बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
| १४८ | बौधायन-धर्मसूत्रम् | [ अनध्यायः |
|---|
पितुर्युपरते त्रिरात्रम् ॥ १४ ॥
अनु०--पिता की मृत्यु होने पर तीन दिन का अनध्याय होता है ॥ १४ ॥
टि०--यह नियम गुरुकुल में अध्ययन करने वाले ब्रह्मचारी के लिए है और यहाँ पिता से तात्पर्य है उपाध्याय से, क्योंकि उपाध्याय को वेद प्रदान करने के कारण पिता ही कहा जाता है। साक्षात् पिता की मृत्यु पर शुद्धिपर्यन्त द्वादश दिन का अनध्याय करना होता है। गोविन्दस्वामी।
उपरते मृते। अनध्याय इत्यनुवर्तते। असमावृत्तस्याऽयम्। समावृत्तस्य त्वशुचिमात्रादेवाऽनध्यायः प्राप्तः। अत्रोपाध्यायमेव वेदप्रदानात् पितेत्याह। साक्षात्पितरि द्वादशाहविधानात्—'मातरि पितर्याचार्य इति द्वादशाहः' १। इति ॥ १४ ॥
कथमयमपि पितेति चेत्तदाह—
'द्वयमु ह वै सुश्रवसोऽनूचानस्य रेतो ब्राह्मणस्योर्ध्वं नाभेर्-
धस्तादन्यत् स यदूर्ध्वं नाभेस्तेन हैतत् प्रजायते यद्ब्राह्मणानुपिनयति
यदध्यापयति यद्याजयति यत्साधु करोति सर्वाऽस्यैषा प्रजा भवति।
अथ यदवाचीनं नाभेस्तेन हास्यौरसी प्रजा भवति तस्माच्छ्रोत्रियम-
नूचानमप्रजोऽसीति न वदन्ति ॥ १५ ॥
अनु०--क्रमपूर्वक वेदाध्ययन करने वाले विद्वान् ब्राह्मण का वीर्य दो प्रकार का होता है—नाभि से ऊपर के भाग में विद्यमान रहने वाला तथा उससे नीचे रहने वाला। नाभि से ऊपर विद्यमान वीर्य से उसके पुत्र होते हैं जिन ब्राह्मणों का वह उपनयन करता है, अध्यापन करता है, यज्ञ कराता है तथा जिन्हें पवित्र बनाता है—ये सभी उसकी सन्तान होते हैं। जो वीर्य नाभि से नीचे होता है उससे शरीर से उत्पन्न होने वाले पुत्र होते हैं। इस कारण वेद के विद्वान् से यह नहीं कहा जाता है कि तुम निःसन्तान हो।
टि०--अनूचान वह है जो वेद का अर्थसहित तथा अंगोंसहित अध्ययन करता है। नाभि के ऊपर विद्यमान रहने वाला वीर्य प्राणवायु है जो मुख में अनेक प्रकार के शब्दों का अभिव्यंजक होता है। इसके द्वारा चार प्रकार के पुत्र होते हैं—जिनका उपनयन करता है, जिनका अध्यापन करता है, जिनका यज्ञ करता है और जिन्हें पवित्र करता है। यही प्रजाओं का श्रेष्ठ जन्म है। इस विषय में आपस्तम्ब का
१. cf. वासिष्ठ ध. २.७–१०
एकविंशः खण्डः ] प्रथमप्रश्ने एकादशोऽध्यायः १४९
कथन है--तच्छ्रेष्ठं जन्म । शरीरमेव मातापितरौ जनयतः इति । इस प्रकार वेद प्रदान करने वाले पिता की मृत्यु होने पर तीन दिन का अनध्याय होता है ।
उह वै इति पदद्वयं त्रयं वा शब्दशोभार्थम् । सुश्रवस इति शृणोतेरौणादि-कोऽसुन् प्रत्ययः । श्रमेण श्रुतवत इत्यर्थः । अनूचानो वेदतदर्थाङ्गाध्यायी । ईदृशस्य ब्राह्मणस्य द्वयं रेतः प्रजननहेतुर्विद्यते । तत्र ऊर्ध्वं नाभेरेकम् । स च प्राणवायुः नाभेरूत्थितो वक्त्रे विचरन् विविधानां शब्दानाभिव्यञ्जकः । अवाचीनो न्यक् । स च नाभेरवाचीनाग्रे उत्पन्नः शुक्रविसर्गे हेतुः वायुः । तत्र ऊर्ध्वाग्रेण रेतसा चतस्रः प्रजा उत्पादयति—उपनयनाध्यापनयाजनसाधु-कृत्याभिः । अस्यैव हीत्थं प्रजा उत्पादयितुं शक्तिरस्ति । एतद्धि प्रजानां श्रेष्ठतरं जन्म । शरीरान्तरेऽप्यनुग्राहकल्वात् । तथा चाऽऽपस्तम्बः—'तच्छ्रेष्ठं जन्म । शरीरमेव मातापितरौ जनयतः' इति । पशुवदेवेत्यभिप्रायः । उक्तं च—'कामं मातापितरौ चैनमुत्पादयतो मिथः' इति । अथ यदवाचीनं नाभेरूस्तेन हाऽ-स्यौरसी प्रजा भवति । यस्मादेवंविधस्य पुरुषस्य चतस्रः प्रजास्सन्ततिः केवलं श्रोत्रियस्याऽध्यापननिमित्ताऽस्ति तस्मादौरस्यभावेऽप्यमुमप्रजोसीति विद्वांसो न वदन्ति । तस्माद्वेदप्रदानपितरि मृते त्र्यहमनध्यायो युक्तः ॥ १५ ॥
यस्मादेवम्—
तस्माद् द्विनामा द्विमुखो विप्रो द्विरेता द्विजन्मा चेति ॥ १६ ॥
अनु०—इस कारण ब्राह्मण के दो नाम, दो मुख, दो प्रकार का वीर्य तथा दो जन्म होते हैं ॥ १६ ॥
द्वे नामनी यस्य स द्विनामा 'तस्माद् द्विनामा ब्राह्मणोऽधुकः' इति श्रुति-मधुकस्संवृद्धः । द्वे चास्य मुखे पाणिरस्यमिति द्विमुखः । द्वे रेतसी शुक्लमॆकं, द्वितीयं ब्रह्म । जन्मनी अपि द्वे माता ब्राह्मणश्च ॥ १६ ॥
अथ प्रकृतमनुसरामः—
शूद्रापपात्रश्रवणसंदर्शनयोश्च तावन्तं कालम् ॥ १७ ॥
अनु०--शूद्र या अपपात्र की ध्वनि सुनाई पड़ती हो या वे दिखलाई पड़ते हों तो उतने समय तक अनध्याय होता है, जितने समय तक उनकी ध्वनि का श्रवण हो या वे दिखलाई पड़ते हों ॥ १७ ॥
'समुच्चितयोरप्यपपात्रनिषेधः । ततश्च कुर्यादतिरोहिते अपपात्रे अनध्या-यम् ॥ १७ ॥
१. सर्वेष्वपि पुस्तकेष्वशुद्धिरेवाऽत्र,
१५० | बौधायन-धर्मसूत्रम् | [अनध्यायः
नक्तं शिवाविरावे नाऽधीयीत स्वप्नान्तम् ॥ १८ ॥
**अनु०—**रात्रि में यदि एक शृगाल का विशेष प्रकार का रुदन सुनाई पड़े तो उस समय तक अनध्याय होता है जब तक सोकर फिर न जागे ॥ १८ ॥
रात्रौ शिवाविरावे वृद्धगोमायुरुते । तच्च विशिष्टरुतम् । तस्मिन् सति सुप्त्वा बुद्ध्वाऽध्येतव्यम् ॥ १८ ॥
अहोरात्रयोः¹स्सन्ध्ययोः पर्वसु च नाऽधीयीत ॥ १९ ॥
**अनु०—**दिन और रात्रि की सन्धियों अर्थात् सन्ध्या और प्रातःकालीन गोधूलि के अवसर पर तथा पर्व दिनों (दोनों अष्टमी तथा दोनों चतुर्दशी) को अध्ययन न करे ॥ १९ ॥
तत्रैका सन्ध्याऽरुणप्रभातमारभ्य आ सूर्योदयदर्शनात् । अपराऽस्तमयादारभ्य आ नक्षत्रोदयात् । पर्वस्विति बहुवचनात् बह्व्यस्तिथयो गृह्यन्ते । एका तावत्पर्वद्वयमध्यगता अष्टमी । उभयोरपि पर्वणोरभितस्तिथिद्वयं चतुर्दशी प्रतिपच्चेति । अतोऽष्टमीद्वयं चतुर्दशीद्वयं प्रतिपद्द्वयं च गृहीतं भवति । चशब्दाद्यस्यां तिथावादित्योऽस्तमेति साऽभिप्रेता । तथा हि—
या तिथिं समनुप्राप्य अस्तं याति दिवाकरः ।
सा तिथिर्मुनिभिः प्रोक्ता दानाध्ययनकर्मसु ॥ इति ॥
तावन्तं कालं सा सा तिथिरित्यर्थः ॥ १९ ॥
पर्वप्रसङ्गादित्थमन्यः पर्वणि नियम उच्यते—
न मांसमश्नीयान्न स्त्रियमुपेयात् ॥ २० ॥
**अनु०—**इन पर्व दिनों को मांस भक्षण न करे और न पत्नीसमागम ही करे ॥ २० ॥
एतदतिक्रमेऽप्यध्ययनविघ्न एव भवतीति कल्प्यते ॥ २० ॥
पर्वसु हि रक्षःपिशाचा²व्यभिचारवन्तो भवन्तीति विज्ञायते ॥ २१ ॥
**अनु०—**श्रुति में कहा गया है कि पर्व दिनों में राक्षस तथा पिशाच मनुष्यों को हानि पहुंचाने के लिए विचरण करते रहते हैं ॥ २१ ॥
**टि०—**पर्व दिनों में राक्षस और पिशाच ही मांस भक्षण करते हैं तथा संभोग-रत होते हैं, अतः मनुष्यों को इन कर्मों से उन दिनों विरत रहना चाहिए, अन्यथा राक्षस और पिशाच बाधा का अनुभव कर मनुष्यों को हानि पहुँचाते हैं । गोविन्दस्वामी ।
१. सन्धयोः इति इ पु.
