भारतकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ
१२८बौधायन-धर्मसूत्रम्[राजधर्मः

रक्षितस्य धर्मषड्भागभागभवति। तथा च वसिष्ठः—'राजा तु धर्मेणानुशा- शासन् षष्ठं धनस्य हरेदन्यत्र ब्राह्मणात्। इष्टापूर्तस्य तु षष्ठमंशं भजति' इति। इष्टं वर्णसामान्याधिकारावष्टम्भेन विहितो ज्योतिष्टोमादिः। पूर्तं तु साधारणो धर्मः सर्वेषां सत्यमक्रोधो दानमहिंसा प्रजननमित्यादि। अभिषिक्तस्य प्रजापरिपालनं धर्मः। गौतमश्च तदेवाधिकृत्य वदति—'चलतश्चैनान् स्वधर्मे स्थापयेत्। धर्मस्य ह्यंशभागभवति' इति। वसिष्ठश्च—'स्वधर्मो राज्ञः परिपा- लनं भूतानाम्' इति। आचार्यश्च स्वधर्मेषु स्थापनमेव रक्षणमिति मत्वाऽस्येमे स्वधर्मा इत्याह ॥ १ ॥

ब्रह्म वै स्वं महिमानं ब्राह्मणेष्बदधादध्ययनाध्यापनयजनयाज- नदानप्रतिग्रहसंयुक्तं वेदानां गुप्त्यै ॥ २ ॥

**अनु०—**ब्रह्म ने अपनी महिमा को ब्राह्मणों में रखा और वेदों की रक्षा के लिए अध्ययन करना, वेदों का अध्यापन करना, यज्ञ करना और यज्ञ कराना, दान देना और दान ग्रहण करना उनके कर्म उसके साथ संयुक्त कर दिये ॥ २ ॥

एष हि षट्कर्मयुक्तो ब्राह्मणः स्वो महिमा। किमर्थमेवं कृतवान् ब्रह्मेत्याह— वेदानां गुप्त्यै। गुप्तिः रक्षणम् ॥ २ ॥ सर्वेषां वर्णानां रक्षणायैमे क्षत्रधर्मा इत्याह—

क्षत्रे बलमध्ययनयजनदानशस्त्रकोशभूतरक्षणसंयुक्तं क्षत्रस्य वृद्ध्यै ॥ ३ ॥

**अनु०—**ब्रह्म ने क्षत्रिय में बल का आधान किया और राज्य शक्ति की वृद्धि के लिए वेदाध्ययन, यज्ञ करना, दान देना, शस्त्र धारण करना, धन की तथा प्राणियों के जीवन की रक्षा करना उनके कर्तव्य उसके साथ अन्वित कर दिये ॥ ३ ॥

अदधादित्यनुवर्तते। किं तत् ? बलं शक्तिः वेदाध्ययनादिसंयुक्तम्। शस्त्र- मायुधम्। तथा च वसिष्ठः—'शस्त्रेण च प्रजापालनं स्वधर्मः' इति। भूतग्रहणं चतुर्विधस्याऽपि भूतस्य ग्रहणार्थम्। तथा च गौतमः—'चतुर्विधस्य मनुष्यजा- तस्याऽन्तस्संज्ञानां चलनपतनसर्पणानाभायतं जीवनं प्रसूतिरक्षणम्' इति। क्षत्रस्य वृद्धिरभ्युदयः ॥ ३ ॥ वैश्येषु वैश्यकर्माऽदधादित्याह—

विट्स्वध्ययनयजनदानकृषिवाणिज्यपशुपालनसंयुक्तं कर्मणां वृद्ध्यै ॥ ४ ॥

**अनु०—**ब्रह्म ने वैश्यों में (यज्ञादि) कर्म की वृद्धि के लिए अध्ययन, यज्ञ करना, दान देना, कृषि, व्यापार, पशुपालन कर्म संयुक्त किये ॥ ४ ॥

अष्टादशः खण्डः ] प्रथमप्रश्ने दशमोऽध्यायः १२९

अध्ययनादिसंयुक्तं अध्ययनादिनिष्पादितमित्यर्थः । कृषिः भूविलेखनम् । वाणिज्यं क्रयविक्रयव्यवहारः । कर्माणि यागादीनि । तेषां साधने सति वृद्धिर्भवति ॥ ४ ॥

शूद्रेषु पूर्वेषां परिचर्या ॥ ५ ॥

**अनु०—**शूद्रों के लिए पूर्व वर्णों की सेवा का कार्य निर्धारित किया ॥ ५ ॥

अदधादित्येव । पूर्वेषां ब्राह्मणादीनाम् । परिचर्या शुश्रूषा । आह चाऽऽपस्तम्बः—‘शुश्रूषा शूद्रस्येतरेषां वर्णानाम्’ इति ॥ ५ ॥

किमिति शुश्रूषा शूद्राणामित्यत आह—

‘पत्तॊ ह्यसृज्यन्तेति ॥ ६ ॥

**अनु०—**क्योंकि शूद्र (प्रजापति के) पैर से उत्पन्न है, ऐसा श्रुति का वचन है॥६॥

हिशब्दो हेतौ । यस्मात्प्रजापतेः पादात्सृष्टः तस्माच्छूद्रो यज्ञेऽनवकल्पः । अतो द्विजानां शुश्रूषैव शूद्रस्य धर्मः ॥ ६ ॥

एवं चातुर्वर्ण्यधर्ममभिधाय पुना राज्ञ एवाऽऽह—

सर्वतोधुरं पुरोहितं वृणुयात् ॥ ७ ॥

**अनु०—**राजा सभी विषयों के ज्ञान में प्रवीण पुरोहित का चयन करे ॥ ७ ॥

सर्वत्र धूर्यस्य सर्वतोधूः । धूश्च व्यापारः विषयज्ञानमिहाऽभिप्रेतम् । सर्वज्ञ इति यावत् । पुरो धीयत इति पुरोहितः । तं वृणुयात् वृणीत ॥ ७ ॥

तस्य शासने वर्तेत ॥ ८ ॥

**अनु०—**उसी के आदेश के अनुसार कार्य करे ॥ ८ ॥

तत्प्रयुक्तः कर्माणि कुर्यात् । स च ब्राह्मणः विद्याभिजनवांश्च गौतमवचनात् । स ह्याह—‘ब्राह्मणं पुरोदधीत विद्याभिजनवाग्रूपवयस्सम्पन्नं न्यायवृत्तं तपस्विनम् । ब्रह्मप्रसूतः कर्म कुर्वीत । ब्रह्मप्रसूतं हि क्षत्रमृध्यते’ इत्यादि ॥ ८ ॥


१. तैत्तिरीयसंहितायां सप्तमकाण्डे प्रजापतेर्ब्राह्मणादीनां सृष्टिकथनावसरे “तस्मात् पादावुपजीवन्तः पत्तो ह्यसृज्येताम्” इति शूद्रस्य पादजन्यत्वमुक्तम् । तस्यैवाऽयं बहुवचनान्तेनाऽनुवादः ।
२. पुरोहितवरणमैतरेयब्राह्मणेऽष्टमपञ्चिकायां “न ह वा अपुरोहितस्य राज्ञो देवा अन्नमदन्ति” ( ४०. १ ) इत्यादिना विस्तरशो विहितम् । तदेवास्य सूत्रस्य मूलमिति भाति ॥

१२ बौ०ध०

१३० | बौधायन-धर्मसूत्रम् | [ राजधर्माः

सङ्ग्रामे न निवर्तेत ॥ ९ ॥

अनु०—युद्ध में पलायन न करे ॥ ९ ॥

युद्धे उपस्थिते पलायनपरायणेन न भवितव्यमित्यर्थः ॥ ९ ॥

युद्धे तु वर्तमाने— न कर्णिभिर्न दिग्धैः प्रहरेत् ॥ १० ॥

अनु०—बर्छीदार अस्त्रों से या विषदिग्ध अस्त्रों से प्रहार न करे ॥ १० ॥

कर्णवन्त्यस्त्राणि कर्णानि शूलादीनि । विषेण लिप्तानि दिग्धानि । असमासः प्रत्येकं प्रतिषेधप्राप्त्यर्थः ॥ १० ॥

