मनः पूर्वापरान् सप्तसप्त हन्तीत्यर्थः। अधर्मप्रवणचित्तानां मत्याऽऽत्मीयवंश्यहननोपाये वैराग्यं भवतोत्येवं सान्त्वनम् ॥ १४ ॥

अथेदानीं विप्रतिपत्तिविषयभूतदृष्टविशेषापेक्षयाऽनृतवदने दोषमाह—

हिरण्यार्थेऽनृते हन्ति त्रीनेव च पितामहान् ।
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ॥
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ।
सर्वं भूम्यनृते हन्ति साक्षो साक्ष्यं मृषा वदन् ॥ १५ ॥

**अनु०—**स्वर्ण के लिए झूठ बोलने पर साक्षी तीन पूर्वजों को नष्ट करता है, पशु के विषय में असत्य बोलकर पाँच और गाय के विषय में असत्य बोलकर दश का, घोड़े के संबंध में असत्य बोलने पर सौ का वध करता है। पुरुष के विषय में असत्य भाषण कर हजार का वध करता है, झूठी गवाही देने वाला साक्षी भूमि के विषय में असत्य बोलकर सम्पूर्ण का वध कर देता है ॥ १५ ॥

**टि०—**वध करने का भाव हरदत्त ने गौतम धर्मसूत्र २-४-१४ की व्याख्या में इस प्रकार किया है "तेषां (दशानां) वधे. यावान्दोषः तावानस्य भवतीति" । (दस) के वध के बराबर दोष होता है, अर्थात् जिसके विषय में असत्य भाषण किया गया हो उसका दस संख्या में वध करने का दोष होता है। इस प्रकार उपर्युक्त सूत्र का

१३८बौधायन-धर्मसूत्रम्प्रथम

भाव होगा, पशु के विषय में असत्य भाषण से पांच पशु के वध का दोष, गाय के विषय में असत्यभाषण से दस गाय के वध का दोष, अश्व के विषय में असत्यभाषण का सौ अश्व के वध का दोष, पुरुष के विषय में असत्यभाषण का हज़ार पुरुष के वध का दोष तथा भूमि के विषय में असत्य भाषण से सम्पूर्ण प्राणियों के वध का दोष होता है। द्रष्टव्य गौतम० वही, सूत्र ११४-१५ "क्षुद्रपश्वनृते साक्षी दश हन्ति। गोऽश्वपुरुषभूमिषु दशगुणोत्तरान् सर्वं वा भूमौ" तथा इन सूत्रों पर हरदत्त की मिताक्षरा; मेरे अनुवाद सहित चौखम्बा संस्करण, पृ० १३५।

अत्र हिरण्यशब्दो रजतादिवचनः।
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ॥
इति सुवर्णविषये मानवदर्शनात् ॥ १५ ॥

अथ साक्षिलक्षणमाह—
चत्वारो वर्णाः पुत्रिणः साक्षिणस्स्युरन्यत्र श्रोत्रियराजन्यप्रव्रजितमानुष्यहीनेभ्यः ॥ १६ ॥

**अनु०—**श्रोत्रिय, राजा, संन्यासी, बन्धु-बान्धवहीन को छोड़कर सभी चारो वर्णों के लोग, जो पुत्र वाले हों, साक्षी हो सकते हैं ॥ १६ ॥

टि०—'मानुष्यहीन' का अनुवाद ब्यूह्लर ने 'मानव बुद्धि से हीन' किया है।

मानुष्यहीनो बन्धुहीनः। एते श्रोत्रियराजन्यप्रव्रजिताः वचनादसाक्षिणः। बन्धुहीनस्तु दृष्टदोषात्। तथा च नारदः—
वचनाद्दोषतो भेदाः स्वयमुक्तिर्मृषान्तरः।
श्रोत्रियाद्या अवचनात्ते न स्युर्दोषदर्शनात् ॥ इत्यादि ॥ १६ ॥

साक्षिद्वैधे सति राज्ञा तत्पुरुषैश्च किं कर्तव्यमित्याह—
स्मृतौ प्रधानतः प्रतिपत्तिः ॥ १७ ॥

अनु०— (विवाद-विषय के ) स्मृतियुक्त दो साक्षी होने पर प्रधान साक्षी के वचन से निश्चय होता है ॥ १७ ॥

टि०— 'स्मृतौ' की स्पष्टतः व्याख्या गोविन्द स्वामी ने नहीं की है। उनके विचार से तथ्य का स्मरण करने वाले दो साक्षियों से यहाँ तात्पर्य है। जब दो साक्षी हों तो राजा को उस साक्षी के वचन के अनुसार निश्चय करना चाहिए जो तपस्या, विद्या आदि में प्रधान हो। इस सन्दर्भ में गोविन्द स्वामी ने मनु के वचन को भी उद्धृत किया है। ब्यूह्लर ने इस सूत्र का जो अनुवाद किया है उसका भावार्थ इस

एकोनविंशः खण्डः ] प्रथमप्रश्ने दशमोऽध्यायः १३९

प्रकार है: 'यदि ( साक्षी यथार्थतः ) वाद के तथ्यों को स्मरण करता है तो वह श्रेष्ठ लोगों से प्रशंसा प्राप्त करेगा ।'

प्राधान्यं तपोनिर्दिष्टविद्यादिभिः, तद्वचनात् प्रतिपत्तिः निश्चयः । कार्य इत्यध्याहारः । किमुक्तं भवति—

द्वैधे बहूनां वचनं समेषु गुणिनां तथा ।
गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तराः ॥