२. "व्यतिचारवन्तः" इति. इ. ई. ख. पुस्तकेषु ।
एकविंशः खण्डः ] प्रथमप्रश्ने एकादशोऽध्यायः १५१
श्रुतिरेवेत्यभिमानिना विज्ञायत इति गमयति । पर्वसु रक्षांसि पिशाचाश्च व्यभिचारवन्तः । वि वैविध्ये, अभीत्याभिमुख्ये. चरतिः गमने भक्षणे च वर्तते । पर्वसु विविधं गच्छन्ति विविधं भक्षयन्ति च । पर्वसु स्त्र्यभिगमन-मांसाशनवन्तइत्यर्थः । तद्यदि मनुष्या अपि कुर्युः तान् रक्षःपिशाचाः बाधन्ते । अतोऽस्मादेव भया^१न्निवर्तितव्यम् ॥ २१ ॥
प्रकरणार्थमेवाऽनुसरति—
अन्येषु चाद्भुतोत्पातेष्वहोरात्रमनध्यायोऽन्यत्र मानसात् ॥२२॥
**अनु०—**अन्य प्रकार के अद्भुत उत्पातों के होने पर भी रात्रि-दिन का अनध्याय होता है, किन्तु मन से वेद का अध्ययन किया जा सकता है ॥ २२ ॥
**टि०—**उपर्युक्त अनध्याय विषयों में मानस अध्ययन का निषेध नहीं है, किन्तु कुछ अन्य अवसर है जब मानस अध्ययन भी निषिद्ध है ।
अद्भुतमाश्चर्यम् । यथा अम्बुनि मज्जन्त्यलाबूनि, ग्रावाणः प्लवन्ते, जले चाऽग्न्युद्भवोऽग्नौ पत्रोद्भवः इत्याद्युत्पातः । परार्थं विपर्ययप्रदर्शनम् । यथा स्थावरस्य देशान्तरगमनं प्रतिमारोदनरुधिरस्रवणादि । यद्वा—षष्ठीतत्पुरुषोऽ-यमद्भुतोत्पातेष्विति । अन्येषु चाद्भुतोत्पातेष्विति । एतेष्वहोरात्रमनध्यायो-ऽन्यत्र मानसाद्ध्यायनात् । मानसाध्ययनविशिष्ट एव सर्वानध्यायविशेषो द्रष्टव्यः । क्वचिन्मानसेऽपि निषेधदर्शनात् । यथा—
उदके मध्यरात्रे च विण्मूत्रे च विसर्जयन् ।
उच्छिष्टश्राद्धभुक्त चैव मनसाऽपि न चिन्तयेत् ॥ इति ॥
मानसेऽपि जननमरणयोरनध्यायः ॥ २३ ॥
**अनु०—**जन्म और मरण के अवसर पर मानस वेदाध्ययन भी नहीं करना चाहिए ॥ २३ ॥
अपिशब्दाद्वाचिकेऽपि । जननमरणग्रहणं सर्वेषामात्माशुचिभावानामुपल-क्षणम् । तथा च स्वाध्यायब्राह्मणम्—'तस्य वा एतस्य यज्ञस्य द्वावनध्यायौ यदात्माऽशुचिर्यद्देशः' इति ॥ २३ ॥
'अशुचिर्नाऽधीयीत' इति यदुक्तं तद्वाचिकस्यैव, मा विज्ञायीति ज्ञापनार्थं विनिन्दन्ति—
अथाऽप्युदाहरन्ति—
हन्त्यष्टमी ह्युपाध्यायं हन्ति शिष्यं चतुर्दशी ।
१. न कर्तव्यं क. गु.
१५२ | बौधायन-धर्मसूत्रम् | [ अनध्यायाः
हन्ति पञ्चदशी विद्यां तस्मात्पर्वाणि वर्जयेत् ॥२४ ॥
अथाऽतः प्रायश्चित्तानि ।
'यथायुक्तो विवाहः । अष्टौ विवाहाः । क्षत्रियवध गोसहस्रम् । षड्भागभृतो राजा रक्षेत् । रथकाराम्बष्ठ । चत्वारो वर्णाः । उत्तरत उपचारो विहारः । मृन्मयानां पात्राणाम् । शुचिमप्लवं देवा जुषन्ते । अभक्ष्याः पशवो ग्राम्याः । सपिण्डेष्वादशाहम् । गोचर्ममात्रम् । नित्यं शुद्धः कारुहस्तः । अथाऽतश्शौचाधिष्ठानम् । कमण्डलुद्विजातीनाम् । अथ कमण्डलुचर्यामुपदिशन्ति । अथ स्नातकस्य । घमार्थौ यत्र न स्याताम् । अष्टाचत्वारिंशद्वर्षाणि । पञ्चधा विप्रतिपत्तिः । उपदिष्टो धर्मः प्रतिवेदम् ॥
इति बौधायनीये धर्मसूत्रे प्रथमप्रश्ने एकविंशः खण्डः ॥
अनु०—इस विषय में निम्नलिखित पद्य उद्धृत किया जाता है अष्टमी को अध्ययन करना उपाध्याय का ही नाश करता है, चतुर्दशी का ( अध्ययन ) शिष्य का ही विनाश करता है, पंचदशी विद्या का ही नाश करती है, इस कारण इन पर्व दिनों पर अनध्याय नहीं करना चाहिए ॥ २४ ॥
उपाध्यायहनने तदलाभकृतो विघ्नो लक्ष्यते । एवं शिष्यहननेनाऽपि तदध्येत्रभावकृतः । विद्याहननेनाऽपि पुरुषान्तरनैरपेक्ष्याभावो लक्ष्यते । अन्योऽप्यध्ययनविघ्नसद्भावो द्रष्टव्यः । अत्यन्तनिःश्रेयसत्वादध्ययनस्य विघ्नसन्ततिरवश्याम्भाविनी । सा च तद्वर्जनेनैव परिहरणीया तथा चोक्तम्—'श्रेयांसि बहुविघ्नानि' इति ॥ २४ ॥
इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते प्रथमप्रश्ने गृह्यसूत्रे चतुर्दशप्रश्ने एकादशोऽध्यायः । प्रथमः ( गृह्यसूत्रे चतुर्दशः ) प्रश्नः समाप्तः
१. इमानि सूत्रैकदेशरूपाणि तत्तत्खण्डप्रतीकरूपाणि प्रश्नसमाप्त्यनन्तरमध्येतृ-सम्प्रदायेऽधीयन्ते प्रातिलोम्येन । तदनुसारेण मूलपुस्तकेषु लिखितानीत्यत्राऽपि मूल-सूत्रानन्तरं सम्प्रदायाविच्छेदाय लिखितानि ।
अथ द्वितीयः प्रश्नः
प्रथमाध्याये प्रथमः खण्डः
ब्रह्महत्यादिषु दण्ड उक्तः 'अवध्यो वै ब्राह्मणस्सर्वापराधेषु' इत्येवमादिना—
अथातः प्रायश्चित्तानि ॥ १ ॥
अनु०—अब हम प्रायश्चित्तों का वर्णन करेंगे ॥ १ ॥
वक्ष्याम इति शेषः । विहिताकरणप्रतिषिद्धसेवानिमित्तदोषफलं यैः कर्मभिः नाऽनुभुङ्क्ते तानि प्रायश्चित्तानि । ^१तत्राऽपराघिनोऽननुतापिनो बलादानीतस्य दण्डप्रायश्चित्तयोरुसमुच्चयः । ^२स्वयमेवाऽऽगत्य राज्ञे निवेद्यमानस्य दण्ड एव । यः पुनरनुतापेन प्रायश्चित्तमनुतिष्ठति तस्य तेनैव भवितव्यम् । एनोभूयस्त्वेव कमनियम हेतुः ॥ १ ॥
इदमत्र प्रथमं ब्रह्मघ्नं आह—
भ्रूणहा द्वादश समाः ॥ २ ॥
अनु०—विद्वान ब्राह्मण की हत्या करने वाला बारह वर्षों तक निम्नलिखित प्रायश्चित्त करे ॥ २ ॥
