भारतकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

१०८ | बौधायन-धर्मसूत्रम् | [ द्रव्यशुद्धि

**अनु०—**उदाहरण के लिए निम्नलिखित अवसरों पर कुश और जल से धोने से ही शुद्धि बतायी गयी है। अग्निहोत्र में घर्मोच्छिष्ट, दधिघर्म, कुण्डपायिनायन, उत्सगिणामयन, दाक्षायणयज्ञ, ऐडादध, चतुश्चक्र, ब्रह्मौदन ॥ ३० ॥

**टि०—**अग्निहोत्र में आहुति के बाद हवणी से ही शेष हवि का भक्षण किया जाता है। सोमयज्ञ में दधिघर्म का भक्षण होता है। कुण्डपायिनामयन नामका वर्ष भर का विशेष सत्र होता है उसमें ऋत्विज चमस से ही भक्षण करते हैं। उत्सर्गिणामयन भी एक विशेष सत्र है इसमें पात्र से ही सान्नाय्य अन्न का भक्षण होता है। दाक्षायणयज्ञ दर्शपूर्णमास का ही एक रूप है। उसमें भी सान्नाय्य अन्न का भक्षण होता है। ऐडादध चतुश्चक्र विशेष प्रकार की इष्टियाँ तथा दर्शपूर्णमास के ही रूप हैं इनमें भी सान्नाय्य का भक्षण होता है। इस प्रकार के भक्षण के बाद चमस या यज्ञपात्र की शुद्धि कुश और जल द्वारा प्रक्षालन करने से हो जाती है। बोधायन श्रौत सूत्र, तथा आश्वलायन श्रौतसूत्र में ये विशिष्ट यज्ञ तथा इष्टियाँ वर्णित हैं।

शौचमित्यनुवर्तते । चतुश्चक्रो नाम 'इष्टकोष्ठमध्ये वसन्ते यजन्ते । तथैडादधः । अन्यत् प्रसिद्धम् । यथैतदिति निपातावुदाहरणसूचनार्थौ । तेषु कर्मस्वग्निहोत्रहवण्यादीनामुच्छिष्टसमन्वारब्धे शेषोपघाते च दर्भैरद्भिः प्रक्षालनमेव शौचं नावलेखनादि । ब्रह्मौदनेष्विति बहुवचनमाश्वमेधिकानामुपसङ्ग्रहणार्थम् । तत्र यद्यपि ब्रह्मौदनभोजनपात्रस्य सकृद्भोजने कृते पुनः क्रतौ नोपयोगः । तथाऽपि दर्भैरद्भिः प्रक्षालनं शौचम्, नेतरत्, अद्भिः प्रक्षालनमेवेत्यभिप्रायः ॥ ३० ॥

किञ्च—

सर्वेष्वेव सोमभक्षेष्वद्भिरेव मार्जालीये प्रक्षालनम् ॥ ३१ ॥

**अनु०—**सभी सोमयज्ञों में चमस आदि का मार्जालीय पर जल से ही प्रक्षालन करना चाहिए ॥ ३१ ॥

ग्रहचमससोमभक्षेषु 'मार्जालीयेऽद्भिः प्रक्षालनं न दर्भैरिति ॥ ३१ ॥

तेषामेव—

मूत्रपुरीषलोहितरेतःप्रभृत्युत्सर्गः ॥ ३२ ॥

इति बौधायनधर्मसूत्रे प्रथमप्रश्ने त्रयोदशः खण्डः ॥ १३ ॥


दिना दर्शिता तत एवाऽवगन्तव्या । अस्यैव च वसिष्ठयज्ञः, केशयज्ञः, सार्वंसेनियज्ञः इत्यपि संज्ञान्तराणि ॥ (बौ. श्रौ. १७.५४.)

१. मार्जालीयो नाम सौमिकवेदेर्दक्षिणभागेऽवस्थितः स्थानविशेषः ॥

चतुर्दशः खण्डः ] प्रथमप्रश्ने षष्ठोऽध्यायः १०९

अनु०--मूत्र, मल, रक्त, रेतस् आदि से दूषित होने पर इन चमसों या यज्ञ पात्रों का त्याग कर देना चाहिए ॥ ३२ ॥

उपहतानामित्यध्याहारः। प्रभृतीत्यनेन श्लेष्मादिसङ्ग्रहः। ननु ग्रहचमसानामध्येवंभूतानां जुह्वादिबदुत्सर्गे प्राप्ते किमर्थं प्रयत्नः ? उच्यते—'यथाहि-सोमसंयोगाच्चमसो मध्ये उच्यते' इति दृष्टान्तबलात्। ग्रहचमसानां मूत्रादिसंसर्गेऽपि सोमसंयोग एव शुद्धिकारणमित्याशङ्कानिराकरणार्थो यत्नः ॥ ३२ ॥


प्रथमप्रश्ने चतुर्दशः खण्डः

मृन्मयानां पात्राणाम् ॥

मृन्मयानां पात्राणामुच्छिष्टसमन्वारब्धानामवकूलनम् ॥ १ ॥

अनु०—अपवित्र व्यक्तियों के स्पर्श से अशुद्ध हुए, मिट्टी के पात्रों को कुश की अग्नि में दिखाना चाहिए ॥ १ ॥

आज्यस्थाल्यादीनामुच्छिष्टसमन्वारब्धानां अवकूलनं कुशाग्निना स्पर्शः ॥ १ ॥

उच्छिष्टलेपोपहतानां पुनर्द्दहनम् ॥ २ ॥
मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानामुत्सर्गः ॥ ३ ॥

अनु०—उच्छिष्ट के लेप से युक्त पात्रों को पुनः जलाना चाहिए ॥ २ ॥
अनु०—मूत्र, पुरीष, रक्त, रेतस् आदि से दूषित हुए मिट्टी के पात्रों को फेंक दे ॥ ३ ॥