किञ्च— भीतमत्तोन्मत्तप्रमत्तविसन्नाहस्त्रीबालवृद्धब्राह्मणैर्न युध्येताऽन्यत्राऽऽ- ततायिनः ॥ ११ ॥

अनु०—भयभीत, सुरापान से मत्त, पागल, चेतनाहीन, कवचादि बन्धन से हीन, स्त्री, बालक, वृद्ध और ब्राह्मण के साथ युद्ध न करे, किन्तु आततायी के ऊपर आक्रमण करे ॥ ११ ॥

टि०—द्र० गौतम० २-१०-१८ ‘अन्यत्र व्यश्वसारथ्यायुधकृताञ्जलिप्रकीर्णकेश-पराङ्मुखोपविष्टस्थलवृक्षारूढदूतगोब्राह्मणवादिभ्यः' तात्पर्य यह है कि राजा ऐसे लोगों पर प्रहार न करे ।

भीतः त्रस्तः । मत्तस्सुरादिपायी । उन्मत्तो विरुद्धचेष्टः । प्रमत्तो विगतचेताः। विसन्नाहो विगलितकवचादिबन्धः विगतव्यापारो वा । शेषाः प्रसिद्धाः । तैर्न युध्येत तान् न हिंस्यादित्यर्थः । १ तथा च गौतमः—'न दोषो हिंसायामाहवे । अन्यत्र व्यश्वसारथ्यनायुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षारूढ-दूतगोब्राह्मणवादिभ्यः' इति । व्यश्वसारथीत्यत्र व्यश्वो विसारथिरिति योजना । व्यश्वादिशब्दो दूतादिभिः प्रत्येकं सम्बन्धनीयः । अदूतोऽपि दूतोऽहमिति यो वदति गैरहं ब्राह्मणोऽहमिति । पूर्वोक्तान्विशिनष्टि—अन्यत्राऽऽततायिन इति । आततायी साहसकारी ॥ ११ ॥

तद्धिंसायां दोषाभावं परकीयमतेनोपन्यस्यति— अथाऽप्युदाहरन्ति— 'अध्यापकं कुले जातं यो हन्यादाततायिनम् । न तेन भ्रूणहा भवति मन्युस्तं मन्युमृच्छतीति ॥ १२ ॥


१. See. मनु. ८.१५०, १५१ ।

अष्टादशः खण्डः ] प्रथमप्रश्ने दशमोऽध्यायः १३१

अनु०—धर्मशास्त्रज्ञ इस विषय में निम्नलिखित पद्य उद्धृत करते हैं—यदि वेदाध्ययन करने वाले, उच्चकुल में ( ब्राह्मण वर्ण में ) उत्पन्न आततायी का वध करता है तो उससे वध करने वाला भ्रूणहा ( विद्वान् ब्राह्मण की हत्या का दोषी ) नहीं होता, क्योंकि क्रोध ही क्रोध के ऊपर परावर्तित हो जाता है ॥ १२ ॥

टि०—द्रष्टव्य—मनु० ८-१५०, १५१ ।

भ्रूणहा यज्ञसाधनवधकारी । भ्रूणो यज्ञः बिभर्ति सर्वमिति । एवं ब्रुवतैतद-भिप्रेतम्—आततायिविषयेऽपि ब्राह्मणवधे दोषोऽस्तीति । इतरथा 'न तेन भ्रूणहा भवति' इति नाऽवक्ष्यत् ॥ १२ ॥

'षड्भागभृत्तो राजा' ( १.१८.१ ) इत्युक्तम् । तस्य कचिदपवादमाह—

सामुद्रश्शुल्कः ॥ १३ ॥

अनु०—दूसरे द्वीप से समुद्र मार्ग से लायी गयी वस्तु पर कर इस प्रकार होता है ॥ १३ ॥

राज्ञो भवतीति शेषः । द्वीपान्तरादाहृतं सामुद्रं वस्तु तत्सम्बन्धी सामुद्र-श्शुल्कः पणद्रव्यम् ॥ १३ ॥

तस्मिन् भागः कियानित्यत आह —

वरं रूपमु द्धृत्य दशपणं शतम् ॥ १४ ॥

अनु०—राजा उसमें से किसी उत्कृष्ट द्रव्य ( रत्नादि ) को लेकर शेष में सौ में दस पण ग्रहण करे ॥ १४ ॥

गृह्णीयाद्राजेति शेषः । वरमुत्कृष्टद्रव्यरूपं रत्नादिद्रव्यं स्वामिने प्रदाय शेषं शतधा विभज्य दशपणं गृह्णीयात् । अनेन सामुद्रे दशभागश्शुल्क इत्युक्तं भवति ॥ १४ ॥

अन्येषामपि सारानुरूप्येणाऽनुपहत्य धर्मं प्रकल्पयेत् ॥ १५ ॥

अनु०—दूसरी व्यापारिक वस्तुओं में भी उनके मूल्य के अनुसार उसमें से सबसे अच्छी वस्तु को लिए बिना, व्यापारी को पीडित न करते हुए शुल्क ग्रहण करे ॥ १५ ॥

असामुद्राणामपि द्रव्याणां सारफल्गुत्वापेक्षया वरं रूपमनुपहत्यैव धर्मं प्रकल्पयेदात्मार्थम् । तत्र सारफल्गुविभागो गौतमेनोक्तः 'विंशतिभागश्शुल्कः पण्ये । मूलफलपुष्पौषधमधुमांसतृणेन्धनानां षाष्ठ्यम्' इति षष्ठतमं षाष्ठ्यम् ॥

किञ्च—

अब्राह्मणस्य प्रणष्टस्वामिकं रिक्थं संवत्सरं परिपाल्य राजा हरेत् ॥१६॥

१३२बौधायन-धर्मसूत्रम्[ राजधर्माः

**अनु०—**जिस सम्पत्ति का स्वामी ब्राह्मणेतर वर्ण का हो और उस स्वामी का पता न हो, तो राजा एक वर्ष तक स्वामी के लौटने की प्रतीक्षा कर स्वयं उस सम्पत्ति को ग्रहण कर ले ॥ १६ ॥

असावस्य द्रव्यस्य प्रभुरित्यज्ञानमात्रे प्रणष्टशब्दः । ब्रह्मस्वमिति तु विज्ञाते ब्राह्मण एवाऽऽददीत । उक्तं चैतच्छौचाधिष्ठानाध्याये ‘न तु कदाचिद्राज्ञा ब्राह्मणस्य स्वमाददीत’ इति । आह च मनुः—

प्रणष्टस्वामिकं रिक्थं राजा ^१त्वब्दं निधापयेत् ।
^२अर्वाग्ब्दाद्धरेत् स्वामी परेण नृपतिर्हरेत् ॥ इति ॥

गौतमोऽपि ‘प्रणष्टस्वामिकमधिगम्य राज्ञे प्रब्रूयुः । विख्याप्य संवत्सरं राज्ञा रक्ष्यम् । ऊर्ध्वमधिगन्तुश्चतुर्थं राज्ञश्शेष’ इति ॥ १६ ॥

अवध्यो व ब्राह्मणस्सर्वापराधेषु ॥ १७ ॥

**अनु०—**ब्राह्मण को किसी भी अपराध के लिए वध का दण्ड नही होता ॥१७॥

वैशब्दः श्रुतिसंसूचनार्थः । तथा च गौतमः—‘षड्भिः परिहार्यो राज्ञाऽव-ध्यश्चाऽदण्ड्यश्चाऽबहिष्कार्यश्चाऽपरिवाद्यश्चाऽपरिहार्यश्चेति’ ^३इति । सर्वापराधेषु ब्रह्महत्यादिष्वपि ॥ १७ ॥

तत्र तर्हि किं कर्तव्यमित्याह—

ब्राह्मणस्य ब्रह्महत्यागुरुतल्पगमनस्वर्णस्तेयसुरापानेषु कुसिन्धभग-सृगालसुराध्वजांस्तप्तेनाऽयसा ललाटेऽङ्कयित्वा विषयान्निर्धमनम् ॥ १८ ॥

