बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 181, कुल 486 में से
संदर्भ में पढ़ेंअष्टादशः खण्डः ] प्रथमप्रश्ने दशमोऽध्यायः १२९
अध्ययनादिसंयुक्तं अध्ययनादिनिष्पादितमित्यर्थः । कृषिः भूविलेखनम् । वाणिज्यं क्रयविक्रयव्यवहारः । कर्माणि यागादीनि । तेषां साधने सति वृद्धिर्भवति ॥ ४ ॥
शूद्रेषु पूर्वेषां परिचर्या ॥ ५ ॥
**अनु०—**शूद्रों के लिए पूर्व वर्णों की सेवा का कार्य निर्धारित किया ॥ ५ ॥
अदधादित्येव । पूर्वेषां ब्राह्मणादीनाम् । परिचर्या शुश्रूषा । आह चाऽऽपस्तम्बः—‘शुश्रूषा शूद्रस्येतरेषां वर्णानाम्’ इति ॥ ५ ॥
किमिति शुश्रूषा शूद्राणामित्यत आह—
‘पत्तॊ ह्यसृज्यन्तेति ॥ ६ ॥
**अनु०—**क्योंकि शूद्र (प्रजापति के) पैर से उत्पन्न है, ऐसा श्रुति का वचन है॥६॥
हिशब्दो हेतौ । यस्मात्प्रजापतेः पादात्सृष्टः तस्माच्छूद्रो यज्ञेऽनवकल्पः । अतो द्विजानां शुश्रूषैव शूद्रस्य धर्मः ॥ ६ ॥
एवं चातुर्वर्ण्यधर्ममभिधाय पुना राज्ञ एवाऽऽह—
सर्वतोधुरं पुरोहितं वृणुयात् ॥ ७ ॥
**अनु०—**राजा सभी विषयों के ज्ञान में प्रवीण पुरोहित का चयन करे ॥ ७ ॥
सर्वत्र धूर्यस्य सर्वतोधूः । धूश्च व्यापारः विषयज्ञानमिहाऽभिप्रेतम् । सर्वज्ञ इति यावत् । पुरो धीयत इति पुरोहितः । तं वृणुयात् वृणीत ॥ ७ ॥
तस्य शासने वर्तेत ॥ ८ ॥
**अनु०—**उसी के आदेश के अनुसार कार्य करे ॥ ८ ॥
तत्प्रयुक्तः कर्माणि कुर्यात् । स च ब्राह्मणः विद्याभिजनवांश्च गौतमवचनात् । स ह्याह—‘ब्राह्मणं पुरोदधीत विद्याभिजनवाग्रूपवयस्सम्पन्नं न्यायवृत्तं तपस्विनम् । ब्रह्मप्रसूतः कर्म कुर्वीत । ब्रह्मप्रसूतं हि क्षत्रमृध्यते’ इत्यादि ॥ ८ ॥
१. तैत्तिरीयसंहितायां सप्तमकाण्डे प्रजापतेर्ब्राह्मणादीनां सृष्टिकथनावसरे “तस्मात् पादावुपजीवन्तः पत्तो ह्यसृज्येताम्” इति शूद्रस्य पादजन्यत्वमुक्तम् । तस्यैवाऽयं बहुवचनान्तेनाऽनुवादः ।
२. पुरोहितवरणमैतरेयब्राह्मणेऽष्टमपञ्चिकायां “न ह वा अपुरोहितस्य राज्ञो देवा अन्नमदन्ति” ( ४०. १ ) इत्यादिना विस्तरशो विहितम् । तदेवास्य सूत्रस्य मूलमिति भाति ॥
१२ बौ०ध०