अतिरोहितमेव ॥ २-३ ॥

तैजसानां पात्राणां पूर्ववत्परिमृष्टानां प्रक्षालनम् ॥ ४ ॥
परिमार्जनद्रव्याणि गोशकृन्मृद्भस्मेति ॥ ५ ॥

अनु०—धातु के बने पात्रों के अपवित्र व्यक्तियों द्वारा छुए जाने पर रगड़ कर धोये ॥ ४ ॥

अनु०—उसको रगड़ने में प्रयुक्त की जाने वाली वस्तुएँ हैं : गाय का गोबर, मिट्टी और भस्म आदि ॥ ५ ॥

तैजसानां हिरण्मयादीनां उच्छिष्टसमन्वारब्धानां गोशकृन्मृद्भस्मभिः परिमृज्य प्रक्षालनम् ॥ ४-५ ॥

मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानां पुनः करणम् ॥ ६ ॥

११०बौधायन-धर्मसूत्रम्[ द्रव्यशुद्धिः

**अनु०—**मूत्र, मल, रक्त, रेतस् आदि से दूषित हुए धातु के बर्तनों का फिर से ढालने या बनाने पर उनकी शुद्धि होती है ॥ ६ ॥
रुक्महिरण्मयादीनां मूत्राद्युपहतानामेतत् ॥ ६ ॥

गोमूत्रे वा सप्तरात्रं परिशायनम् ॥ ७ ॥
**अनु०—**अथवा उसे सात दिन-रात गाय के मूत्र में डुबो देना चाहिए ॥ ७ ॥
अगूढार्थमिदम् ॥ ७ ॥
अस्मिन्नेव विषये—

महानद्यां चैवम् ॥ ८ ॥
**अनु०—**अथवा एक बड़ी नदी में इसी प्रकार सात दिन-रात तक डाल देना चाहिए ॥ ८ ॥
सप्तरात्रं परिशायनमित्येव । याः स्वनाम्नैव समुद्रं गच्छन्ति ता महानद्यः । 'एते विकल्पाः सन्निकर्षविप्रकर्षापेक्षया व्यवस्थाप्याः ॥ ८ ॥

एवमश्ममयानाम् ॥ ९ ॥
**अनु०—**इसी प्रकार पत्थर के पात्रों को ( जल में डालना चाहिए ) ॥ ९ ॥
**टि०—**ब्यूहलेर ने इस सूत्र को अगले सूत्र के साथ ग्रहण कर गोवाल से घर्षण से ही शुद्धि बता दिया है। इसे अलग पढ़ने पर पूर्ववर्ती सूत्र का नियम ही अनुवर्तित होगा ।
दृषदादिष्वश्ममयेषु परिशायनं द्वितीयम् । एवमिति निर्देशेन पुनः करणमपि । यद्वा—मृन्मयशौचस्यैतदनुकर्षणम् ॥ ९ ॥

अधुना यज्ञभाजनानां फलादीनां शुद्धिः—
अलाबुबिल्वविनालानां गोवालैः परिमार्जनम् ॥ १० ॥
**अनु०—**लौकी, बिल्व, बांस के विनाल नामक पात्रों के दूषित होने पर उनको गाय के केशों के गुच्छे से रगड़ना चाहिए ॥ १० ॥
अलाबुः स्रुचां भाजनम् । बिल्वं यवमतीषु प्रोक्षणीषु यूपावटादिषु चोपयोक्तव्यानां यवानाम् । विनालं वेणुविदलमयादिकं दीर्घभाजनमुच्यते । तच्च प्रणीताप्रणयनादीनाम् । उच्छिष्टसमन्वारब्धानां चैतत् ॥ १० ॥

नलवेणुशरकुशव्यूतानां गोमयेनाऽद्भिरिति प्रक्षालनम् ॥ ११ ॥


१. एतत्स्थाने, कालः रुक्मादीनामुपयोगः कालसन्निकर्षविप्रकर्षापेक्षया व्यवस्थाप्या इति पाठो. गः पु.

चतुर्दशः खण्डः ] प्रथमप्रश्ने षष्ठोऽध्यायः १११

अनु०—नरकुल, बांस शर और कुश से बुनकर बनाये गये उपकरणों को गाय के गोबर, जल आदि से धोना चाहिए ॥ ११ ॥

टि०—गोविन्द के अनुसार इन उपकरणों के उच्छिष्ट से दूषित होने पर ही प्रक्षालन नियम है । ‘इति’ शब्द से गोमूत्र का भी ग्रहण उन्हों ने माना है ।

इदं पुनरुच्छिष्टलेपोपहतानाम् । नलशब्दो वेत्रे भाष्यते । शेषाः प्रसिद्धाः । एतैः व्यूता ओतप्रोतभावेन समं तता इतिशब्दस्तु गोमूत्रोपलक्षणार्थः ॥ ११ ॥

अथ प्रदेयद्रव्येषु—

व्रीहीणामुपघाते प्रक्षाल्याऽवशोषणम् ॥ १२ ॥

अनु०—बिना कूटे हुए धान के दूषित हो जाने पर उसे धोकर सुखाना चाहिए ॥ १२ ॥

टि०—गोविन्द के अनुसार यह नियम चण्डाल आदि के स्पर्श से एक द्रोण से अल्प धान के दूषित होने पर समझना चाहिए । धान की मात्रा अधिक होने पर केवल जल छिड़क देना पर्याप्त होता है ।

सतुषोपलक्षणमेतत् । उपघातश्चण्डालादिस्पर्शः द्रोणादल्पतरस्येदमुक्तम् । बहूनां तु प्रोक्षणं तथाविधानामेव ॥ १२ ॥