टि०—भ्रूण का अर्थ है यज्ञ और भ्रूण और यज्ञ को धारण करने वाले विद्वान ब्राह्मण का वध करने वाला भ्रूणहा कहा गया है ।
भ्रूणं यज्ञं बिभर्त्ति पाति नयतीति तत्साधनवधकारी भ्रूणहा ब्रह्महेति यावत् । समाः संवत्सरान् । वक्ष्यमाणव्रतं चरेत् ॥ २ ॥
तदाह —
कपाली खट्वाङ्गी गर्दभचर्मवासा अरण्यनिकेतनः श्मशाने ध्वजं शवशिरः कृत्वा कुटीं कारयेत्तामावसेत् सप्ताऽगारणि भैक्षं चरेत् स्वकर्माऽऽचक्षाणस्तेन प्राणान्धारयेदलब्धोपवासः ॥ ३ ॥
अनु०—कपाल (खोपड़ी) लेकर, चारपाई का एक पाया (दण्ड के स्थान पर) लेकर, गदहे का चर्म धारण कर, वन में निवास करते हुए, श्मशान में मनुष्य की खोपड़ी को ध्वजा की तरह धारण करते हुए, कुटी बनावे और उसी में निवास
१. अनुपतापिना इति ग. पु.
२. यस्तु स्वयमेवागत्य राज्ञे निवेदयेत् तस्य दण्ड एव इति ग. पु.
१५५ | बौधायन-धर्मसूत्रम् | [ प्रायश्चित्तम्
करे। अपने पाप कर्म की घोषणा करते हुए केवल सात घरों से भिक्षा मांगे, जो कुछ मिले उसी से जीवन धारण करे और कुछ भी भोजन न प्राप्त होने पर उपवास करे ॥ ३ ॥
टि०—भिक्षा मांगते समय खोपड़ी को चिह्न के रूप में धारण करे। यह खोपड़ी उस व्यक्ति की हो जिसकी हत्या की हो अथवा किसी अन्य मृतव्यक्ति की भी हो सकती है। 'ब्रह्महा अस्मि' अथवा 'ब्रह्मघ्ने भिक्षां देहि' कहकर भिक्षा मांगे। इस प्रकार बारह वर्ष तक का प्रायश्चित्त करे। यह प्रायश्चित्त ब्राह्मण का ब्राह्मण द्वारा हत्या के प्रसंग में है।—गोविन्द स्वामी।
खट्वाया अङ्गं पादादि तद्दण्डार्थं भवति। गर्दभस्य चर्म वासो यस्य स तथोक्तः। अरण्यमस्य निकेतनं विहरणदेशः; चङ्क्रमणदेश इति यावत्। श्मशानं निरुक्तम्। तत्र कुटीं कारयेदिति सम्बन्धः। शवस्य शिरो ध्वजं चिह्नं कुर्यात् भिक्षाकाले—यं हत्वा एतच्चरति तस्य शिर इति। यस्य कस्य चिदित्यन्ये। तथा च सति शवग्रहणमकिञ्चित्करं स्यात्। स्वकर्माऽऽचक्षणः—'ब्रह्महाऽहमस्मीति' 'ब्रह्मघ्ने भिक्षां देही'ति ब्रुवन् भिक्षां चरन्नपि यदि भिक्षां सप्तागारेष्वपि न लभेत तदोपवासः कार्यः। तामेव कुटीमधिवसेत्। एवं द्वादश समाश्चरन् पूतो भवति। ब्राह्मणाधिकारिकमिदं प्रायश्चित्तम्। यत्तत्सुमन्तुराह—'ब्राह्मणो ब्राह्मणं हत्वा' इति ॥ ३ ॥
अधुना द्वादशवार्षिकस्य व्रतस्य प्रायश्चित्तान्तरमाह—
अश्वमेधेन गोसवेनाऽग्निष्टुता वा यजेत ॥ ४ ॥
अनु०—अथवा अश्वमेध, गोसव, और अग्निष्टुत यज्ञ करे ॥ ४ ॥
टि०—अश्वमेध का विधान विशेष रूप से राजा के लिए किया गया है।
आहिताग्नेरिष्टप्रथमसोमस्य एतयोः प्रायश्चित्तसमाधानं कार्यम्। अश्वमेधस्तु राजयज्ञत्वात् 'राजा विजितसार्वभौमः' इत्येवं विशिष्टस्य राज्ञो भवति॥४॥
अश्वमेधावभृथे वाऽऽत्मानं प्लावयेत् ॥ ५ ॥
अनु०—अश्वमेधयज्ञान्त स्नान में अपने को जल में अथवा आप्लुत करे ॥ ५ ॥
अन्यस्याऽप्यश्वमेधावभृथे वा आत्मानं स्नापयेत्। एतानि प्रायश्चित्तानि हन्तृगुणापेक्षया हन्यमानगुणापेक्षया वा विकल्प्यन्ते ॥ ५ ॥
अथाऽप्युदाहरन्ति—
अमत्या ब्राह्मणं हत्वा दुष्टो भवति धर्मतः।
ऋषयो निष्कृतिं तस्य वदन्त्यमतिपूर्वके।
प्रथमः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १५५
प्रथमः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १५५
मतिपूर्वं घ्नतस्तस्य निष्कृतिर्नोपलभ्यते ॥ ६ ॥
अनु०- इस सन्दर्भ में निम्नलिखित पद्य उद्धृत किया जाता है— जो व्यक्ति अनजान में ही ब्राह्मण की हत्या करता है वह धर्मानुसार पापमुक्त हो जाता है। ऋषियों ने अनजान में ही ब्राह्मणवध करने पर उस व्यक्ति के लिए दोष से मुक्ति का विधान किया है, किन्तु जानबूझ कर वध करने वाले व्यक्ति को पाप से मुक्ति नहीं मिलती ॥ ६ ॥
टि०- मनु का कथन भी द्रष्टव्य है कि जानबूझकर ब्राह्मण की हत्या करने पर इस पाप से मुक्ति का उपाय नहीं है।
अमत्या ब्राह्मणमिति ब्राह्मणोऽयमित्यविज्ञाय हननमुच्यते। अमतिपूर्वकं इत्यनेन 'च ब्राह्मणोऽयमिति निश्चितेऽपि प्रमादकृतं हननम् ॥
आह च मनुः— कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥ इति ॥
तथा— कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥ ६ ॥
अथ ब्राह्मणविषयहिंसायामेवं प्राग्भाविषु व्यापारेषु प्रायश्चित्तमाह—
अपगूर्य चरेत्कृच्छ्रमतिResponse to the above in Devanagari text strictly follows this transcription:
अपगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने । कृच्छ्रं चान्द्रायणं चैव लोहितस्य प्रवर्त्तने ॥ तस्मान्नैवाऽपगुरेत न च कुर्वीत शोणितमिति ॥ ७ ॥
अनु०- ब्राह्मण को मारने के लिए हाथ उठाने पर कृच्छ्र व्रत करे, प्रहार करने पर अतिकृच्छ्र व्रत करे और मार कर खून निकालने पर कृच्छ्र तथा चान्द्रायण व्रत करे अतएव ब्राह्मण के ऊपर न तो हाथ उठावे और न उस पर प्रहार कर उसका रुधिर बहावे ॥ ७ ॥
टि०- अपगूरण मारने के लिए प्रयत्न करने को कहते हैं। द्रष्टव्य-गौतमधर्मसूत्र पृ० २१८ में ब्राह्मण के ऊपर हथियार उठाने पर सो वर्ष ओर देने पर सहस्र वर्षं तक स्वर्ग की प्राप्ति न होने का उल्लेख है।