इत्येतदुक्तं भवति ॥ १७ ॥

अतोऽन्यथा कर्तपत्यम् ॥ १८ ॥

**अनु०—**इससे भिन्न प्रकार से निर्णय करने पर वह नरक में गिरता है ॥ १८ ॥

उक्तोपायादुपायान्तरेण निर्णये सति कर्तपत्यं नाम दोषो भवति । कर्तं नरकं तस्मिन् निपातः कर्तपत्यम् ॥ १८ ॥

तत्र च प्रायश्चित्तमाह—

द्वादशरात्रं तप्तं पयः पिबन् कूष्माण्डैर्वा जुहुयात् कूष्माण्डैर्वा जुहुयादिति ॥ १९ ॥

इति बौधायनीये धर्मसूत्रे प्रथमप्रश्ने एकोनविंशः खण्डः ॥ १९ ॥

अनु०—( इसका प्रायश्चित्त इस प्रकार है ): बारह दिन रात तक उष्ण दुग्ध पिए या कूष्माण्ड मन्त्रों से होम करे ॥ १९ ॥

**टि०—**गोविन्द स्वामी की टीका के अनुसार यह होम राजा या राजपुरुष को करना चाहिए और आहवनीय अग्नि में ही करने चाहिए । 'यद‍्देवा देवहेलनम्' से लेकर 'पुनर्मनः पुनरायुर्म आगात्' तक ( तैत्तिरीय आरण्यक १०.३-५ ) कूष्माण्ड मन्त्र हैं । प्रत्येक मन्त्र के साथ होम करे, कुछ आचार्यों के अनुसार प्रतिदिन होम की आवृत्ति करे । म्यूह्लर ने यह प्रायश्चित्त मिथ्या साक्ष्य देने वाले के लिए बताया है ।

घृतमिति शेषः । अस्मार्त्तत्वादाहवनीय एवाऽयं होमो राज्ञो राजपुरुषाणां च (?) । कूष्माण्डानि 'यद‍्देवा देवहेलनम्' इत्यारभ्य "पुनर्मनः पुनरायुर्म आगा" दित्यन्तान्यारण्यके प्रसिद्धानि । प्रतिमन्त्रं च होमभेदः । प्रत्यहं होमावृत्तिरिति केचित् । अपरे द्वादशरात्रस्याऽन्ते सकृदेवैत्याहुः ॥ १९ ॥

इति बौधायनधर्मसूत्रविवरणे गोविन्दस्वामिकृते प्रथमप्रश्ने दशमोऽध्यायः ॥

१४० | बौधायन-धर्मसूत्रम् | [ विवाहाः

एकादशोऽध्यायः

विंशः खण्डः

'साक्षिणः पुत्रिणः' ( १९. १६. ) इत्युक्तम् । केनोपायेन पुत्रिणो भवन्ती- त्येतत्प्रसङ्गेन विवाहानामवतारः— 'अष्टौ विवाहाः ॥ १ ॥

अनु०—आठ प्रकार के विवाह कहे गये हैं ॥ १ ॥

उच्यन्त इति शेषः । नियमार्थमष्टग्रहणम् । ततश्च वक्ष्यमाणब्राह्मादिनियम- धर्मलङ्घननिमित्तवर्णसङ्करो भवतीत्येतदर्थात्सूचितं भवतीति ॥ १ ॥

तत्राऽऽह— श्रुतिशीले विज्ञाय ब्रह्मचारिणेऽर्थिने कन्या दीयते स ब्राह्मः ॥२॥

अनु०—जब वेद के विद्वान् व्यक्ति को, जिसके श्रुतिशील होने का ज्ञान प्राप्त कर लिया गया हो, जो ब्रह्मचर्य व्रत का पालन कर रहा हो और जिसने विवाहार्थ कन्या की याचना की हो, कन्या प्रदान की जाती है तब वह ब्राह्म नाम का विवाह होता है ॥ २ ॥

अयमाद्यो धर्मविवाहः । श्रुतं वेदार्थज्ञानं, शीलं सर्वसहिष्णुता । ब्रह्मचारी उपकुर्वाणोऽस्कन्नरेताश्च । कन्या अक्षतयोनिः । आह च मनुः—

आच्छाद्य चाऽऽर्चयित्वा च श्रुतशीलवते स्वयम् । आहूय दानं कन्यायाः ब्राह्मो धर्मः प्रकीर्तितः ॥ इति ॥ २ ॥

आच्छाद्याऽलङ्कृत्यै "षा सहधर्मं चर्यता" मिति प्राजापत्यः ॥३॥

अनु०—जब पिता कन्या को वस्त्रों से आच्छादित कर तथा आभूषणों से अल- ङ्कृत कर 'यह तुम्हारी भार्या है, इसके साथ धर्मों का आचरण करो' ऐसा कहकर प्रदान करता है तो प्राजापत्य नाम का विवाह होता है ॥ ३ ॥

आच्छादनालङ्करणे कन्याया एव । वरस्याऽप्येके । "एषा" इत्यादिमन्त्रः । एषा ते भार्या । त्वदीयो द्रव्यसाध्यो धर्मोऽनया सह चर्यतामिति मन्त्रार्थः । एष प्राजापत्यो नाम द्वितीयः ॥ ३ ॥

तृतीयस्तु— पूर्वां लाजाहुतिं हुत्वा गोमिथुनं कन्यावते दत्त्वा ग्रहणमार्षः ॥४॥


१. ब्राह्मो प्राजापत्यं आसुरे पैशाचं चाऽन्तर्भाव्य षडेव विवाहान् कथयत्यापस्त- म्बाचार्यः । See आप. ध. २.१२–१७ ।