तण्डुलानामुत्सर्गः ॥ १३ ॥

अनु०—(मूत्रादि से दूषित ) चावल को फेंक देना चाहिए ॥ १३ ॥

टि०—अधिक मात्रा हो तो जितना दूषित हुआ हो उतना निकाल कर फेंकने नियम समझना चाहिए ।

मूत्राद्युपहतानामल्पानामिति शेषः । बहूनां तावन्मात्रत्याग इति ( १. १५ १५) वक्ष्यति ॥ १३ ॥

एवं सिद्धहविषाम् ॥ १४ ॥

अनु०—इसी प्रकार तैयार हवि के दूषित होने पर भी उसका त्याग कर देना चाहिए ॥ १४ ॥

एवं चरुपुरोडाशादीनामुपघाते त्याग एवाऽर्थः । स एव च हविर्दोषो भवति ॥ १४ ॥

महतां श्वायसप्रभृत्युपहतानां तं देशं पुरुषाभमुद्धृत्य “पवमा


१. “पवमानस्सुवर्जनः पवित्रेण विचर्षणिः” इत्यादिः “जातवेदा मोर्जंयन्त्या पुनातु” इत्यन्तोऽनुवाकः तैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थप्रपाठकेऽष्टमो द्रष्टव्यः ।

११२ | बौधायन-धर्मसूत्रम् | [ द्रव्यशुद्धिः

नस्सुवर्जन” इत्येतेनाऽनुवाकेनाऽभ्युक्षणम् ॥ १५ ॥

**अन०—**अधिक मात्रा में कुत्ता, कौआ आदि द्वारा दूषित होने पर उस स्थान से पुरुष के लिये अन्न निकाल कर फेंक दे और शेष पर 'पवमानस्सुवर्जन' (तैत्तिरीय ब्रा० १. ४.८) आद अनुवाक का उच्चारण करते हुए जल छिड़के ॥ १५ ॥

टि०—'पवमानस्सुवर्जनः पवित्रेण विचर्षणिः' से 'जातवेदा मोर्जंयन्त्या पुनातु' अनुवाक है ।

अवशिष्टानामिति शेषः । प्रभृतिशब्दः पतितादिसंग्रहार्थः ॥ १५ ॥

मधूदके पयोविकारे पात्रात् पात्रान्तरानयने शौचम् ॥ १६ ॥

अनु०—(दधि, मधु, घृत, जल, धाना या लावा) से निर्मित मधूदक, दूध के बने आमिक्षा आदि अशुद्ध व्यक्ति द्वारा छुए जाने पर एक पात्र से दूसरे पात्र में रख देने पर शुद्ध हो जाते हैं ॥ १६ ॥

'‘दधि मधु घृतमापो धानाः’ इत्यत्र मधूदके । पयोविकारः आमिक्षा । एतेषां पुरुषदोषमात्रदुष्टानाम् । तच्चोच्छिष्टस्पर्शमात्रम् । अत्र तु विकारग्रहणात् पयसश्शौचान्तरं कल्प्यम् ॥ १६ ॥

तैलमपि प्रतिनिधित्वेन यज्ञेषु प्राप्तम् । यद्वा—

एवं तैलसर्पिषी उच्छिष्टसमन्वारब्धे उदकेऽवधायोपयोजयेत् ॥ १७ ॥

**अनु०—**इसी प्रकार अशुद्ध व्यक्ति द्वारा छुए गये तेल और घृत को जल में रख कर तब काम में लाना चाहिये ॥ १७ ॥

'तैलं दधि पयस्सोमो यवागूरोदनं घृतम् ।
तण्डुळा मांसमापश्च दशद्रव्याण्यकामतः ॥
इत्यभियुक्तापदेशान्मुख्य एवेति ।
पात्रान्तरानयनमिति निर्दिश्यते । उदकेऽवधानं विशेषः । स च तैलसर्पिषोर्यथाऽऽत्मविनाशो भवति तथा कार्यः ॥ १७ ॥

अथाऽग्नीनां शौचमाह—

अमेध्याभ्याधाने समारोप्याऽग्निं मथित्वा पवमानेष्टिं कुर्यात् ॥१८॥

**अनु०—**अग्नि में मूत्र, पुरीष आदि अमेध्य के पड़ जाने से अरणियों से अग्नि मन्थन कर अग्नि उत्पन्न करे और पवमान इष्टि करे ॥ १८ ॥


१. चिनेष्टिद्रव्यमिदम् ।

पञ्चदशः खण्डः ] प्रथमप्रश्ने सप्तमोऽध्यायः ११३

अमेध्यं मूत्रपुरीषादि तस्याऽग्निषु प्रक्षेपोऽभ्याधानम् । तस्मिन् सति अर- ण्योस्समारोप्य मथित्वाऽग्नीन् विहृत्य पवमानेष्टौ कृतायां तावद्दोषः परि- हृतो भवति । एकाग्नौ चैतद्द्रष्टव्यम् । तत्र च पुरोडाशस्थाने चरु- र्भवेत् ॥ १८ ॥

अथ यज्ञाङ्गानां प्राबल्यदौर्बल्यविवेकायाऽऽह—

शौचदेशमन्त्रार्थद्रव्यसंस्कारकालभेदेषु पूर्वपूर्वप्राधान्यं पूर्वपूर्व- प्राधान्यम् ॥ १९ ॥

अनु०—शुद्धता, स्थान, मन्त्र, क्रिया का क्रम, वस्तु, द्रव्य, उसका संस्कार और काल— इनमें भेद होने पर पूर्व पूर्व वाला प्रधान माना जाता है ॥ १९ ॥

