बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 180, कुल 486 में से
संदर्भ में पढ़ें| १२८ | बौधायन-धर्मसूत्रम् | [राजधर्मः |
|---|
रक्षितस्य धर्मषड्भागभागभवति। तथा च वसिष्ठः—'राजा तु धर्मेणानुशा- शासन् षष्ठं धनस्य हरेदन्यत्र ब्राह्मणात्। इष्टापूर्तस्य तु षष्ठमंशं भजति' इति। इष्टं वर्णसामान्याधिकारावष्टम्भेन विहितो ज्योतिष्टोमादिः। पूर्तं तु साधारणो धर्मः सर्वेषां सत्यमक्रोधो दानमहिंसा प्रजननमित्यादि। अभिषिक्तस्य प्रजापरिपालनं धर्मः। गौतमश्च तदेवाधिकृत्य वदति—'चलतश्चैनान् स्वधर्मे स्थापयेत्। धर्मस्य ह्यंशभागभवति' इति। वसिष्ठश्च—'स्वधर्मो राज्ञः परिपा- लनं भूतानाम्' इति। आचार्यश्च स्वधर्मेषु स्थापनमेव रक्षणमिति मत्वाऽस्येमे स्वधर्मा इत्याह ॥ १ ॥
ब्रह्म वै स्वं महिमानं ब्राह्मणेष्बदधादध्ययनाध्यापनयजनयाज- नदानप्रतिग्रहसंयुक्तं वेदानां गुप्त्यै ॥ २ ॥
**अनु०—**ब्रह्म ने अपनी महिमा को ब्राह्मणों में रखा और वेदों की रक्षा के लिए अध्ययन करना, वेदों का अध्यापन करना, यज्ञ करना और यज्ञ कराना, दान देना और दान ग्रहण करना उनके कर्म उसके साथ संयुक्त कर दिये ॥ २ ॥
एष हि षट्कर्मयुक्तो ब्राह्मणः स्वो महिमा। किमर्थमेवं कृतवान् ब्रह्मेत्याह— वेदानां गुप्त्यै। गुप्तिः रक्षणम् ॥ २ ॥ सर्वेषां वर्णानां रक्षणायैमे क्षत्रधर्मा इत्याह—
क्षत्रे बलमध्ययनयजनदानशस्त्रकोशभूतरक्षणसंयुक्तं क्षत्रस्य वृद्ध्यै ॥ ३ ॥
**अनु०—**ब्रह्म ने क्षत्रिय में बल का आधान किया और राज्य शक्ति की वृद्धि के लिए वेदाध्ययन, यज्ञ करना, दान देना, शस्त्र धारण करना, धन की तथा प्राणियों के जीवन की रक्षा करना उनके कर्तव्य उसके साथ अन्वित कर दिये ॥ ३ ॥
अदधादित्यनुवर्तते। किं तत् ? बलं शक्तिः वेदाध्ययनादिसंयुक्तम्। शस्त्र- मायुधम्। तथा च वसिष्ठः—'शस्त्रेण च प्रजापालनं स्वधर्मः' इति। भूतग्रहणं चतुर्विधस्याऽपि भूतस्य ग्रहणार्थम्। तथा च गौतमः—'चतुर्विधस्य मनुष्यजा- तस्याऽन्तस्संज्ञानां चलनपतनसर्पणानाभायतं जीवनं प्रसूतिरक्षणम्' इति। क्षत्रस्य वृद्धिरभ्युदयः ॥ ३ ॥ वैश्येषु वैश्यकर्माऽदधादित्याह—
विट्स्वध्ययनयजनदानकृषिवाणिज्यपशुपालनसंयुक्तं कर्मणां वृद्ध्यै ॥ ४ ॥
**अनु०—**ब्रह्म ने वैश्यों में (यज्ञादि) कर्म की वृद्धि के लिए अध्ययन, यज्ञ करना, दान देना, कृषि, व्यापार, पशुपालन कर्म संयुक्त किये ॥ ४ ॥