कथं पुनरवगम्यः—ब्राह्मणापगोरणादिष्वेवैतानि प्रायश्चित्तानीति ? उच्यते—निषेधस्तावद्ब्राह्मणविषय एवोपलभ्यते—'तस्माद्ब्राह्मणाय नाऽपगु- रेत न निहन्यान्न लोहितं कुर्यात्' इति। यत्र च निषेधः, प्रायश्चित्तेनाऽपि तत्रस्थेन भवितव्यम्। अपगूरणं नाम हिंसाऽर्थमुद्यमः। अप्रसृष्टमन्यत् ॥ ७ ॥
नव समा राजन्यस्य ॥ ८ ॥
| १५६ | बौधायन-धर्मसूत्रम् | [ प्रायश्चित्तम् |
|---|
अनु०—क्षत्रिय की हत्या करने पर नौ वर्ष का प्रायश्चित्त करे ॥ ८ ॥
टि०—यह स्पष्ट कर देना उचित है कि क्षत्रिय के वध पर नौ वर्ष तक उपयुक्त ब्राह्मण वध काम प्रायश्चित्त करना विहित है या सामान्य ब्रह्मचर्य व्रत का । गोविन्दस्वामी की व्याख्या के अनुसार "प्रागुक्तं ब्रह्महत्याव्रतं चरेत्" ब्यूह्लर ने अपने अनुवाद में सामान्य ब्रह्मचर्य व्रत से ही तात्पर्य लिया है । इस संबन्ध में गौतमधर्मसूत्र में कहा गया है कि क्षत्रिय की हत्या करने पर छः वर्ष तक सामान्य ब्रह्मचर्य का व्रत करे तथा एक सहस्र गौ एक सांड के साथ दान करे । २२।१४ पृ० २२४ ।
वध इति शेषः । नव संवत्सरान् राजन्यस्य वधे प्रागुक्तं ब्रह्महत्याव्रतं चरेदिति ॥ ८ ॥
तिस्रो वैश्यस्य ॥ ९ ॥
अनु०—वैश्य की हत्या करने पर तीन वर्ष का प्रायश्चित्त करे ॥ ९ ॥
टि०—इस सूत्र कि व्याख्या में गोविन्दस्वामी ने तीन वर्ष तक ब्रह्मचर्य का आचरण करने का ही नियम ग्रहण किया है ।
संवत्सरत्रयं प्रागुक्तं ब्रह्मचर्यचरणम् ॥ ९ ॥
संवत्सरं शूद्रस्य स्त्रियाश्च ॥ १० ॥
अनु०—शूद्र का और स्त्री का वध करने पर एक वर्ष का प्रायश्चित्त करे॥१०॥
टि०—यहां सूत्र के 'च' शब्द से गोविन्दस्वामी ने यह अर्थ भी ग्रहण किया है कि गुणहीन क्षत्रिय और वैश्य के वध का भी यही प्रायश्चित्त समझना चाहिए ।
शूद्रं हत्वा संवत्सरं प्रायश्चित्तमित्यनुवर्तते । चशब्दः क्षत्रियवैश्ययोरपि निर्गुणयोर्हनने एतदेव प्रायश्चित्तमिति दर्शयितुम् ॥ १० ॥
ब्राह्मणवदात्रेय्याः ॥ ११ ॥
अनु०—ऋतुस्नान की हुई स्त्री के वध के समान ही प्रायश्चित्त होता है ॥११॥
टि०—रजस्वला, ऋतुस्नाता स्त्री को आत्रेयी कहते हैं । जिस वर्ण की ऐसी आत्रेयी का वध किया हो उस वर्ण के पुरुषवध के लिए विहित प्रायश्चित्त होता है । गौतम० 'आत्रेय्या चैवम्' २२।१२ ॥
आत्रेयी आपन्नगर्भा । तथा वसिष्ठो निब्रूते—'रजस्वलामृतुस्नातामात्रेयीमाहुः । अत्र होप्यदपत्यं भवति' इति । ब्राह्मणग्रहणं च प्रदर्शनार्थम् । स्वजातीयात्रेय्या वधे स्वजातीयपुंवधवत् प्रायश्चित्तमित्यतिदेशः । विगुणसगुणविभागोऽपि द्रष्टव्यः । सगुणहननप्रायश्चित्तं सगुणाहनन एवाऽतिदिश्यते
प्रथमः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १५७
प्रथमः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १५७
^१एवमिति । आत्रेय्या अपि दण्डप्रकरणे पुनर्ब्रह्महत्यादिषु यदभिहितं तेन एतेषां विकल्पव्यवस्थासमुच्चया हन्तृहन्द्यमानगुणापेक्षया वेदितव्याः ॥ ११ ॥
गुरुतल्पगस्तप्ते लोहशयने शयीत ॥ १२ ॥
**अनु०—**गुरुपत्नी का संभोग करने वाला जलती हुई लोहे की शय्या पर लेट कर जीवन समाप्त कर दे ॥ १२ ॥
**टि०—**तल्प का लाक्षणिक अर्थ यहाँ पत्नी से है । गुरु पत्नीगमन का पाप मृत्यु के उपरान्त ही दूर होता है । इसके लिए प्रायश्चित्त मरण ही विहित है ।
अत्र तल्पशब्देन शयनवाचिना भार्या लक्ष्यते । तया यो मैथुनमाचरति स गुरुतल्पगः । मरणान्तिकं चैतत्प्रायश्चित्तम् । एवं कृतवतो ह्यस्मिन् लोके प्रत्यापत्तिर्न विद्यते । मरणात्तु पूतो भवति । अतोतस्यौर्ध्वदैहिकमपि ज्ञातिभिरस्य कर्तव्यम् । अन्यत्राऽपि मरणान्तिके दण्डे प्रायश्चित्ते चैतद् द्रष्टव्यम् ॥ १२ ॥
इदमन्यत्तस्यैव प्रायश्चित्तम्—
सूर्मिं ज्वलन्तीं वा श्लिष्येत् ॥ १३ ॥
**अनु०—**अथवा जलती हुई लोहे की स्त्रीप्रतिमा आलिंगन कर मृत्यु प्राप्त करे ॥ १३ ॥
सूर्मिशब्देनाऽयस्मयी स्त्रीप्रतिकृतिरुच्यते । इदमपि मरणान्तिकमेव ॥ १३ ॥
लिङ्गं वा सवृषणं परिवास्याऽञ्जलावाधाय दक्षिणाप्रतीच्योर्दिशोरन्तरेण गच्छेद्रा निपतनात् ॥ १४ ॥
**अनु०—**अथवा अण्डकोष के सहित लिंग को तब काटकर उसे अंजलि पर रख कर दक्षिण और पश्चिम दिशा के मध्य नैऋत्य कोण को तक चलता रहे जब तक गिरकर उसकी मृत्यु न हो जाय ॥ १४ ॥
रूपाण्यपरिहरन्नित्यभिप्रायः । परिवास्य छित्त्वा । एतत्प्रायश्चित्तत्रयं बुद्धिपूर्वविषयम् । सम्भवापेक्षश्च विकल्पः ॥ १४ ॥
स्तेनः प्रकीर्य केशान् सैध्रकं मुसलमादाय स्कन्धेन राजानं गच्छेदनेन मां जहीति तेनैनं हन्यात् वधे मोक्षो भवति ॥ १५ ॥
अनु०—( ब्राह्मण का स्वर्ण चुरानेवाला ) चोर अपने केशों को बिखराकर, कन्धे पर सैन्ध्रक के काठ का मूसल लेकर राजा के समीप जावे और कहे मुझे
१. एवमस्वामिदण्डप्रकरणे इति क. घ. पु.