इति बौधायनधर्मसूत्रे प्रथमप्रश्ने चतुर्दशः खण्डः ॥ १४ ॥

एतेषु भेदेषु विरोधेषु पूर्वस्य पूर्वस्य प्राबल्यं परस्य दौर्बल्यं चार्थविप्रकर्षा- द्वेदितव्यम् । यथाऽग्निष्टोमे प्रागुदक्प्रवणो देशो मूत्रोपहतो लभ्यते अनेवं- भूतश्च गोभिराक्रान्तोऽग्निदग्धश्च विद्यते, तयोरन्यतरस्मिन्नेव प्राचीनवंशादौ कर्तव्ये दक्षिणाप्रत्यक्प्रवणोऽपि गोभिराक्रान्तोऽग्निदग्धश्च कर्तव्यः । कस्मात् ? शौचप्राधान्यात् । तद्धि पूर्वेण सन्निकृष्टतरम् , अदुष्टत्वात् । प्रागुदक्प्रवणं पुनर्दुष्टत्वात् विप्रकृष्टम् । दिङ्मात्रमेतदुदाहरणे प्रदर्शितम् । एवं 'देशयोर्मन्त्रा- वृतोः' इत्यादि द्वन्द्वशो द्रष्टव्यम् । आवृत् प्रयोग^१प्राशुभावः ॥ ५० ॥

इति बौधायनधर्मसूत्रविवरणे गोविन्दस्वामिकृते प्रथमप्रश्ने षष्ठोऽध्यायः ॥ ६ ॥


सप्तमोऽध्यायः

पुनरपि ऋत्वर्थमेव किञ्चिदुच्यते—

^२उत्तरत उपचारो विहारः ॥ १ ॥

अनु०—जिस स्थान पर यज्ञ की अग्नि हो उस स्थान पर उत्तर की ओर से जाना चाहिए ॥ १ ॥

उपचारस्सञ्चारः ऋत्विग्यजमानानाम् । विहृता अग्नयो यस्मिन् देशे स विहारः, यस्य विहारस्योत्तरत उपचारो भवति स तथोक्तः । ऋत्विग्यजमाना उत्तरतोऽग्नीनां सञ्चरेयुरिति यावत् ॥ १ ॥


१. प्राशुभावः शैघ्रयम् ।
२. cf. आपस्तम्बयज्ञपरिभाषासूत्र सं. सू. १०.
११ बौ० ध०

११४ बौधायन-धर्मसूत्रम् [ कर्माऽऽरम्भविधिः

तथाऽपवर्गः ॥ २ ॥

**अनु०—**इसी प्रकार उत्तर की ओर वहाँ से निकलें ॥ २ ॥
अयमपि बहुव्रीहिरेव । उत्तरतो निर्गम इत्यर्थः ॥ २ ॥
तदपवदति—
विपरीतं पित्र्येषु ॥ ३ ॥

**अनु०—**पित्र्य कर्मों में इसके विपरीत (दक्षिण से जाने और निकलने का) नियम होता है ॥ ३ ॥
कर्मस्विति शेषः । उपचारापवर्गो दक्षिणतः कुर्यादित्युक्तं भवति ॥ ३ ॥
पादोपहतं प्रक्षालयेत् ॥ ४ ॥

**अनु०—**पैरों के स्पर्श से दूषित पात्रादि को धोवे ॥ ४ ॥
पात्रादि ॥ ४ ॥
अङ्गमुपस्पृश्य सिचं वाऽप उपस्पृशेत् ॥ ५ ॥

**अनु०—**शरीर के अङ्ग का अथवा वस्त्र के छोर का स्पर्श करने पर जल का स्पर्श करे ॥ ५ ॥
अङ्गं शरीरम्, सिक् परिहितं वासः अत्रोपस्पर्शः स्पर्शमात्रमेव नाऽऽचमनादि ॥ ५ ॥
एवं छेदनभेदनखनननिरसनपित्र्यराक्षसनेर्ऋतरौद्राभिचरणीयेषु ॥ ६ ॥

**अनु०—**इसी प्रकार यज्ञ में किसी वस्तु को काटने, तोड़ने, खोदने या हटाने के बाद, पितरों, राक्षसों, निऋर्ति, रुद्र को आहुति देने तथा आभिचारिक क्रिया करने के बाद जल का स्पर्श करे ॥ ६ ॥

एतेष्वपि कृतेषु अपामुपस्पर्शनमिति । छेदनं '“आच्छिनत्त्याच्छेत्ता ते मारिषमिति” इत्यादि । भेदनम्² 'तस्मिन् स्फ्येन प्रहरति इत्यादिष्वदृष्टसंस्का-


१. दर्शपूर्णमासयागयोस्तदुपयोगिबर्हिषां मध्ये प्रथमलवनीयस्य प्रस्तराख्यस्य मुष्टिविशेषस्य छेदनमनेन विधीयते । तत्र 'आच्छेत्ता ते मा रिषम्' इति मन्त्रः । 'आच्छिनत्ति' इति विधिः ।
२. दर्शपूर्णमासयोरेव वेदिनिर्माणव्यापारान्तर्गतोऽयं कश्चन व्यापारः । यत्र स्थाने वेदिनिर्मातुमभिष्यते ततः पश्चिमदेशे प्राङ्मुखस्तिष्ठन् अध्वर्युः स्फ्यं ( अरत्निमात्रः

पञ्चदशः खण्डः ] प्रथमप्रश्ने सप्तमोऽध्यायः ११५

रेषु खननं १‘तं स खनति वा खानयति वा’ इत्यादि । निरसनं २‘तृणं वा निर- स्यति’ इत्यादि । तत्र पुनर्वचनम्३निरूपितदशहोत्रा (?) यौगपद्यनिवृत्त्यर्थम् । पित्र्यं ४ ‘स्वधा पितृभ्य ऊर्ध्वम्’ इत्यादि । राक्षसं ५‘रक्षसां भागोऽसि’ इत्या- दि । नैर्ऋतं६ ‘नैर्ऋतेन पूर्वेण प्रचरति’ इत्यादि । रौद्रं ७‘मन्थिसंस्रावहो- मादि । अभिचरणीयानि८ ‘यं यजमानो द्वेष्टि’ इत्येवं चोदितानि ॥ ६ ॥