**अनु०—**ब्राह्मण के ब्राह्मण की हत्या करने पर, गुरुपत्नीगमन करने पर (ब्राह्मण का ) सुवर्ण चुरानेपर, सुरापान करने पर राजा उसके ललाट पर मनुष्य के धड़, स्त्रीयोनि, सृगाल और सुरापात्र की आकृति ( क्रमशः ) जलते हुए लोहे से अङ्कित करावे ओर राज्य से बाहर निकाल दे ॥ १८ ॥

कृत्वा प्रवासयेदिति शेषः । कुसिन्धः कबन्धः । भगः स्त्रीव्यञ्जनम् । सृगालो गोमायुः । स च शुनोऽपि प्रदर्शनार्थः । सुराध्वजः सुराभाण्डम् । आह च मनुः—

स्तेनस्य श्वापदः कार्यः सुरापाने सुराध्वजः ।
गुरुतल्पे भगः कार्यो ब्रह्महण्यशिराः पुमान् ॥ इति ॥


१. त्र्यब्दं निधापयेदिति क. पु. ।
२. अर्वाक्त्व्यब्दाद्धरेदिति ग. पु. ।
३. अपरिभाष्यश्चेति. ग. पु. ।

एकोनविंशः खण्डः ] प्रथमप्रश्ने दशमोऽध्यायः १३३

कबन्धाद्याकृतिकेन कृष्णायसेन ललाटेऽङ्कयति । उत्तरीयवाससां चौर्ये विषयान्तरं निर्वासयेत् । यस्स्वयमेव प्रायश्चित्तं न करोति तस्याऽयं दण्डः॥१८॥

क्षत्रियादीनां ब्राह्मणवधे वधस्सर्वस्वहरणं च ॥ १९ ॥

अनु०—क्षत्रिय आदि अन्य वर्ण के व्यक्ति द्वारा ब्राह्मण का वध करने पर उसका वध करे और उसकी सम्पत्ति का हरण करे ॥ १९ ॥

सर्वत्र निकृष्टजातीयेनोत्कृष्टजातीयवधे वधस्सर्वस्वहरणं च दण्डो द्रष्टव्यः ॥ १९ ॥

तेषामेव तुल्यापकृष्टवधे यथाबलमनुरूपान् दण्डान् प्रकल्पयेत् ॥ २० ॥

इति बौधायनीयधर्मसूत्रे प्रथमप्रश्नेऽष्टादशः खण्डः ॥ १८ ॥

अनु०—क्षत्रिय आदि यदि ( जाति, कुल, धन, वृत्ति आदि के आधार पर ) समान व्यक्ति का वध करें तो उनकी शक्ति को देखकर यथोचित दण्ड दे ॥ २० ॥

तुल्यापकृष्टता चाऽत्र जातितोऽभिजनधनवर्तनादिभिः । यथाबलं यथास्वशक्ति । तथा स्मृत्यन्तरम्—

देशकालवयश्शक्तिबल सञ्चिन्त्य कर्मणि ।
तथाऽपराधं चाऽवेक्ष्य दण्डं दण्ड्येषु पातयेत् ॥ इति ॥ २० ॥


एकोनविंशः खण्डः

क्षत्रियवधे गोसहस्रमृषभैकाधिकं राज्ञ उत्सृजेद्वैर्निर्यातानाम् ॥ १ ॥

अनु०—क्षत्रिय का वध करने पर अपराधी व्यक्ति राजा को एक हजार गाय और एक साँड पाप को दूर करने के लिए प्रायश्चित्त स्वरूप प्रदान करे ॥ १ ॥

दण्डः प्रायश्चित्तं चैतत् । यथा 'श्वभिः खाद्येद्राजा निहीनवर्णगमने स्त्रियं प्रकाशम्' इति । राजे पालयित्रे त्यजेत् । एवं च वैरनिर्यातनमपि कृतं भवति । वैरस्य पापस्य निर्यातनमपयात नं नाश इत्यनर्थान्तरम् । यद्वा— स्वजातीयनिमित्तकापप्रशमनम् । यथा

द्रव्याणि हिंस्याद्यो यस्य ज्ञानतोऽज्ञानतोऽपि वा ।
स तस्योत्पादयेत्तृप्तिम्······। इति ॥ १ ॥

शतं वैश्ये दश शूद्रे ऋषभश्चात्राधिकः ॥ २ ॥

१३४बौधायन-धर्मसूत्रम्[ राजधर्माः

अनु०—वैश्य की हत्या करने पर सौ और शूद्र की हत्या करने पर दस गायें तथा दोनों स्थितियों मे एक साँड भी राजा को दे ॥ २ ॥

सर्वत्र प्रायश्चित्तार्थ इति शेषः । एषोऽपि राज्ञे त्यागः ॥ २ ॥

शूद्रवधेन स्त्रीवधो गोवधश्च व्याख्यातः ॥ ३ ॥

अनु०—शूद्रवध के प्रायश्चित्त के द्वारा ही (ब्राह्मणी के अतिरिक्त अन्य वर्ण की) स्त्री का वध तथा गो-वध का प्रायश्चित्त भी समझना चाहिए ॥ ३ ॥

ऋषभैकादशगोत्यजनमत्राऽतिदिश्यते । इह चान्द्रायणस्याऽभ्युपचयो द्रष्टव्यः । आह च मनुः—

स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम् ।
उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत् ॥ इति ॥

इति प्रस्तुत्य

एतदेव व्रतं कुर्यु रुपपातकिनो द्विजाः ।
अवकीर्णिवर्ज्यं शुद्धयर्थं चान्द्रायणमथापि वा ॥ इति ॥ ३ ॥

^१अन्यत्राऽऽत्रेय्या वधात् ॥ ४ ॥

अनु०—किन्तु आत्रेयी (मासिक अशुद्धि के बाद स्नान करने वाली ब्राह्मणी) के अतिरिक्त अन्य स्त्री के विषय में उपर्युक्त नियम है ॥ ४ ॥

टि०—'अत्रिगोत्रोत्पन्ना स्त्री आत्रेयी' ऐसी व्युत्पत्ति भी है ।

तस्या वधे वक्ष्यति—'आत्रेय्या वधः क्षत्रियवधेन व्याख्यातः' (१९.७) इति । अनात्रेयीस्त्रीवधे ऋषभैकादशदानमित्यर्थः ॥ ४ ॥

धेन्वनडुहोश्च ॥ ५ ॥

अनु०—गाय या बैल की हत्या करने पर भी उपर्युक्त प्रायश्चित्त नियम है ॥ ५ ॥

वध इति शेषः । धेनुः पयस्विनी । अनड्वान् ^२अनोवहनक्षमः पुङ्गवः । अयमपि ऋषभैकादशगोदानातिदेशः ॥ ५ ॥

वधे धेन्वनडुहोरन्ते चान्द्रायणं चरेत् ॥ ६ ॥

अनु०—गाय या बैल (जो विशिष्ट यज्ञादि कार्य में उपयोगी और विशेष महत्त्व के हों) की हत्या करने पर उपर्युक्त प्रायश्चित्त रूप दण्ड देने के बाद (अपराधी व्यक्ति) चान्द्रायण व्रत करे ॥ ६ ॥


१. अत्रिगोत्रोत्पन्ना स्त्री आत्रेयी इत्यपि केचित् ।
२. आरोपितभारवहनक्षमः इति. क. पु. ।

एकोनविंशः खण्डः ] प्रथमप्रश्ने दशमोऽध्यायः १३५

ऋषभैकादशगोदानस्याऽन्ते तु नाऽत्र दानतपसोस्समुच्चयः । अत एवैतत् ज्ञापितं भवति-धेन्वनडुहावत्र विशिष्टपुरुषसम्बन्धिनावग्निहोत्रादिविशिष्टोपयोगार्थौ । दुर्भिक्षादिषु च बहुदोग्धृत्वेन बहुवोढृत्वेन प्रजासंरक्षणार्थौ वेति । अन्यथा शूद्रहत्यातः तस्य प्रायश्चित्तं गुरुतरं न स्यादिति ॥ ६ ॥