| १५८ | बौधायन-धर्मसूत्रम् | [ प्रायश्चित्तम् |
|---|
मारिए। राजा उस मूसल से उस पर प्रहार करे, मृत्यु हो जाने पर उस पाप से मुक्ति हो जाती है ॥ १५ ॥
ब्राह्मणस्वर्णं हरति बलेन वञ्चनया चौर्येण वा यो ब्राह्मणः स स्तेन इति गीयते । तस्यैतत्प्रायश्चित्तम्—प्रकीर्य केशानित्यादि । सैध्रको दृढदारुनिर्मितः । सैध्रकं मुसलं स्कन्धेनाऽऽदाय राजानं गच्छेदिति सम्बन्धः ॥ १५ ॥
अथेदानीं स्तेनशासनमपि राज्ञ ¹आवश्यकमित्येतत्प्रदर्शयितुं तदशासने दोषमाह—
अथाऽप्युदाहरन्ति—
स्कन्धेनाऽऽदाय मुसलं स्तेनो राजानमन्वियात् ।
अनेन शाधि मां राजन् क्षत्रधर्ममनुस्मरन् ॥
शासने वा विसर्गे वा स्तेनो मुच्येत किल्बिषात् ।
अशासनात्तु तद्राजा स्तेनादाप्नोति किल्विषमिति ॥ १६ ॥
**अनु०—**धर्मशास्त्रज्ञ इस सम्बन्ध में निम्नलिखित पद्य उद्धृत करते हैं—
चोर कन्धे पर मूसल लेकर राजा के समीप जाय और कहे कि हे राजन्, क्षत्रिय के धर्म का स्मरण कर इससे मुझे दण्ड दीजिए। यदि राजा उसे दण्ड दे या छोड़ दे तो वह पाप से मुक्त हो जाता है। किन्तु यदि राजा दण्ड न दे तो वह पाप राजा के ऊपर ही पहुंच जाता है ॥ १६ ॥
**टि०—**द्रष्टव्य मनु० ७।११५-१३६ ।
शासनं वधः । विसर्गो मोक्षः । किल्विषं पापम् ॥ १६ ॥
सुरां पीत्वोष्णया कायं दहेत् ॥ १७ ॥
**अनु०—**सुरा पीने पर उसी प्रकार की खोलती हुई सुरा का पान कर शरीर को जलावे ॥ १७ ॥
**टि०—**जानबूझ कर सुरापान करने पर मृत्यु होने पर ही पाप से मुक्ति होती है।
यज्जातीयस्य या सुरा प्रतिषिद्धा तयैवोष्णया अग्निवर्णया पीतया कायं दहेत् । ब्राह्मणस्य सर्वा प्रतिषिद्धा । अत एव हि सर्वां सुरां समतयैवैकत्वेन निदर्शयति—
सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् ॥ इति ॥
मरणांन्तिकमेतन्मतिपूर्वके ॥ १७ ॥
अमत्या पाने कृच्छ्राब्दपादं चरेत्पुनरुपनयनं च ॥ १८ ॥
१. विहितमिति घ. पु.
२. See. मनु. ८. १३५, १३६.
प्रथमः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १५९
प्रथमः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १५९
अनु०—अनजान में ही सुरा पान करने पर तीन मास तक कृच्छ्र व्रत करे और पुनः उपनयन संस्कार करावे ॥ १८ ॥
टि०—द्रष्टव्य-मनु० ११।१५१ ।
वपनं मेखला दण्डो भैक्षचर्या व्रतानि च ।
निवर्तन्ते द्विजातीनां पुनस्संस्कारकर्मणि ॥
कृच्छ्राब्दपादः संवत्सरप्राजापत्यचतुर्भागः । ब्रह्महत्यादिषूक्तैः प्रायश्चित्तैः ब्राह्मण एवाऽधिक्रियते नाऽन्यः । कुत एतत् ? ब्रह्महत्यादिभिः पतति यः । तद्वा कथमिति चेत् ? पञ्चाग्निविद्यायां दर्शनात् तत्र ह्युक्तं 'यथैव न प्राक्सत्वत्तः पुरा विद्या ब्राह्मणान् गच्छति' इति प्रक्रम्य 'तदेष श्लोकः—स्तेनो हिरण्यस्य सुरां पिबंश्च गुरोस्तल्पमावसंन् ब्रह्महा च । एते पतन्ति चत्वारः पञ्चमश्चाऽऽचरंस्तैरिति ॥ अथ ह य एतानेवं पञ्चाग्नीन्वेद न सह तैरप्याचरन् पाप्मना लिप्यते' इत्यादि ॥
आह च मनुः—
अतोऽन्यतममास्थाय विधिं विप्रस्समाहितः ।
ब्रह्महत्याकृतं पापं व्यपोहत्यात्मवत्तया ॥ इति ॥
तथा सुरायामपि
अथवैका न पातव्या तथा सर्वा द्विजोत्तमैः ॥ इति ॥
तथा—सुवर्णस्तेयकृद्विप्रो राजानम्¹ ॥ इति ॥
एवमन्यान्यपि स्मृतिलिङ्गानि 'ब्राह्मणो ब्राह्मणं घातयित्वा' इत्यादीनि द्रष्टव्यानि ॥ १८ ॥
अथ पुनरुपनयने विशेषमाह—
²वपनव्रतनियमलोपश्च पूर्वानुष्ठितत्वात् ॥ १९ ॥
अनु०—दूसरे उपनयन संस्कार में पहले किये गये संस्कार के केशवपन, सावित्र व्रत, भिक्षाचरण आदि नियमों को छोड़ा जा सकता है ॥ १९ ॥
व्रतं सावित्रव्रतम् । नियमो भिक्षाचरणम् । चशब्दात् मेखलादण्डधारणमपि गृह्यते । तत्र हेतुः—पूर्वानुष्ठितत्वात् कृतस्य करणासम्भवादित्यर्थः ॥१९॥
१. अभिगम्यतु । स्वकर्म ख्यापयन् ब्रूयान्मां भवाननुशास्त्विति इति श्लोकशेषः ।
२. वपनं मेखला दण्डो भैक्षचर्या व्रतानि च ।
निवर्तन्ते द्विजातीनां पुनस्संस्कारकर्मणि ॥ इति मनु० ११.१५१,
१६० | बौधायन-धर्मसूत्रम् | [ प्रायश्चित्तम्
अथाप्युदाहरन्ति- अमत्या वारुणीं पीत्वा प्राश्य मूत्रपुरीषयोः । ब्राह्मणः क्षत्रियो वैश्यः पुनस्संस्कारमर्हति ॥ २०॥
अनु०— इस सम्बन्ध में निम्नलिखित पद्य उद्धृत किया जाता है— अनजान में ही वारुणी नाम की सुरा का पान करने पर या मूत्र या मल खा लेने पर ब्राह्मण, क्षत्रिय और वैश्य का पुनः संस्कार करना आवश्यक होता है ॥२०॥
मूत्रपुरीषयोरिति द्वितीयार्थे षष्ठी 'सुपां सुपो भवन्ति' इति । अयं पुनस्संस्कारश्चान्द्रायणसहितो द्रष्टव्यः 'विड्वराहश्लोके दर्शनात् ॥ २०॥
सुराधाने तु यो भाण्डे अपः पर्युषिताः पिबेत् । शङ्खपुष्पीविपक्वेन षडहं क्षीरेण वर्तयेत् ॥ २१ ॥
अनु०— किन्तु जिस व्यक्ति ने सुरापात्र में रखे गये जल का पान किया हो, वह शंखपुष्पी डालकर उबाले गये दूध का ही पान करते हुए छः दिन व्यतीत करे ॥२१॥
सुरां यस्मिन् भाण्डे धयन्ति पिबन्ति तत्सुराधानम् । अत्र पर्युषिताः उषसाऽन्तरिते काले निहिताः । शङ्खपुष्पी नाम समुद्रतीरे लताविशेषः । पर्युषितासु वसिष्ठ आह—
मद्यभाण्डस्थिता आपो यदि कश्चिद् द्विजः पिबेत् । पद्मोदुम्बरबिल्वपलाशकुशानामुदकं पीत्वा त्रिरात्रेण विशुद्धयति ॥
इति ॥ २१ ॥
इद्मन्यमरणे प्रायश्चित्तम्- गुरुप्रयुक्तश्चेन्म्रियेत गुरुस्त्रीन् कृच्छ्रांश्चरेत् ॥ २२ ॥
अनु०— यदि गुरु द्वारा किसी कार्य के लिए नियुक्त शिष्य की वह कार्य करते समय मृत्यु हो जाय तो गुरु तीन कृच्छ्र व्रत का आचरण करे ॥ २२ ॥
मरणसन्देहास्पदीभूतेषु गुरुणा चोदितश्शिष्यो यदि म्रियेत सोऽस्य विषयः । शास्त्राविरुद्धोदकुम्भाहरणादिविषये प्रेरणमिदम् । दुर्गेदेशगमनादिषु विषयेषु ^३ब्रह्महत्या स्यादेव । गुरोरशासननिमित्तमृत्युविषयं चैतत् । स्वापराधनिमित्ते तु मरणे नेदं युक्तमिति । अगुरोः पुनश्चोदयितुर्हेननप्रायश्चित्तमेव ॥२२॥