खङ्गाकारः खादिरवृक्षनिर्मितस्साधनविशेषः स्फ्य इत्युच्यते ) हस्तेनाऽऽदाय वेदि- स्थाने उदीचीनाग्रं कुशं निधाय तदुपरि स्फ्येन प्रहरणमनेन वाक्येन विधीयते । तद- त्र भेदनपदेनाऽभिप्रेतमन्यच्चैतादृशम् । ( बो. श. १.११ )

१. अग्नीषोमीयादिषु पशुयागेषु पशुबन्धनार्थमपेक्षितस्य यूपस्य निखननं कर्त- व्यम् । तदर्थमभिकांक्षितस्य गर्तस्य खननमनेन विधीयते । तमवटमध्वर्युः स्वयं वा खनेदग्नीध्रेणर्त्विजा वा खानयेत् इति सूत्रार्थः ॥ ( बो.श्रौ. ४.२. )

२. दर्शपूर्णमासयोः पुरोडाशार्थं शकटे आहृतानां व्रीहीणां यवानां वाऽऽवरजम- पादाय तत्रस्थस्य तृणादेर्धान्यशूकस्य वाऽपादानमनेन विधीयते । किंशारु धान्यशूकम् । ( बो.श्रौ. १.४. ). ३. अपिरोपित इति पाठो ग. पु.

४. दर्शपूर्णमासयोरेव वेदेरिष्माबर्हिषां च प्रोक्षणं विधाय प्रोक्षणशिष्टानाम्पां वेद्यामेव निनयनं विधीयते—‘‘अतिशिष्टाः प्रोक्षणीर्निनयति दक्षिणायै श्रोणेरोत्तरो- त्तरायै श्रोणेः स्वधा पितृभ्य ऊर्ध्वं बर्हिषद्भ्य ऊर्जा पृथिवीं गच्छतेति’’ । निनयनमिदं पित्र्यम् ॥ ( बो. श्रौ. १.२२. )

५. दर्शपूर्णमासयोरेव पुरोडाशार्थमवहतानां व्रीहीणां तुषान् तण्डुलेभ्यः पृथक्कृत्य तान् निरस्यति । तदेतत् विहितम्–इमां दिशं निरस्यति रक्षसां भागोऽसीति । तदिदं राक्षसम् । ( बो. श्रौ. १.६. ) ६. निर्ऋतियागो राजसूयादौ प्रसिद्धः ।

७. सोमयागे मन्थिग्रहो नाम कश्चन ग्रहः । तस्य प्रधानहोमानन्तरं आहव- नीयस्योत्तरार्धे एकदेशस्रावणरूपो होमो निहितः–अथ प्रतिप्रस्थातोत्तरार्ध आहवनी- यस्य मन्थिनस्संस्रावं जुहोत्ये‘‘ष ते रुद्र भागो यं निरयाचथास्तं जुषस्व विदेगौ- पत्यँ रायस्पोषँ सुवीर्यं संवत्सरीणां स्वस्तिँ स्वाहेति’’स रुद्रदेवताकत्वाद्राैद्रः । ( बो. ७.१४ )

८. सोमयागे सोमाधारभूत ( हविर्धान ; शकटस्थापनार्थं दक्षिणहविर्धानमण्डप- मध्ये चत्वारो गर्ताः क्रियन्ते । तत उद्धृतान पांसून् जनसञ्चाररहिते देशे क्षिपेत् । तत्काले यो यजमानस्य द्विषन् त मनसा ध्यायेदिति विहितम्—‘‘अप्रेतान् पांसूनक्षरे परावपत्यत्र यं यजमानो द्वेष्टि तं मनसा ध्यायति’’ इति ॥ ( बो. श्रौ. ६. २८. ) तदेतदभिचरणीयम् ।

११६ बौधायन-धर्मसूत्रम् · [ दीक्षितनियमाः

'न मन्त्रवता यज्ञाङ्गेनाऽऽत्मानमभिपरिहरेत् ॥ ७ ॥

**अनु०—**यज्ञ के किसी ऐसे उपकरण को, जिसका प्रयोग मन्त्रोच्चारण के साथ किया जाता हो, अपने को बीच में कर अग्नि से दूर न करे ॥ ७ ॥

**टि०—**उपर्युक्त अर्थ गोविन्द स्वामी की व्याख्या के आधार पर है। ब्यूहलेर ने 'अपने चारो ओर न घुमाए' ऐसा अर्थ किया है। किन्तु अगले सूत्र को देखने पर गोविन्द स्वामी का अर्थ संगत प्रतीत होता है।

मन्त्रवद्यज्ञाङ्गं स्रुक्स्रुवादि। तेनाऽऽत्मानं नाऽभिपरिहरेत् आत्मनो बहिर्न कुर्यादग्नेः पात्रस्य चान्तरतस्स्वयं न भवेदिति यावत् ॥ - ॥