आत्रेय्या वधः क्षत्रियवधेन व्याख्यातः ॥ ७ ॥

अनु०— (रजस्वला ऋतुस्नाता ब्राह्मणी) आत्रेयी के वध का प्रायश्चित्त क्षत्रियवध के प्रायश्चित्त द्वारा बता दिया गया है ॥ ७ ॥

'रजस्वलामृतुस्नातामात्रेयीमाहुरत्र ह्येष्यदपत्यं भवति' इति । गोवध इत्यन्ते । क्षत्रियवधदण्डप्रायश्चित्तयोरुभयोरयमतिदेशः ॥ ७ ॥

हंसभासबर्हिणचक्रवाकप्रचलाककाकोलूककण्टकडिड्डिकमण्डूकडेरिकाश्ववभ्रुनकुलादीनां वधे शूद्रवत् ॥ ८ ॥

अनु०— हंस, भास, मोर, चक्रवाक, प्रचलाक, कौवा, उल्लू, कण्टक, छुछुन्दर, मेढक, डेरिका, कुत्ता, वभ्रु, नेवला आदि का वध करने पर शूद्र की हत्या के लिए विहित प्रायश्चित्त होता है (अर्थात् राजा को दस गायें और एक साँड प्रदान करे)॥ ८॥

शूद्रं हत्वा यत्प्रायश्चित्तं तत्प्रायश्चित्तमेतेषां वधे भवति । सर्वत्र चातिदेशे मानाधीनता । इह मण्डूकग्रहणं मार्जारादीनामपि प्रदर्शनार्थम् । आह च मनुः—

मार्जारनकुलौ हत्वा चाषं मण्डूकमेव च ।
श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत् ॥ इति ॥

प्रचलाको डिम्भः । डिड्डिकः चुचुन्दरी । आदिग्रहणात् कृकवाक्वादेरपिग्रहणम् । 'कृकवाक्वौ शूद्रहत्यावत् प्रायश्चित्तम्' इति स्मृत्यन्तरात् । एवं तावत् 'शास्ता राजा दुरात्मनाम्' इति मत्वा प्रायश्चित्तान्यपि राज्ञा कारयितव्यानीत्यर्थः । तानि दिङ्मात्रेण दर्शितानि ॥ ८ ॥

साम्प्रतं पापप्रसङ्गात् कूटसाक्षिनिवृत्त्यर्थं साक्षिप्रकरणमारभ्यते । तत्र प्रथमं मृषावदनं परिहारयति—

लोकसङ्ग्रहणार्थं यथादृष्टं यथाश्रुतं साक्षी ब्रूयात् ॥ ९ ॥

अनु०— लोक में प्रशंसा तथा मान पाने के लिए साक्षी को वैसा ही बताये जैसा उसने देखा हो या सुना हो ॥ ९ ॥

द्वयोः परस्परविप्रतिपत्तौ ज्ञातमर्थं साक्षिभिर्भावयेत् । महाजनपरिग्रहार्थं

११६ बौधायनधर्मसूत्रम् [ राजधर्माः

तत्र साक्षी यथादृष्टं निरपेक्षप्रमाणेनावगतं यथाश्रुतमाप्तवाक्यादवगतं तथैव ब्रूयात् ॥ ९ ॥

परीक्षकाणां सम्यक्परीक्षाभावे—

पादोऽधर्मस्य कर्तारं पादो गच्छति साक्षिणम् ।
पादस्सभासदस्सर्वान् पादो राजानमृच्छति ॥
राजा भवत्यनेनाश्च मुच्यन्ते च सभासदः ।
एनो गच्छति कर्तारं यत्र निन्द्यो ह निन्द्यते ॥ १० ॥

अनु०—(निर्णय में) अधर्म का एक चौथाई अधर्म करने वाले अपराधी पर पड़ता है, एक चौथाई साक्षियों पर पड़ता है, एक चौथाई सभी निर्णायकों पर पड़ता है तथा एक चौथाई राजा पर पड़ता है। किन्तु जहाँ निन्दनीय व्यक्ति की ही निन्दा की जाती है वहाँ राजा पापरहित हो जाता है, सभासद् दोष से मुक्त हो जाते हैं और पाप अपराधी के ऊपर ही पहुँचता है ॥ १० ॥

राज्ञा सम्यक्परीक्षा कर्त्तव्येति श्लोकद्वयस्य तात्पर्यार्थः । इतरथा अधर्मस्य कृत्स्नस्य पाद् एव तत्कर्त्तारं गच्छेत् । इतरे त्रयः पादाः साक्षिसभासद्राजगा इत्युक्तम् । सम्यक्परीक्ष्य दुष्टनिग्रहः परीक्षकाणां पापप्रमोचनार्थ इति द्वितीय-श्लोकार्थः ॥ १० ॥

तत्र परीक्षावेलायां पृथक् श्लोकसञ्चयः—

साक्षिणं त्वेवमुद्दिष्टं यत्नात्पृच्छेद्विचक्षणः ॥ ११ ॥

**अनु०—**इस लिए विद्वान् न्यायकर्ता साक्षियों को उद्दिष्ट करके इस प्रकार पूछे :॥ ११ ॥

अर्थिना निर्दिष्टान् साक्षिण एवं पृच्छेदिति पदान्वयः ॥ ११ ॥

कथं पृच्छेत् ?

यां रात्रिमजनिष्ठास्त्वं यां च रात्रिं मरिष्यसि ।
एतयोरन्तरा यत्ते सुकृतं सुकृतं भवेत् ॥
तत्सर्वं राजगामि स्यादनृतं ब्रुवतस्तव ॥ १२ ॥

**अनु०—**जिस रात्रि तुम उत्पन्न हुए थे और जिस रात्रि तुम मरोगे, उन दोनों के बीच (अपने सम्पूर्ण जीवन में) तुम्हारा जो कुछ धर्माचरण का पुण्य होगा वह सभी तुम्हारे असत्य भाषण करने पर राजा को प्राप्त होवे ॥ १२ ॥

एकोनविंशः खण्डः ] प्रथमप्रश्ने दशमोऽध्यायः १३७

सुकृतं धर्मः। स च सुष्ठु कृतो यथाविध्यनुष्ठितः। यमनृतेन पराजयसि तद्गामी त्वदीयो धर्म इति याज्ञवल्क्योऽभिप्रैति—

सुकृतं यत्त्वया किञ्चिज्जन्मान्तरशतैः कृतम् ।
तत्सर्वं तस्य जानीहि पराजयसि यं मृषा ॥

इत्यवदत् ॥ १२ ॥

किञ्च—

त्रीनेव च पितॄन् हन्ति त्रीनेव च पितामहान् ॥ १३ ॥

अनृतवदनमात्रे एष दोषः ॥ १३ ॥

साक्ष्यनृते तु —

सप्त जातानजातांश्च साक्षी साक्ष्यं मृषा वदन् ॥ १४ ॥

**अनु०—**अपने तीनों पिता को, अपने तीन पितामहों को, अपने से पहले उत्पन्न तथा अपने बाद उत्पन्न होने वाले सात-पीढ़ी के पुरुषों को झूठी गवाही देने वाला साक्षी मार डालता है ॥ १३-१४ ॥

स आत्मनः पूर्वापरान् सप्तसप्त हन्तीत्यर्थः। अधर्मप्रवणचित्तानां मत्याऽऽत्मीयवंश्यहननोपाये वैराग्यं भवतोत्येवं सान्त्वनम् ॥ १४ ॥

अथेदानीं विप्रतिपत्तिविषयभूतदृष्टविशेषापेक्षयाऽनृतवदने दोषमाह—

हिरण्यार्थेऽनृते हन्ति त्रीनेव च पितामहान् ।
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ॥
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ।
सर्वं भूम्यनृते हन्ति साक्षो साक्ष्यं मृषा वदन् ॥ १५ ॥