१. See. मनु० ५.१०. २. पलाशानमुदकं इत्येद म. पु. पा. ३. भ्रूणहत्यासममेवेति ख. घ पु.
प्रथमः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १६१
प्रथमः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १६१
एतदेवाऽसंस्कृते ॥ २३ ॥
अनु०—इसी प्रकार शिष्य का संस्कार न करने पर ( अध्यापन पूरा न करने पर भी गुरु तीन कृच्छ्र व्रत करे ) ॥ २३ ॥
संस्कारः संस्कृतं शौचाचारादिलक्षणानुशासनं तदभावोऽसंस्कृतम् । तस्मिन्नप्येतदेव कृच्छ्रत्रयम् । एतदुक्तं भवति—शिष्यशासनाकर्तुर्गुरोः प्राजापत्यत्रयमिति ॥ २३ ॥
गुरुप्रसङ्गाद् ब्रह्मचारिणोऽपि नियममाह—
ब्रह्मचारिणश्शवकर्मणा व्रतावृत्तिरन्यत्र मातापित्रोराचार्याच्च ॥ २४ ॥
अनु०—यदि ब्रह्मचारी अपने माता-पिता या आचार्य के अतिरिक्त किसी अन्य व्यक्ति के शव का कोई कर्म ( वहन करना या दाहसंस्कार ) करता है तो उसे अपना व्रत पुनः आरम्भ से करना चाहिए ॥ २४ ॥
टि०—इस प्रकार के शव-संस्कार के बाद ब्रह्मचारी को पुनः उपनयनं करना पड़ता है। मनु में भी इस सम्बन्ध में माता-पिता, गुरु का शव-संस्कार करने पर ब्रह्मचारी के व्रत को खण्डित माना है ।
शवकर्म अलङ्करणवहनदहनादि । तेन कृतेन व्रतावृत्तिरुप नयनावृत्तिः, पुनरूपनयनम् । तदेतदन्यत्र मातापित्रोराचार्याच्च । तेषां शवकर्मण्यपि दोषाभावः । आह च मनुः—
आचार्यं स्वमुपाध्यायं पितरं मातरं गुरुम् ।
निहृत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते ॥ इति ॥ २४ ॥
इदानीमन्यत्राऽपि पुनरुपनयननिमित्तेषु ब्रह्मचारिणः क्वचिदपवादार्थमिदमाह—
स चेद् व्याधीयोत कामं गुरोरुच्छिष्टं भैषज्यार्थं सर्वं प्राश्नीयात् ॥२५॥
अनु०—यदि ब्रह्मचारी किसी रोग से पीड़ित हो तो वह औषधि के लिए गुरु के प्रयोग से उच्छिष्ट सभी प्रकार की वस्तुएं खा सकता है ॥ २५ ॥
टि०—ब्रह्मचारी के लिए मधु, मांस इत्यादि वर्जित है किन्तु रोगी होने पर औषधि के रूप में इनका प्रयोग किया जा सकता है । स्वाद या तृप्ति के लिए नहीं । रोग दूर हो जाने पर उन वस्तुओं का परित्याग कर देना भी विहित है ।
स यदि ब्रह्मचारी रोगेणाऽभिभूयेत कामं तथा भैषज्यार्थं सर्वं मधु मांसाद्यपि प्राश्नीयादिति सम्बन्धः । तत्र व्रतावृत्तिर्नाऽस्ति गुरोरुच्छिष्टभोजनेऽपि ।
१४ बौ० गृ०
[ प्रायश्चित्तम्
बौधायन-धर्मसूत्रम्
१६२ ]
गुरुराचार्योऽभिप्रेतः। यदि व्याधेरपगमनं चेत् विरुद्धभोजने भवति, तत आचार्योच्छिष्टं भक्षयेत् । नोपभोगार्थं तृप्त्यर्थं वा । सर्वं मधुमांसादि प्रतिषेध-माचार्योनेनापोत्यर्थः। अथ प्राशितेऽपि व्याधेरनपगमस्ततो निवत्तैत। व्याधीयीत १इङ्घाङ् इत्यस्य धातोर्व्याङ्पूर्वात् लिङात्मनेपदयक्सीयुडुगुणादौ कृते कर्मक-र्तरि २व्याधीयोतेति भवति ३व्याधिमान् भवतीत्यर्थः॥ २५ ॥
गुरोरुच्छिष्टसर्वप्राशनेऽपि रोगशमनस्याऽसम्भवे तु—
येनेच्छेत्तेन चिकित्सेत ॥ २६ ॥
**अनु०—**औषधि के लिए किसी वस्तु का प्रयोग ब्रह्मचारी कर सकता है ॥ २६ ॥
**टि०—**अर्थात् लशुन इत्यादि वे वस्तुएं भी जो गुरु के लिए निषिद्ध हैं प्रयोग में लाई जा सकती हैं।
गुरोरपि यत्प्रतिषिद्धं लशुनगृञ्जनादि तेनाऽपि चिकित्सा कार्येत्यभिप्रायः। 'सर्वत एवाऽऽत्मानं गोपायेत्' इति स्मृतेः ॥ २६ ॥
स यदा गदी स्यात्तदुत्थायाऽऽदित्यमुपतिष्ठते “हंसश्शुचिष”दित्येतया ॥ २७ ॥
**अनु०—**रोगी होने पर ब्रह्मचारी उठकर 'हंसश्शुचिषद' इत्यादि मन्त्र से सूर्य की प्रार्थना करे ॥ २७ ॥
**टि०—**यह प्रायश्चित्त उस ब्रह्मचारी के लिए है जो रोगी होने के कारण सन्ध्या वन्दन तथा अन्य प्रकार की पूजा अर्चना न कर सकता हो। ब्रह्मचारी के अतिरिक्त दूसरों के लिए भी यह प्रायश्चित्त का नियम समझना चाहिए।
गदी व्याधितः। ब्रह्मचारिणो व्याधितस्य सन्ध्योपासनादिनियमानुष्ठाना-शक्तौ प्रायश्चित्तमेतत्। इतरेषां चैतदेषाऽविरोधिस्वात् ॥ २७ ॥
तत्र गृहस्थस्येदम्—
दिवा रेतस्सिक्त्वा त्रिरपो हृदयङ्गमाः पिबेद्रेतस्याभिः ॥ २८ ॥
**अनु०—**दिन में वीर्यपात करने पर 'रेतस्' शब्द से युक्त मन्त्रों का उच्चारण करते हुए तीन बार हृदय तक पहुँचने वाले जल का पान करे ॥ २८ ॥
१. इण् गतावित्यस्य धातोरधिपूर्वं इति, क, घ. पु.
२. इदमशुद्धं प्रतिभाति।
३. व्याधिमनुभवति इति घ. पु.
प्रथमः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १६३
प्रथमः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १६३
टि०—यह प्रायश्चित्त नियम दिन में स्वपत्नी संभोग के सन्दर्भ में ही है। सामान्यतः धर्मशास्त्र ने दिन में संभोग का निषेध किया है। 'रेतस्' शब्द से युक्त ऋचाएं 'पुनर्मामैत्विन्द्रियम्' तैत्तिरीय आरण्यक १.३० में आती हैं।
"पुनर्मामैत्विन्द्रियम् । पुनरायुः पुनर्भर्गः । पुनर्ब्राह्मणमैतु मा । पुनर्द्रविणमैतु मा । यन्मेऽद्य रेतः पृथिवीमस्कान् । यदोषधीरप्यसरद्यदापः । इदं तत् पुनराददे । दीर्घायुत्वाय वर्चसे । यन्मे रेतः प्रसिच्यते । यन्मे आजायते पुनः । तेन माममृतं कृषि । तेन सुप्राजसं कृषि ।" .