तत्र कारणमाह—

अभ्यन्तराणि यज्ञाङ्गानि ॥ ८ ॥

**अनु०—**यज्ञ के उपकरण ( यज्ञ से ऋत्विक की अपेक्षा ) अधिक निकट रूप से संबद्ध होते हैं ॥ ८ ॥

ऋत्विगपेक्षयेति शेषः ॥ ८ ॥

^१बाह्या ऋत्विजः ॥ ९ ॥

**अनु०—**और ऋत्विज् ( यज्ञ के उपकरणों की अपेक्षा अधिक ) दूरवर्ती होते हैं ॥ ९ ॥

प्रयोगाङ्गत्वात् यज्ञाङ्गापेक्षयेति शेषः ॥ ९ ॥

पत्नीयजमानावृत्विग्भ्योऽन्तरतमौ ॥ १० ॥

**अनु०—**यजमान और उसकी पत्नी ( यज्ञ से ) ऋत्विक् की अपेक्षा अधिक निकटतया संबद्ध होते हैं ॥ १० ॥

फलप्रतिग्रहीतृत्वादनयोः । उदाहरणानि^२ वैसर्जनानि दाक्षिणानि च ॥ १० ॥

अथेदानीममनुष्येषु बाह्याभ्यन्तरमाह—

यज्ञाङ्गेभ्य आज्यमाज्याद्धवींषि हविर्भ्यः पशुः पशोस्सोमस्सोमादग्नयः ॥ ११ ॥


१. Compare these three Sutras with आपस्तम्बयज्ञपरिभाषासूत्र ( आप. श्रौ. २४.२.१३.१४. )
२. "गार्हपत्ये आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा शालामुखीये वैसर्जनानि जुहोति" इति विहितो होमो वैसर्जनहोमः।

पञ्चदशः खण्डः ] प्रथमप्रश्ने सप्तमोऽध्यायः ११७

अनु०—यज्ञ के उपकरणों के बाद आज्य, आज्य के बाद हवि, हवि के बाद पशु, पशु के बाद सोम और सोम के बाद यज्ञाग्नियां आती हैं ॥ ११ ॥

उत्तरवेद्यादिषु देशसङ्कटे उपस्थिते अग्नेरनन्तरं सोमस्साद्यते। तदनन्तरं मांसादि। तदनन्तरं धानाः पुरोडाशाः। तेभ्यश्चाऽऽज्यमनन्तरं स्रुवश्च स्रुक्च। ततो जुहूरिति। एवं तावत् चित्रतुरसन्निपाते च योज्यम् ॥ ११ ॥

यथा कर्मर्त्विजो न विहारादभिपर्यावर्तेरन् ॥ १२ ॥

अनु०—जब तक करने योग्य कर्म हों तब तक ऋत्विज यज्ञाग्नि के स्थान से अलग मुँह नहीं फेरेंगे ॥ १२ ॥

आवश्यकाहृते विहाराद्व्यावृत्तिश्च, तत्र चैतत् कर्मेत्यनेन कथ्यते ॥ १२ ॥

प्राङ्मुखश्चेदक्षिणमंसमभिपर्यावर्तेत ॥ १३ ॥

अनु०—यदि उसका मुख पूर्व की ओर हो तो (अग्नि को लेकर चलते समय) दाहिने कन्धे की ओर मुँह फेरेँ ॥ १३ ॥

अग्निभिस्सह गमने सत्ययं विधिः। अग्नीनां पृष्ठतः करणं मा भूदित्युपदेशः कर्तव्यः ॥ १३ ॥

प्रत्यङ्मुखस्सव्यम् ॥ १४ ॥

अनु०—यदि पश्चिम की ओर मुख हो तो बायें कन्धे पर मुख फेरेँ ॥ १४ ॥

टि०—इस प्रकार अग्नि को ले जाते समय उसकी ओर पीठ नहीं होगी। गोविन्द स्वामी का कथन है कि इन दोनों सूत्रों से यह भी अर्थ निकाला जा सकता है कि अग्नि की प्रदक्षिणा कर बाहर जाया जा सकता है।

अयमपि तथैव। यद्वा—द्वाभ्यामपि सूत्राभ्यां यथास्थितानामेव पुरुषाणां प्रदक्षिणीकृत्य निर्गमनं विधीयते ॥ १४ ॥

'उत्तरत उपचारो विहारः' (१५. १.) इत्युक्तम्। तत्र निर्गमनप्रवेशनमा-मार्गमाह—

अन्तरेण चात्वालोत्करौ यज्ञस्य तीर्थम् ॥ १५ ॥

अनु०—यज्ञ का तीर्थ अर्थात् वेदि का मार्ग चात्वाल और उत्कर के बीच से होता है ॥ १५ ॥

टि०—चात्वाल वेदि से ईशानकोण परं रहता है, वहाँ से मिट्टी उठायी जाती है। उत्कर वह स्थल है जहाँ वेदिपुरीष रखा जाता है।