**अनु०—**स्वर्ण के लिए झूठ बोलने पर साक्षी तीन पूर्वजों को नष्ट करता है, पशु के विषय में असत्य बोलकर पाँच और गाय के विषय में असत्य बोलकर दश का, घोड़े के संबंध में असत्य बोलने पर सौ का वध करता है। पुरुष के विषय में असत्य भाषण कर हजार का वध करता है, झूठी गवाही देने वाला साक्षी भूमि के विषय में असत्य बोलकर सम्पूर्ण का वध कर देता है ॥ १५ ॥

**टि०—**वध करने का भाव हरदत्त ने गौतम धर्मसूत्र २-४-१४ की व्याख्या में इस प्रकार किया है "तेषां (दशानां) वधे. यावान्दोषः तावानस्य भवतीति" । (दस) के वध के बराबर दोष होता है, अर्थात् जिसके विषय में असत्य भाषण किया गया हो उसका दस संख्या में वध करने का दोष होता है। इस प्रकार उपर्युक्त सूत्र का

१३८बौधायन-धर्मसूत्रम्प्रथम

भाव होगा, पशु के विषय में असत्य भाषण से पांच पशु के वध का दोष, गाय के विषय में असत्यभाषण से दस गाय के वध का दोष, अश्व के विषय में असत्यभाषण का सौ अश्व के वध का दोष, पुरुष के विषय में असत्यभाषण का हज़ार पुरुष के वध का दोष तथा भूमि के विषय में असत्य भाषण से सम्पूर्ण प्राणियों के वध का दोष होता है। द्रष्टव्य गौतम० वही, सूत्र ११४-१५ "क्षुद्रपश्वनृते साक्षी दश हन्ति। गोऽश्वपुरुषभूमिषु दशगुणोत्तरान् सर्वं वा भूमौ" तथा इन सूत्रों पर हरदत्त की मिताक्षरा; मेरे अनुवाद सहित चौखम्बा संस्करण, पृ० १३५।

अत्र हिरण्यशब्दो रजतादिवचनः।
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ॥
इति सुवर्णविषये मानवदर्शनात् ॥ १५ ॥

अथ साक्षिलक्षणमाह—
चत्वारो वर्णाः पुत्रिणः साक्षिणस्स्युरन्यत्र श्रोत्रियराजन्यप्रव्रजितमानुष्यहीनेभ्यः ॥ १६ ॥

**अनु०—**श्रोत्रिय, राजा, संन्यासी, बन्धु-बान्धवहीन को छोड़कर सभी चारो वर्णों के लोग, जो पुत्र वाले हों, साक्षी हो सकते हैं ॥ १६ ॥

टि०—'मानुष्यहीन' का अनुवाद ब्यूह्लर ने 'मानव बुद्धि से हीन' किया है।

मानुष्यहीनो बन्धुहीनः। एते श्रोत्रियराजन्यप्रव्रजिताः वचनादसाक्षिणः। बन्धुहीनस्तु दृष्टदोषात्। तथा च नारदः—
वचनाद्दोषतो भेदाः स्वयमुक्तिर्मृषान्तरः।
श्रोत्रियाद्या अवचनात्ते न स्युर्दोषदर्शनात् ॥ इत्यादि ॥ १६ ॥

साक्षिद्वैधे सति राज्ञा तत्पुरुषैश्च किं कर्तव्यमित्याह—
स्मृतौ प्रधानतः प्रतिपत्तिः ॥ १७ ॥

अनु०— (विवाद-विषय के ) स्मृतियुक्त दो साक्षी होने पर प्रधान साक्षी के वचन से निश्चय होता है ॥ १७ ॥

टि०— 'स्मृतौ' की स्पष्टतः व्याख्या गोविन्द स्वामी ने नहीं की है। उनके विचार से तथ्य का स्मरण करने वाले दो साक्षियों से यहाँ तात्पर्य है। जब दो साक्षी हों तो राजा को उस साक्षी के वचन के अनुसार निश्चय करना चाहिए जो तपस्या, विद्या आदि में प्रधान हो। इस सन्दर्भ में गोविन्द स्वामी ने मनु के वचन को भी उद्धृत किया है। ब्यूह्लर ने इस सूत्र का जो अनुवाद किया है उसका भावार्थ इस

एकोनविंशः खण्डः ] प्रथमप्रश्ने दशमोऽध्यायः १३९

प्रकार है: 'यदि ( साक्षी यथार्थतः ) वाद के तथ्यों को स्मरण करता है तो वह श्रेष्ठ लोगों से प्रशंसा प्राप्त करेगा ।'

प्राधान्यं तपोनिर्दिष्टविद्यादिभिः, तद्वचनात् प्रतिपत्तिः निश्चयः । कार्य इत्यध्याहारः । किमुक्तं भवति—

द्वैधे बहूनां वचनं समेषु गुणिनां तथा ।
गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तराः ॥

इत्येतदुक्तं भवति ॥ १७ ॥

अतोऽन्यथा कर्तपत्यम् ॥ १८ ॥

**अनु०—**इससे भिन्न प्रकार से निर्णय करने पर वह नरक में गिरता है ॥ १८ ॥

उक्तोपायादुपायान्तरेण निर्णये सति कर्तपत्यं नाम दोषो भवति । कर्तं नरकं तस्मिन् निपातः कर्तपत्यम् ॥ १८ ॥

तत्र च प्रायश्चित्तमाह—

द्वादशरात्रं तप्तं पयः पिबन् कूष्माण्डैर्वा जुहुयात् कूष्माण्डैर्वा जुहुयादिति ॥ १९ ॥

इति बौधायनीये धर्मसूत्रे प्रथमप्रश्ने एकोनविंशः खण्डः ॥ १९ ॥

अनु०—( इसका प्रायश्चित्त इस प्रकार है ): बारह दिन रात तक उष्ण दुग्ध पिए या कूष्माण्ड मन्त्रों से होम करे ॥ १९ ॥

**टि०—**गोविन्द स्वामी की टीका के अनुसार यह होम राजा या राजपुरुष को करना चाहिए और आहवनीय अग्नि में ही करने चाहिए । 'यद‍्देवा देवहेलनम्' से लेकर 'पुनर्मनः पुनरायुर्म आगात्' तक ( तैत्तिरीय आरण्यक १०.३-५ ) कूष्माण्ड मन्त्र हैं । प्रत्येक मन्त्र के साथ होम करे, कुछ आचार्यों के अनुसार प्रतिदिन होम की आवृत्ति करे । म्यूह्लर ने यह प्रायश्चित्त मिथ्या साक्ष्य देने वाले के लिए बताया है ।

घृतमिति शेषः । अस्मार्त्तत्वादाहवनीय एवाऽयं होमो राज्ञो राजपुरुषाणां च (?) । कूष्माण्डानि 'यद‍्देवा देवहेलनम्' इत्यारभ्य "पुनर्मनः पुनरायुर्म आगा" दित्यन्तान्यारण्यके प्रसिद्धानि । प्रतिमन्त्रं च होमभेदः । प्रत्यहं होमावृत्तिरिति केचित् । अपरे द्वादशरात्रस्याऽन्ते सकृदेवैत्याहुः ॥ १९ ॥

इति बौधायनधर्मसूत्रविवरणे गोविन्दस्वामिकृते प्रथमप्रश्ने दशमोऽध्यायः ॥

१४० | बौधायन-धर्मसूत्रम् | [ विवाहाः

एकादशोऽध्यायः

विंशः खण्डः

'साक्षिणः पुत्रिणः' ( १९. १६. ) इत्युक्तम् । केनोपायेन पुत्रिणो भवन्ती- त्येतत्प्रसङ्गेन विवाहानामवतारः— 'अष्टौ विवाहाः ॥ १ ॥

अनु०—आठ प्रकार के विवाह कहे गये हैं ॥ १ ॥

उच्यन्त इति शेषः । नियमार्थमष्टग्रहणम् । ततश्च वक्ष्यमाणब्राह्मादिनियम- धर्मलङ्घननिमित्तवर्णसङ्करो भवतीत्येतदर्थात्सूचितं भवतीति ॥ १ ॥