स्वभार्यायामेवैतत्प्रायश्चित्तम् । रेतस्या ऋचः रेतश्शब्दवत्यः ताश्च "पुनर्मामैत्विन्द्रियम्' इत्यनुवाकः। तासु च ^२भूम्ना शब्दप्रवृत्तिः। 'सृष्टीरुपदधाति' इतिवत् । दिवागमनप्रतिषेधः परिभाषायां द्रष्टव्यः 'परस्त्रीषु च दिवा च यावज्जीवम्' इत्यत्र ॥ २८ ॥
^३यो ब्रह्मचारी स्त्रियमुपेयात्सोऽवकीर्णी ॥ २९ ॥
अनु०—जो ब्रह्मचारी किसी स्त्री से मैथुन करता है, वह अवकीर्णी कहलाता है ॥२९॥
संज्ञाकरणं व्यवहारार्थम् । तस्य च प्रयोजनम्—'सप्तरात्रं कृत्वैतदवकीर्णि-व्रतं चरेत्' । 'प्राणाग्निहोत्रलोपेनाऽवकीर्णी' इति च ॥ २९ ॥
स गर्दभं पशुमालभेत ॥ ३० ॥
अनु०—अवकीर्णी गर्दभ पशु की बलि दे ॥ ३० ॥
पशुग्रहणं सकलविषयेतिकर्तव्यताप्राप्त्यर्थम् । अन्यथा हि तदनर्थकं स्यात्।
१. पुनर्मामैत्विन्द्रियम् । पुनरायुः पुनर्भर्गः । पुनर्ब्राह्मणमैतु मा। पुनर्द्रविणमैतु मा । यन्मेऽद्य रेतः पृथिवीमस्कान् । यदोषधीरप्यसरद्यदापः । इदं तत् पुनराददे । दीर्घायुत्वाय वर्चसे ॥ यन्मे रेतः प्रसिच्यते । यन्म आजायते पुनः । तेन माममृतं कृषि । तेन सुप्रजसं कृषि ॥ इति समग्रोऽनुवाकः ।।
२. अत्र तिस्र ऋचः—पुनर्मामिति प्रथमा । यन्मेऽद्य रेतः इति द्वितीया । यन्मे रेतः इति तृतीया । तत्र प्रथमायां रेतश्शब्दो नाऽस्ति । द्वितीयातृतीययोरेवाऽस्ति । तथाऽपि, तिसृषु मध्ये द्वयोस्सत्त्वात् बाहुल्यात् तिसृणामपि रेतस्यापदेन व्यवहारः । यथा एकयाऽस्तुवत प्रजा असृज्यन्त इत्याद्यास्सप्तदश मन्त्राश्चयनप्रकरणे पठिताः । तत्र चतुर्दश मन्त्राः सृष्टिवाचकसृजधातुघटिताः । त्रयो न तद्घटिताः । तथाऽपि बाहुल्यात् सृष्टिपदेन व्यवहारः एवमिहाऽपीति ।
३. cf. आप. श्रौ. ९. १५. १-४ and also आप ध. १. २६. ८
१६४ बौधायन-धर्मसूत्रम् [ प्रायश्चित्तम्
तत्रैता देवताः—
नैर्ऋतः पशुः पुरोडाशश्च रक्षोदैवतो यमदैवतो वा ॥ ३१ ॥
**अनु०—**पशु के मांस का पुरोडाश निर्ऋति के लिए, रक्षोदेवता के लिए या यम देवता के लिये होता है ॥ ३१ ॥
पुरोडाशदेवताभिधानं 'यद्देवत्यः पशुस्तद्देवत्यः पुरोडाशः' इति परिभाषासिद्धस्याऽनुवादः । निर्ऋतिरक्षोयमानां च विकल्पः । पुराडाशे वोत्तरयोः ॥ ३१ ॥
शिश्नात्प्राशित्रमप्स्ववदानैश्चरन्तीति विज्ञायते ॥ ३२ ॥
**अनु०—**प्रायश्चित्त करने वाले के भक्षण के लिए प्राशित्र पशु (गर्दभ) के शिश्न से ग्रहण किया जाता है तथा अन्य अवयवों को जल में अर्पित किया जाता है ॥ ३२ ॥
'सान्नाय्यविकारस्याऽपि पशोः प्राशित्रवचनाच्च शिश्नावयवादवदातव्यम् । हृदयाद्यवयवमप्सु प्रचरितव्यम् । अन्यत् लौकिकेऽग्नौ कर्त्तव्यम् ॥ ३२ ॥
अपि वाऽमावास्यायां निश्यग्निमुपसमाधाय दार्विहोमिकीं परिचेष्टां कृत्वा द्वे आज्याहुती जुहोति "कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा । कामाभिद्रुग्धोऽस्म्यभिद्रुग्धोस्मि कामकामाय स्वाहे"ति ॥ ३३ ॥
**अनु०—**अथवा प्रमावस्या की रात्रि में अग्नि का उपसमाधान कर तथा दर्विहोम की प्रारम्भिक क्रियाएं भाज्य संस्कार इत्यादि अनुष्ठित कर "कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा ।" तथा "कामाभिद्रुग्धोऽस्म्यभिद्रुग्धोऽस्मि कामकामाय स्वाहा" मन्त्रों से दो आज्य आहुतियां प्रदान करें ॥ ३३ ॥
१. अयं भावः—दर्शपूर्णमासयोस्सन्ति षट् यागाः । तत्र पौर्णमास्यां आग्नेय । उपांशुयाजः, अग्नीषोमीयश्चेति । अमावास्यायां आग्नेयः, ऐन्द्रदधियागः, ऐन्द्रपयोयागश्चेति । तत्र दधिपयोयागद्वयं सान्नाय्यमित्युच्यते । तदेव पशुयागस्य प्रकृतिभूतम् । इदं च "सान्नाय्यं वा तत्प्रभवत्वात्" इत्यष्टमे जैमिनिना निर्णीतम् । सान्नाय्ये च प्राशित्रावदानं नाऽस्ति । पुरोडाशयाग एव तत् विहितम्—"आग्नेस्य मस्तकं विहृत्य" इत्यादिना । एवञ्च पशुयागस्य प्रकृतिभूते सान्नाय्ययागे प्राशित्राभावेन ततः अतिदेशेन प्राप्त्यभावेऽपि अत्रैव विशिष्य विधानात् तत् कर्त्तव्यमिति । तच्चात्र गर्दभपशोः शिश्नादवदातव्यमिति च ।
प्रथमः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १६५
परिचेष्टा आज्यसंस्कारादिना । आग्निहोत्रिकप्रयोग इत्यन्ये । पूर्वस्याऽसम्भव एतत्प्रायश्चित्तम्। यद्वा-स्वपरप्रेरणसकृदसकृच्छक्तिकसदसद्भाववर्गव्रतोत्सर्गाद्यपेक्षया द्रष्टव्यम् । अत्र स्मृत्यन्तरोक्तम् ‘तस्याऽजिनमूर्ध्ववालं परिधाय लोहितपात्रस्सप्त गृहान् भैक्षं चरेत् कर्माऽऽचक्षाणः संवत्सरम्’ इत्यादि द्रष्टव्यम् ॥३३॥
हुत्वा प्रयताञ्जलिः क्वातिर्यङ्ङग्निमुपतिष्ठेत—“सं मा सिञ्चन्तु मरुतस्समिन्द्रस्सं बृहस्पतिः । सं माऽयमग्निरिसञ्चन्त्वायुषा च बलेन चाऽऽयुष्मन्तं करोतु मे”ति ॥ ३४ ॥
**अनु०—**हवन करने के बाद अञ्जलि बांध कर अग्नि से थोड़ा किनारे मुड़कर इस मन्त्र से प्रार्थना करे—“सं मा सिञ्चन्तु मरुतस्समिन्द्रस्सं बृहस्पतिः । सं माऽयमग्निरिसञ्चन्त्वायुषा च बलेन चाऽऽयुष्मन्तं करोतु मे” ( मरुत्, इन्द्र, बृहस्पति और यह अग्नि मुझे दीर्घ जीवन एवं शक्ति प्रदान करें यह अग्नि मुझको आयुष्मान् बनावे ) ॥३४॥
हुत्वेत्युत्तरत्र निवृत्त्यर्थम् । प्रयताञ्जलिः शुद्धाञ्जलिः। अञ्जलिश्च द्विहस्तसंयोगः । क्वातिर्यङ् नाऽत्यन्ताग्न्यभिमुखता नाऽत्यन्तपराङ्मुखता । तद्विधानं नित्याग्न्युपस्थाने “क्वातिर्यङ्ङिवोपतिष्ठेत नैनं प्रत्यङ्न पराङ्’ इति ॥३४॥
अथ महापातकदेव विप्लावकादयश्च ज्ञातिभिः कथं त्याज्याः ? कथं वा संग्राह्या इति ? तत्राऽऽह—
अथ यस्य ज्ञातयः परिषद्युदपात्रं निनयेयुरसावहमित्थंभूत इति । चरित्वाऽधः पयो घृतं मधु लवणमित्यारब्धवन्तं ब्राह्मणा ब्रूयुश्चरितं त्वयेति ॥ ३५ ॥
अनु०—(महापातक आदि के दोषियोँ के परित्याग की विधि इस प्रकार है ) उस व्यक्ति के बन्धु-बान्धव एकत्र होकर उसके लिए जलपात्र खाली करें और वह भी उस सभा में अमुक नाम के मैंने यह दुष्कर्म किया है । उसके प्रायश्चित्त कर लेने पर जल, दूध, घृत, मधु और नमक का स्पर्श कर लेने पर उसे ब्राह्मण इस प्रकार कहे ‘क्या तुमने प्रायश्चित्त कर लिया है’ ॥ ३५ ॥
उदपात्रनिनयनेन स्मृत्यन्तरप्रसिद्धस्याऽङ्गस्य विधिरुक्तः । सोऽयं प्रदर्श्यते —विप्राणां गुरूणां ज्ञातीनां च परिषदि सन्निधौ किं कृतवानसीति पृष्टे असा-
१. शुद्धबद्धाञ्जलिरिति. क. घ. पु.