उत्तरवेदिपुरीषावटं चात्वालः। वेदिपुरीषनिधानदेश उत्करः। तयोर्मध्यं

११८ | बौधायन-धर्मसूत्रम् | [ दीक्षितनियमाः

तीर्थं द्वारान्तरेण योगाद्वर्त्मेति। आह च मन्त्रः—"आप्नानं तीर्थं¹ क इह प्रवो- चद्येन पथा प्रपिबन्ते सुतस्य' इति ॥ १५ ॥ ²अचात्वाल आहवनीयोत्करौ ॥ १६ ॥ अनु०—चात्वाल न होने पर यज्ञ का तीर्थ आहवनीय तथा उत्कर के बीच होता है ॥ १६ ॥ टि०—'अचात्वाल' से दर्शपूर्णमास आदि यज्ञों से तात्पर्य है जिनमें चात्वाल नहीं होता । ब्यूह्लर ने 'अचात्वाल' का अनुवाद किया है 'चात्वाल की ओर से आने पर'। चत्वाल सौत्रिकी वेदि से ईशान कोण पर स्थित स्थान होता है। अन्तरेण तीर्थमित्यनुषज्यते । अचात्वाले चात्वालरहिते दर्शपूर्णमा- सादौ ॥ १६ ॥ ततः कर्तारः पत्नीयजमानौ च प्रपद्येरन् ॥ १७ ॥ अनु०—उस मार्ग से यज्ञ कराने वाले ऋत्विज्, यजमान और उसकी पत्नी प्रवेश करें ॥ १७ ॥ टि०—सूत्रस्थ 'च' शब्द से गोविन्द स्वामी ने दर्शकों का भी ग्रहण किया है । अनेन मार्गेण प्रपद्येरन् प्रविशेयुः । चशब्दा ³दुपद्रष्टारो द्रष्टारश्च ॥ १७ ॥ विसंस्थिते ॥ १८ ॥ अनु०—जब तक यज्ञ समाप्त न हो तब तक यही नियम समझना चाहिए ॥ १८ ॥ असमाप्ते यज्ञे एतद्विधानम् ॥ १८ ॥ संस्थिते च सञ्चरोऽनूत्करदेशात् ॥ १९ ॥ अनु०—यज्ञ के समाप्त हो जाने पर उत्कर के स्थान को छोड़कर ( पश्चिम ) प्रवेश और निर्गम करें ॥ १९ ॥ संस्थिते समाप्ते च यज्ञकर्मणि सञ्चरः प्रवेशो निर्गमञ्चाऽनूत्करदेशात् उत्क- रात् पश्चादित्यर्थः । एतदुक्तं भवति—प्रतते यज्ञे पुरस्तात् निर्गमनप्रवेशौ, ⁴अप्रतते पश्चादिति । आग्नयाधेयिके च विहारे इदं विधानम् । इतरत्र 'तस्मा- द्यज्ञवास्तु नाऽभ्यवेत्यम्' इति निषेधात् ॥ १९ ॥


१. अस्यार्थस्सायणीये ( १०.११४.७ ) ऋक्संहिताभाष्ये द्रष्टव्यः । २. चात्वालो नाम सौमिक्या वेदेरीशानकोणस्थितो मृदाहरणोपयुक्तो देशविशेषः । ३. ऋत्विग्भ्यो बहिर्भूताः केचन कर्मवीक्षका भवन्ति। ते कर्मणोऽवैगुण्यं पश्यन्ति । ते उपद्रष्टारः । दर्शकाः द्रष्टारः । ४. समाप्ते इति ग. पु.

पञ्चदशः खण्डः ] प्रथमप्रश्ने सप्तमोऽध्यायः ११९

१'नाऽप्रोक्षितमप्रपन्नं क्लिन्नं काष्ठं समिधं वाऽभ्यादध्यात् ॥

अनु०—( अग्नि पर ) ऐसी लकड़ी या समिध् न रखे जिस पर जल न छिड़का गया हो, जो तैयार न किया गया हो और गीला हो ॥ २० ॥

अग्नाविति शेषः । क्लिन्नमार्द्रम् ॥ २० ॥

अग्रेणाऽऽहवनीयं ब्रह्मयजमानौ प्रपद्येते ॥ २१ ॥

अनु०—ब्रह्मन् और यजमान आहवनीय अग्नि के आगे से वेदि के निकट आएं ॥ २१ ॥

दक्षिणत आसितुम् । अग्रेणेति 'एनबन्यतरस्यामदूरेऽपञ्चम्याः, 'एनपा द्वितीया' इति चाऽनुशासनात् ॥ २१ ॥

जघनेनाऽऽहवनीयमित्येके ॥ २२ ॥

अनु०—कुछ आचार्यों का मत है कि वे आहवनीय अग्नि के पीछे से प्रवेश करें ॥ २२ ॥

एके आचार्या मन्यन्ते वेदिमविलङ्घ्याऽपि ॥ २२ ॥

दक्षिणेनाऽऽहवनीयं ब्रह्मा २यतनमपरेण यजमानस्य ॥

अनु०—आहवनीय अग्नि के दक्षिण की ओर ब्रह्मा का स्थान होता है और उससे पश्चिम यजमान का ॥ २३ ॥

समान्येतानि कुर्यात् । 'प्रणीताहवनीयं ब्रह्मायतनम्' इति सिद्धे यजमानायतनविधानार्थ आरम्भः । अतश्च 'यजमानायतन उपविश्य, यजमानायतने तिष्ठन्' इत्येवमादिषु संव्यवहारेषु अस्मिन्नेव देश संप्रत्ययस्सिद्धो भवति ॥२३॥

उत्तरां श्रोणिमुत्तरेण होतुः ॥ २४ ॥

अनु०—होता का स्थान वेदि की उत्तर-दिशा की श्रोणि से उत्तर की ओर होता है ॥ २४ ॥

आयतनमिति शेषः । वेदेरुत्तरापरदेश इत्यर्थः ॥ २४ ॥

उत्कर आग्नीध्रस्य ॥ २५ ॥

अनु०—आग्नीध्र का स्थान उत्कर के समीप होता है ॥ २५ ॥


१. cf. आपस्तम्बधर्मसूत्र १.१५.१२. २. ब्रह्मयजमानौ प्रपद्येते तमपरेण इति. ग. पु.

१२०बौधायन-धर्मसूत्रम्[ दीक्षितनियमाः

आयतनमित्येव ॥ २५ ॥

जघनेन गार्हपत्यं पत्न्याः ॥ २६ ॥

**अनु०—**यजमान की पत्नी का स्थान गार्हपत्य अग्नि के पीछे होता है ॥ २६॥

ब्रह्मादिभिर्जोषामासीनैरप्येतेष्वेव देशेषु आसितव्यमित्यायतनप्रपञ्चः । उक्तञ्च ‘यथा कर्माृत्विजो न विहारादभिपर्यावर्तेरन्’ इति । अत एव चाध्वर्यो-रायतनानामवचनम्, तद्व्यापाराधीनत्वात् प्रयोगसदसत्तायाः ॥ २६ ॥