तत्राऽऽह— श्रुतिशीले विज्ञाय ब्रह्मचारिणेऽर्थिने कन्या दीयते स ब्राह्मः ॥२॥

अनु०—जब वेद के विद्वान् व्यक्ति को, जिसके श्रुतिशील होने का ज्ञान प्राप्त कर लिया गया हो, जो ब्रह्मचर्य व्रत का पालन कर रहा हो और जिसने विवाहार्थ कन्या की याचना की हो, कन्या प्रदान की जाती है तब वह ब्राह्म नाम का विवाह होता है ॥ २ ॥

अयमाद्यो धर्मविवाहः । श्रुतं वेदार्थज्ञानं, शीलं सर्वसहिष्णुता । ब्रह्मचारी उपकुर्वाणोऽस्कन्नरेताश्च । कन्या अक्षतयोनिः । आह च मनुः—

आच्छाद्य चाऽऽर्चयित्वा च श्रुतशीलवते स्वयम् । आहूय दानं कन्यायाः ब्राह्मो धर्मः प्रकीर्तितः ॥ इति ॥ २ ॥

आच्छाद्याऽलङ्कृत्यै "षा सहधर्मं चर्यता" मिति प्राजापत्यः ॥३॥

अनु०—जब पिता कन्या को वस्त्रों से आच्छादित कर तथा आभूषणों से अल- ङ्कृत कर 'यह तुम्हारी भार्या है, इसके साथ धर्मों का आचरण करो' ऐसा कहकर प्रदान करता है तो प्राजापत्य नाम का विवाह होता है ॥ ३ ॥

आच्छादनालङ्करणे कन्याया एव । वरस्याऽप्येके । "एषा" इत्यादिमन्त्रः । एषा ते भार्या । त्वदीयो द्रव्यसाध्यो धर्मोऽनया सह चर्यतामिति मन्त्रार्थः । एष प्राजापत्यो नाम द्वितीयः ॥ ३ ॥

तृतीयस्तु— पूर्वां लाजाहुतिं हुत्वा गोमिथुनं कन्यावते दत्त्वा ग्रहणमार्षः ॥४॥


१. ब्राह्मो प्राजापत्यं आसुरे पैशाचं चाऽन्तर्भाव्य षडेव विवाहान् कथयत्यापस्त- म्बाचार्यः । See आप. ध. २.१२–१७ ।

विंशः खण्डः ] प्रथमप्रश्ने एकादशोऽध्यायः १४१

**अनु०—**यदि वर प्रथम लाजाहवन करके कन्यावाले को गोमिथुन ( एक गाय और एक साँड ) प्रदान कर कन्या को ग्रहण करता है तो वह आर्ष विवाह होता है ॥ ४ ॥

वैवाहिकोनां लाजाहुतीनां प्रथमाहुत्यनन्तरं कन्यास्वामिने गोमिथुनं वरं प्रदाय तस्या एव पुनर्ग्रहणमार्षो नाम विवाहः ॥ ४ ॥

चतुर्थः पुनः—

दक्षिणासु नीयमानास्वन्तर्वेदि ऋत्विजे स दैवः ॥ ५ ॥

**अनु०—**यदि यज्ञ में दक्षिणाओं के दिये जाते समय वेदि के समीप ही ऋत्विज् को कन्या प्रदान की जाय तो वह दैव विवाह है ॥ ५ ॥

**टि०—**जैसा कि गोविन्द स्वामी ने स्पष्ट किया है कन्या दक्षिणा के एक भाग के रूप में ऋत्विज् को मिलती है, ऋत्विष् 'प्रजापतिस्त्रियां यशः' इत्यादि छः मन्त्रों से कन्या को ग्रहण करता है और शुभ नक्षत्र में विवाह के होम करता है ।

ऋत्विग्वरणवेलायामेव कश्चिद्वरसम्पद्विर्युक्तमृतृत्विकत्वेन वृत्वा दक्षिणाकाले तदीयभागेन सह कन्यां तस्मै दद्यात् । स च तां प्रतिगृह्य समाप्ते यज्ञे 'प्रजापतिस्त्रियां यशः' इति षड्भिर्मन्त्रैः पुनः प्रतिगृह्य शुभे नक्षत्रे विवाहहोमं कुर्यात् । स दैवो नाम ॥ ५ ॥

सकामेन सकामायां मिथस्संयोगो गान्धर्वः ॥ ६ ॥

**अनु०—**प्रेम करनेवाला पुरुष का यदि प्रेम करनेवाली कन्या से संयोग हो तो वह गान्धर्व विवाह कहलाता है ॥ ६ ॥

संयोगस्समवायः । विवाहहोमस्तु यथाविध्येव । एवंलक्षणको गान्धर्वो नाम पञ्चमः ॥ ६ ॥

षष्ठस्तु—

धनेनोपतोप्याऽऽसुरः ॥ ७ ॥

**अनु०—**कन्यावाले को धन से सन्तुष्ट करके विवाह करना आसुर विवाह कहलाता है ॥ ७ ॥

कन्यावन्तमुपतोष्य । यथाविध्येव होमः ॥ ७ ॥

सप्तम उत्तरः—

प्रसह्य हरणाद्राक्षसः ॥ ८ ॥

**अनु०—**बलपूर्वक कन्या का अपहरण कर विवाह करना राक्षस विवाह है ॥ ८ ॥

१४२ | बौधायन-धर्मसूत्रम् | [ विवाहाः

अत्राऽपि तथैव विवाहः । यथा रुक्मिणीहरणं तथैष राक्षसः ॥ ८ ॥

तथाऽष्टमः—

सुप्तां मत्तां प्रमत्तां वोपयच्छेदिति पैशाचः ॥ ९ ॥

अनु०— सोती हुई, नशीली वस्तु से माती हुई, या ( भयादि से ) प्रमत्त बनी हुई कन्या से बलात् संभोग पैशाच विवाह कहलाता है ॥ ९ ॥

मदनीयेन द्रव्येण मत्ताम् । प्रमत्ता भयादिना प्रणष्टचेताः । उपयमनं चाऽर्थान्मैथुनमेव । आह च मनुः—

सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति ।
स पापिष्ठो विवाहानां पैशाचः प्रथितोऽष्टमः ॥ ९ ॥

तेषां चत्वारः पूर्वे ब्राह्मणस्य तेष्वपि पूर्वः पूर्वश्श्रेयान् ॥ १० ॥

अनु०— इन विवाहों में प्रथम चार विवाह ( ब्राह्म, प्राजापत्य, आर्ष, दैव ) ब्राह्मण के लिए उचित हैं ओर इनमें उत्तरोत्तर पूर्ववर्ती बाद वाले से श्रेयस्कर होता है ॥ १० ॥

ब्राह्मप्राजापत्यार्षदैवाश्चत्वारः प्रशस्ताः । तत्राऽपि पूर्वपूर्वविवाह उत्तरोत्तत्तरस्मात् श्रेयान् वेदितव्यः ॥ १० ॥

उत्तरेषामुत्तरोत्तरः पापीयान् ॥११॥

अनु०— बाद के चार विवाहों ( गान्धर्व, आसुर, राक्षस, पैशाच ) दूसरे वर्णों के लिए अनुकूल हैं ओर प्रत्येक अपने पहले वाले से अधिक पापयुक्त होता है ॥११॥

उत्तरेषां वर्णानामुत्तरे गान्धर्वासुरराक्षसपैशाचाश्चत्वारो विवाहाः । अत्राऽपि पूर्वपूर्वश्श्रेयानिति वक्तव्ये उत्तरोत्तरः पापीयानिति वचनं पुनरन्त्यस्याऽत्यन्तपापिष्ठत्वख्यापनार्थम् । उदाहृतं चाऽत्र मानवम्—'स पापिष्ठो विवाहानाम्' इति ॥ ११ ॥

अत्राऽपि षष्ठसप्तमौ क्षात्रधर्मानुगतौ तत्प्रत्ययत्वात् क्षत्रस्येति ॥१२॥

अनु०— इन विवाहों में भी षष्ठ ओर सप्तम ( आसुर तथा राक्षस ) क्षत्रिय धर्म के अनुकूल होते हैं क्योंकि क्षत्रिय में बल प्रधान होता है ॥ १२ ॥