| १६६ | बौधायन-धर्मसूत्रम् | [ प्रायश्चित्तम् |
|---|
वहमित्थम्भूत इति प्रतिब्रूयात् । इत्थम्भूत 'इदं पापं कृतवानस्मीति। एवं तं सम्भाष्य उदपात्रं निनयेयुरिति सम्बन्धः। अवस्करादमेध्यपात्रमपां पूर्णमानीय दासेन कर्मकरेण वा विप्रा नाययेयुः। स यद्येवं कृते चीर्णव्रतः अचरमहं प्रायश्चित्तमिति ब्रूयात्। तमबादिपञ्चतयमारब्धवन्तं स्पृष्टवन्तं ब्राह्मणा ब्रूयुः पृच्छेयुः—चरितं त्वया यथाविधि प्रायश्चित्तमिति ॥ ३५ ॥
ओमितीतरः प्रत्याह ॥ ३६ ॥
अनु०—दूसरा व्यक्ति (अर्थात प्रायश्चित्त करने वाला) ओम्, (हाँ, मैंने यथाविधि प्रायश्चित्त कर लिया है) उत्तर दे ॥ ३६ ॥
अभ्यनुज्ञावचनमेतत्। एवं तस्मिन् विच्छन्दना ? ॥ ३६ ॥
चरितनिर्वेर्शं सवनीयं कुर्युः ॥ ३७ ॥
अनु०—जिस व्यक्ति ने यथाविधि प्रायश्चित्त कर लिया है उसको सभी प्रकार के यज्ञकर्मों में भाग लेने का अधिकारी समझना चाहिए ॥ ३७ ॥
चरितनिर्वेर्शं चरितप्रायश्चित्तं सवनीयं सवनयोग्यं सवनशब्देन क्रतुरभिप्रतः। तेन याज्ययाजकभावमापादयेयुरित्यर्थः। यद्वा—सूतेः प्राणिप्रसवकर्मणस्सवनं तत्र भवं सवनीयं जातकर्मादि तस्य कुर्युरीति यावत्। तथा च वसिष्ठः—'प्रत्युद्धारः पुत्रजन्मना व्याख्यातः' इति। तदेतत् सपितृत्यागप्रत्युद्धारसम्बन्धं गौतमीये 'त्यजेत्पितरम्' इत्यस्मिन्नध्याये विवृतम्। तदपि प्रतीक्ष्यम् ॥ ३७ ॥
सगोत्रां चेदमत्योपयच्छेन्मातृवदेनां बिभृयात्। प्रजाता चेत्कृच्छ्राब्दपादं चरित्वा यन्म आत्मनो मिन्दाऽभूत्पुनरग्निश्चक्षुरदादित्येताभ्यां जुहुयात् ॥ ३८ ॥
अनु०—यदि अनजाने ही अपने गोत्र की कन्या से विवाह कर लिया हो तो उसे माता के समान समझते हुए उसका भरण-पोषण करे यदि इस प्रकार की स्त्री से पुत्र उत्पन्न कर चुका हो तो तीन मास तक कृच्छ्रव्रत का आचरण कर 'यन्म आत्मनो मिन्दाऽभूत् पुनः' 'अग्निः चक्षुरदादित्य' आदि दो मन्त्रों से आहुति करे ॥ ३७ ॥
अप्रजाता चेच्चान्द्रायणम्। तच्च महाप्रवरेषु स्वयमेवोक्तम्—सर्वेषां 'सगोत्रां गत्वा चान्द्रायणं कुर्यात्। व्रते परिनिष्ठिते ब्राह्मणीं न संत्यजेन्मातृवच्च'
१. इत्थम्भूतमिदमिति क. घ. पु.
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १६७
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १६७
गिनीवत्' इति । बिभृयादिति शेषः । स्वयमेव ब्रवीति—'गर्भो न दुष्यति कश्यप इति विज्ञायते' इति । मिन्दाहुती पुनः सर्वत्राऽविशिष्टे । अनिर्दिष्टद्रव्यकत्वादाज्यद्रव्यं प्रतीयात् ॥ ३८ ॥
( परिवित्तः परिवेत्ता या चैनं परिविन्दति ।
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ) ॥
परिवित्तः परिवेत्ता दाता यश्चाऽपि याजकः ।
कृच्छ्रद्वादशरात्रेण स्त्री त्रिरात्रेण शुद्ध्यतीति ॥ ३९ ॥
इति बौधायनीयधर्मसूत्रे द्वितीयप्रश्ने प्रथमः खण्डः ॥ १ ॥
**अनु०—**वह ज्येष्ठ भ्राता, जिसके अविवाहित रहते हुए ही छोटे भाई ने विवाह कर लिया हो, ज्येष्ठ भ्राता के अविवाहित रहते हुए विवाह करने वाला, इस प्रकार विवाह करने वाले से विवाहित स्त्री, उस कन्या का विवाह के लिए दान करने वाला तथा इस प्रकार का विवाह कराने वाला पुरोहित ये सभी पाँच नरक जाते हैं। वह ज्येष्ठ भ्राता, जिसके अविवाहित रहते हुए ही छोटे भाई ने विवाह कर लिया है, बड़े भाई के विवाह से पहले ही विवाहित छोटा भाई, विवाह के लिए कन्यादान देने वाला, विवाह संस्कार संपन्न कराने वाला पुरोहित बारह दिन का कृच्छ्रव्रत करने पर शुद्ध होते हैं और जिस स्त्री का इस प्रकार विवाह हुआ हो वह तीन दिन उपवास करने पर शुद्ध होती है ॥३९॥
अकृतदाराग्निहोत्रसंयोगे अग्रजे तिष्ठति यः कनीयान् दारसंयोगमग्निहोत्रसंयोगं वा करोति स परिवेत्ता । इतरः परिवित्तः । परिवेत्तर्य्यः कन्यां प्रयच्छति स दाता । तमेव यो याजयति स याजकः । एतेषां चतुर्णां कृच्छ्रेण शुद्धिः । ययाऽसौ परिवेत्ताऽभूत् ^२तस्याः त्रिरात्रोपवासेन शुद्धिः ॥ ३९ ॥
द्वितीयः खण्डः
अथ पतनीयानि ॥ १ ॥
**अनु०—**अब पतनीय कर्मों का विवेचन किया जायगा, (जिनसे पतन या वर्ण की हानि होती है)
वक्ष्याम इति वाक्यसमाप्तिः । पतनीयानि पतनाहार्णि कर्माणि महापातकेभ्य ईषन्न्यूनानि ॥ १ ॥
१. कुण्डलान्तर्गतो भागो ग. पुस्तके नाऽस्ति ।
२. सा स्त्री त्रिसत्रेण शुध्यति घ. पु. ।