तत्प्रत्ययत्वं बलप्रधानत्वम् । बलं हि राज्ञां प्रधानम् । चोक्तम्—'क्षत्रियस्य बलान्वितम्' इति । आसुरेऽपि धनं बलहेतुतयाऽभिप्रेतम् ॥ १२ ॥

पञ्चमो गान्धर्वः स वैश्यानां भवति । अष्टमः पैशाचः स शूद्राणाम् ॥१३॥

विंशः खण्डः ] प्रथमप्रश्ने एकादशोऽध्यायः १४३

पञ्चमाष्टमौ वैश्यशूद्राणाम् ॥ १३ ॥

अनु०—पाँचवें और आठवें ( गान्धर्व तथा पैशाच ) क्रमशः वैश्यों और शूद्रों के लिए उचित हैं ॥ १३ ॥

पञ्चमो गान्धर्वः स वैश्यानां भवति । अष्टमः पैशाचः स शूद्राणाम् ॥१३॥
ईदृश्याः व्यवस्थायाः को हेतुरिति बुभुत्सूनामाह—

अयन्त्रितकलत्रा हि वैश्यशूद्रा भवन्ति ॥ १४ ॥

टि०—क्योंकि वैश्य और शूद्र पत्नियों के विषय में बहुत नियम का ध्यान नहीं रखते ॥ १४ ॥

अयन्त्रितं अनियतं कलत्रं भार्या येषां ते भवन्ति अयन्त्रितकलत्राः । दारेष्वत्यन्तनियमस्तेषां न भवतीत्यर्थः ॥ १४ ॥
तद्वा कथमिति चेत्—

कर्षणशुश्रूषाधिकृतत्वात् ॥ १५ ॥

अनु०—क्योंकि वे कृषि कर्म और दूसरों की सेवा का कार्य करते हैं ॥ १५ ॥
टि०—यहाँ कृषि कर्म से वाणिज्य का भी अर्थ लिया जायगा । निकृष्ट कर्म करने से वैश्य और शूद्र के विवाह भी उसी तरह के अनियमित होते हैं ।

कर्षणं वाणिज्यादीनामुपलक्षणार्थम् । निकृष्ट कर्माधिकृतत्वात्तयोर्विवाहा अपि तादृशा एवेत्यभिप्रायः ॥ १५ ॥

गान्धर्वमप्येके प्रशंसन्ति सर्वेषां स्नेहानुगतत्वात् ॥ १६ ॥

इति बौधायनधर्मसूत्रे प्रथमप्रश्ने विंशः खण्डः ॥ २० ॥

अनु०—कुछ आचार्य सभी वर्णों के लिए गान्धर्व विवाह की अनुमति देते हैं, क्योंकि वह प्रेम के ऊपर आश्रित होता है ॥ १६ ॥

एतद्धि गन्धर्वस्य लक्षणम्—'सकामेन सकामायाम्' इति । तत्र स्नेह मनश्चक्षुषोर्निबन्धः । तदन्वयगतं विहितविवाहकर्म । तथा चाऽऽपस्तम्ब- 'यस्यां मनश्चक्षुषोर्निबन्धस्तस्यामृद्धिर्नेतरदाद्रियेत' इति ॥ १६ ॥


एकविंशः खण्डः

'यथायुक्तो विवाहस्तथायुक्ता प्रजा भवति विज्ञायते ॥ १ ॥


१. See आप. ध. २. २१. ४. ।

१४४ | बौधायन-धर्मसूत्रम् | [ विवाहाः

अनु०—वेद में यह बताया गया है कि जिस प्रकार के गुणवाला विवाह होता है उसी प्रकार के गुणवाले पुत्र भी होते हैं ॥ १ ॥

प्रशस्ते विवाहे यत्न आस्थेय इत्यभिप्रायः । तथा च सति तत्रोत्पन्नाः पुत्रा अपि साधवो भविष्यन्ति ॥ १ ॥

'अथाऽप्युदाहरन्ति—

साधवस्त्रिपुरुषमार्षाद् दश दैवाद् दश प्राजापत्याद् दश पूर्वान् दशाऽपरानात्मानं च ब्राह्मीपुत्र इति विज्ञायते ॥ २ ॥

अनु०—इस सन्दर्भ में धर्मशास्त्रज्ञ निम्नलिखित पद्य भी उद्धृत करते हैं— आर्ष विवाह से उत्पन्न साधु आचरण वाले पुत्र तीन पुरुषों को, दैव विवाह से उत्पन्न दस, प्राजापत्य से उत्पन्न दस को तथा ब्राह्म विवाह से उत्पन्न पुत्र दस पूर्ववर्ती, दस परवर्ती पुरुषों को तथा स्वयं को पवित्र करता है ॥२॥

टि०—गोविन्द स्वामी ने इसकी व्याख्या नहीं दी है। ब्यूह्लर ने दो सूत्रों का अनुवाद टिप्पणी में दिया है, क्योंकि उनकी प्रति में इनका अभाव है। उनके अनुवाद का भाव इस प्रकार है : "दैव विवाह से दस सदाचारी पुत्र और पुत्रियां ( उत्पन्न होती हैं ), प्राजापत्य विवाह से दस । वेद में यह कहा गया है कि ब्राह्म विवाह से विवाहित पुत्री का पुत्र दस पूर्वजों, दस वंशजों को और स्वयं को पवित्र करता है ।' प्रथम अंश चिन्त्य है। द्रष्टव्य—गौतमधर्मसूत्र १.४.२४-२७. "पुनन्ति साधवः पुत्राः । त्रिपुरुषमार्षात् । दश दैवाद्दशैव प्राजापत्यात् । दश पूर्वान्दश पराना-त्मानं च ब्राह्मीपुत्राः ।" मेरे अनुवाद सहित संस्करण, पृ० ४५ । इस सूत्र का ब्यूह्लर कृत अनुवाद में 'उत्पन्न होने' का अर्थ संगत नहीं है।

तेनाऽस्मिन्नर्थे ब्राह्मणमपि भवतीत्येतदाह ॥ २ ॥

तदाह— वेदस्वीकरणशक्तिरप्येवंविधानामेव पुत्राणां भवतीति ॥ ३ ॥

अनु०—वेद को ग्रहण करने की शक्ति भी इसी प्रकार के पुत्रों (आर्ष, दैव, प्राजापत्य तथा ब्राह्म विवाह से उत्पन्न पुत्रों) में ही होती है ॥ ३ ॥

ऋग्ध्येतत् ॥ ३ ॥

आसुरादिविवाहो ब्राह्मणानां निन्द्य इत्याह—

क्रीता द्रव्येण या नारी सा न पत्नी विधीयते । सा न दैवे न सा पित्र्ये दासीं तां कश्यपोऽब्रवीत् ॥ ४ ॥


१. इदमग्रिमं च सूत्रं मूलपुस्तकेषु न स्तः ।

एकविंशः खण्डः ] प्रथमप्रश्ने एकादशोऽध्यायः १४५

अनु०—जो नारी धन देकर खरीदी गयी होती है वह पत्नी नहीं होती । वह न तो दैवकार्यों में सहधर्मिणी हो सकती है और न पित्र्यकर्मों में । कश्यप ने ऐसी नारी को दासी बताया है ॥ ४ ॥

क्रीताया वेदोक्तकर्मण्यधिकारो नास्तीत्यर्थः ॥ ४ ॥
कन्याविक्रयोऽपि न कर्तव्य इत्याह—

शुल्केन ये प्रयच्छन्ति स्वसुतां लोभमोहिताः ।
आत्मविक्रयिणः पापाः महाकिल्बिषकारकाः ॥
पतन्ति नरके घोरे घ्नन्ति चाऽऽसप्तमं कुलम् ।
गमनागमनं चैव सर्वं शुल्को विधीयते ॥ ५ ॥

अनु०—जो अधम व्यक्ति लोभाभिभूत होकर धन लेकर पुत्री को ( विवाह के लिए ) देते हैं, वे स्वयं अपना ही विक्रय करते हैं, अत्यन्त पापी होते हैं, वे घोर नरक में गिरते हैं और अपने वंश की सातवीं पीढ़ी तक को नष्ट कर देते हैं। वे बार-बार जन्म लेते हैं और मरते हैं, ये सभी दोष कन्या के बदले धन लेने पर उत्पन्न बताये गये हैं ॥ ५ ॥

कन्याविक्रयी कुत्सितजन्मभाग्भवति, अधःपाती च । तस्मात्कन्याविक्रयो न कर्तव्य इत्यर्थः ॥ ५ ॥

ब्राह्मादिविवाहोत्पन्नानां पुत्राणां वेदस्वीकरणे शक्तिरित्युक्तम् । तत्राऽविघ्नेन वेदस्वीकरणायाऽनध्ययनप्रकरणमारभ्यते—

पौर्णमास्यष्टकामावास्याग्न्युत्पातभूमिकम्पश्मशानदेशपतिश्रोत्रियैकतीर्थप्रायणेष्वहोरात्रमनध्यायः ॥ ६ ॥

अनु०—पौर्णमासी को, उसके बाद की अष्टमी को, अमावस्या को, गांव में अग्निदाह होने पर, भूमिकम्प होने, श्मशान में जाने पर, देश के राजा, विद्वान् ब्राह्मण, या अपने ही गुरु से विद्या ग्रहण किये हुए सतीर्थ के मरने पर एक दिन और रात के लिए वेद का अनध्याय होता है ॥ ६ ॥

पौर्णमासी तिथिः यस्यां चन्द्रमाः पूर्ण उत्सर्पेत् । अष्टका पौर्णमास्या उपरिष्टादष्टमी । अमावास्या अमा सह सूर्येण यस्यां तिथौ चन्द्रमा भवति सा । अग्न्युत्पातः यस्मिन् ग्रामे गृहदाहस्तस्मिन् ग्रामे । भूमिकम्पो भुजञ्चलनम् । श्मशानं शवशयनम्, शरीरस्य दहनभूमिः निक्षेपभूमिर्वा । तत्र गमनदिवसेऽपि प्रायणं मरणम् । तच्च देशपत्यादिभिः प्रत्येकमभिसम्बध्यते । देशपती. राजा

१३ बौ० ध०

१४६ | बौधायन-धर्मसूत्रम् | [ अनध्यायः

तस्य राष्ट्रे वसन् तन्मरणदिवसेऽपि । एकः तीर्थः गुरुः ययोरिति विग्रहः । एतेष्वहोरात्रं नाऽधीयीतेति ॥ ६ ॥

वाते पूतिगन्धे नीहारे नृत्तगीतवादित्ररुदितसामशब्देषु तावन्तं कालम् ॥ ७ ॥

**अनु०—**वेगपूर्वक वायु के बहने, दुर्गन्ध आने, ओस गिरने, नृत्य होने, गीत और वाद्ययन्त्र की ध्वनि सुनाई पड़ने, रोने की ध्वनि आने पर या साम का गान सुनाई पड़ने पर उतने समय तक अनध्याय होता है, जब तक ये घटनायें होती रहती हैं ॥ ७ ॥

वातो वायुः दिवा चेत्पांशुगन्धहरः । नक्तं चेत् कर्णश्रावी । पूतिगन्धो दुर्गन्धः । नीहारो हिमप्रावरणम् । ( तच्च हिमानी ) तत्राऽऽहिमात् तावदनध्यायः । वादित्रं वीणावादनम् । यावदेतानि निवर्तन्ते तावदनध्यायः ॥ ७ ॥

^१स्तनयित्नुवर्षविद्युत्सन्निपाते त्र्यहमनध्यायोऽन्यत्र ^२वर्षाकालात् ॥ ८ ॥

**अनु०—**मेघगर्जन, बिजली की चमक तथा वर्षा के एक साथ होने पर, वर्षाकाल से अन्य समय में तीन दिन का अनध्याय होता है ॥ ८ ॥

स्तनयित्नुर्मेघगर्जितम् । विद्युत्तडित् । अप्रमुष्टमन्यत् ॥ ८ ॥

वर्षाकालेऽपि वर्षवर्जमहोरात्रयोश्च तत्कालम् ॥ ९ ॥

**अनु०—**वर्षाकाल में भी मेघगर्जन और बिजली की चमक साथ-साथ होने पर दूसरे दिन या दूसरी रात के उसी समय तक का अनध्याय होता है ॥ ९ ॥

**टि०—**गोविन्द स्वामी के अनुसार रात्रि या दिन की समाप्ति तक ही अनध्याय होता है ।

वर्षाकालेऽपि विद्युत्स्तनयित्नुसन्निपातेऽहनि चेदास्तमयादनध्यायः । रात्रौ चेद्दोषसः ॥ ९ ॥

^३पित्र्यप्रतिग्रहभोजनयोश्च तद्दिवसशेषम् ॥ १० ॥

**अनु०—**श्राद्ध के अवसर पर दान लेने या भोजन करने पर दिन के शेषभाग में अनध्याय रहता है ॥ १० ॥


१. See. आप. ध. १.११.२३. २. वार्षिकात् इति क. पु.
३. cf. आप. ध. १.११.२२.

एकविंशः खण्डः ] प्रथमप्रश्ने एकादशोऽध्यायः १४७

टि०—गोविन्द के अनुसार जब श्राद्धभोजन का निमन्त्रण प्राप्त हो उसी समय से अनध्याय होता है ।

पितरो देवता यस्य कर्मणस्तत्पित्र्यं, तस्मिन् आमश्राद्धार्थे वा भोजनार्थे वा निमन्त्रणप्रभृत्यनध्यायः ॥ १० ॥

भोजनेऽप्वा¹जरणम् ॥ ११ ॥

**अनु०—**श्राद्धभोजन करने पर जब तक भोजन पच न जाय तब तक अनध्याय होता है ॥ ११ ॥

अनध्याय इत्येव । भोजनपक्ते निमन्त्रणप्रभृत्याजरणमित्यर्थः ॥ ११ ॥

कथं पुनर्भुक्तवत्येव भोजनाभ्युपगममात्रे आमन्त्रणरूपे पाणौ चामश्राद्धेऽनध्याय इत्याशङ्कयाऽऽह—

पाणिमुखो हि ब्राह्मणः ॥ १२ ॥

**अनु०—**क्योंकि ब्राह्मण का हाथ ही उसका मुख होता है ॥ १२ ॥

आमश्राद्धस्याऽप्येतदेव लिङ्गम् ॥ १२ ॥

एतदेव द्रढयितुमाह—

अथाऽप्युदाहरन्ति—

भुक्तं प्रतिगृहीतं च निर्विशेषमिति श्रुतिः ॥ १३ ॥

**अनु०--**इस विषय में निम्नलिखित उद्धृत किया जाता है । ( श्राद्ध के अवसर पर ) भोजन करने तथा दान ग्रहण करने में कोई अन्तर नहीं है, ऐसा श्रुति का कथन है ॥ १३ ॥

**टि०—**यह समानता का नियम अनध्याय के विषय में ही समझना चाहिए। प्रायश्चित्त के सन्दर्भ में नहीं ।

अनध्यायं एवाऽयमविशेषः । प्रायश्चित्तं तु प्रतिगृहीतेऽर्धमेव 'आमश्राद्धेऽर्धमेव' इति स्मरणात् । भोजनप्रायश्चित्तं च स्मृत्यन्तरादवगन्तव्यम्--

चान्द्रायणं नवश्राद्धे पराको मासिके तथा ।
पक्षत्रये तु कृच्छ्रं स्यात् षाण्मासे कृच्छ्रमेव तु ॥
सपिण्डे तु त्रिरात्रं स्यादेकरात्रं तथाऽब्दिके ॥
दशकृत्वः पिबेदापो गायत्र्या चाऽभिमन्त्रिताः ।
मासि श्राद्धे च तामेव नित्यश्राद्धे जपेच्छतम् ॥ इति ॥ १३ ॥


१. वाजीर्णान्तिम इति.