तेषु काले काल एव दर्भान् संस्तृणाति ॥ २७ ॥

**अनु०—**ब्रह्मा आदि के स्थानों पर जब-जब यज्ञ का उपक्रम हो तब-तब कुश बिछाना चाहिए ॥ २७ ॥

तेषु ब्रह्माद्यायतनेषु । यज्ञोपक्रमकालानां बहुत्वान्द्रीप्सा । दर्भास्तरणमास-नार्थम् । एवं च होतृषदनमप्यध्वर्युणैव कर्तव्यमिति भवति ॥ २७ ॥

एककस्य चोदकमण्डलुरुपात्तस्स्यादाचमनार्थः ॥ २८ ॥

**अनु०—**प्रत्येक के लिए आचमन के निमित्त जल से पूर्ण कमण्डलु होना चाहिए ॥ २८ ॥

प्रतिपुरुषं अपां पूर्त्तिरित्युभिप्रायः ॥ २८ ॥

व्रतोपेतो दीक्षितस्स्यात् ॥ २९ ॥

**अनु०—**यज्ञ के लिए दीक्षित पुरुष इस व्रत का आचरण करे ॥ २९ ॥

कतमेन व्रतेनोपेतः ?—

न परपापं वदेन्न क्रुध्येन्न रोदेन्मूत्रपुरीषे नाऽवेक्षेत ॥ ३० ॥

**अनु०—**वह दूसरों के पापों का उल्लेख न करे, क्रोध न करे, रोवे नहीं, मूत्र और मल को न देखे ॥ ३० ॥

परस्याऽप्रयतस्य । यद्यप्युपनीतमात्रस्य पुरुषार्थतयैवंजातीयकानां प्रति-षेधस्सिद्धः, तथाऽपि क्रत्वर्थतया प्रतिषेधः संयोगपृथक्त्वात् । प्रायश्चित्तान्तर-मस्याऽनृतवदनादिवदेष 'यदि यजुष्टो मुचस्स्वाहा' इत्यादि । तथा—'दीक्षितश्चे-दनृतं वदेदिमं मे वरुण' इत्यादि ॥ ३० ॥


१. एकस्य तूभयत्वे संयोगपृथक्त्वम् । एकस्य-पदार्थस्य कार्यद्वयं प्रति विनियो-जकस्य वाक्यद्वयस्य सत्त्वे संयोगपृथक्त्वम् । संयुज्यते सम्बध्यतेऽनेनेति संयोगो वा-क्यम् । तस्य पृथक्त्वं भेद इत्यर्थः । यथा दघ्नः अग्निहोत्राङ्गत्वबोधकं वाक्यं दध्ना जुहोतीति । तस्यैव चेन्द्रियार्थं विधानम्—दध्नेन्द्रियकामस्य जुहुयादिति ॥

पञ्चदशः खण्डः ] प्रथमप्रश्ने अष्टमोऽध्यायः १२१

अमेध्यं दृष्ट्वा जपति—"अबद्धं मनो दरिद्रं चक्षुस्सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हासी" रिति ॥ ३१ ॥ इति बौधायनीये धर्मसूत्रे प्रथमप्रश्ने पञ्चदशः खण्डः ॥ १५ ॥

अनु०—अमेध्य पदार्थ को देखकर "अबद्धं मनो दरिद्रं चक्षुस्सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हासीः" (मन अनियन्त्रित है, नेत्र दरिद्र हैं; सूर्य आकाश के नक्षत्रों में श्रेष्ठ है; हे दीक्षा, मेरा त्याग मत करो, मत करो) का जप करे । ( तैत्तिरीय संहिता ३.१.१०.२ ) ॥ ३१ ॥

अमेध्यदर्शने प्रायश्चित्तमिदमनिष्टदर्शने वा । कुतः 'अमेध्यमनिष्टं वा दृष्ट्वा जपतेऽप्येतदुक्तं भवति' इति यज्ञप्रायश्चित्तेषु द्वयोरप्यनुभाषणात् । मन्त्रस्तु विव्रियते—वामदेवस्यार्षम्, गायत्रं छन्दः, सूर्यो देवता । अबद्धं अबोद्धव्यं अनिरोध्यं अनिवार्यं मनः पापमपि सङ्कल्पयतीत्यर्थः । तथा च श्रुतिः—'तस्मात्तेनोभयं सङ्कल्पयन्ते सङ्कल्पनीयं चाऽसङ्कल्पनीयञ्च' इति । चक्षुरपि दरिद्रमेव । द्रा गतिकुत्सनयोरिति । गतिकुत्सतगतिरिति । श्रुतिरपि—'तस्मात्तेनोभयं पश्यति दर्शनीयं चाऽदर्शनीयं च' इति । किमेभिरनिरोध्यैः करणैः ? भगवान्नेव हि सूर्यो ज्योतिषां श्रेष्ठः श्रेयान् सम्यक्पश्यति, तस्मादहं दीक्षे एव, न नियमाननुपाळयितुं स त्वं मा मा हासीः मा त्याक्षीरिति ॥ ३१ ॥

इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते प्रथमप्रश्ने सप्तमोऽध्यायः ॥ ७ ॥


अष्टमोऽध्यायः

यज्ञप्रसङ्गात् ब्राह्मणादीन् स्मृत्वाऽऽह— 'चत्वारो वर्णा ब्राह्मणक्षत्रिय$^२$विट्शूद्राः ॥ १ ॥

अनु०—चार वर्ण हैं—ब्राह्मण, क्षत्रिय, वैश्य और शूद्र ॥ १ ॥

चतुस्सङ्ख्यया प्रतिलोमानुलोमानां वर्णसंज्ञानिवृत्त्यर्था ॥ १ ॥

वर्णचतुष्टयप्रभवाः इतराः मनुष्ययोनय इति वक्तुं ब्राह्मणादीनां भार्या आह— तेषां वर्णानुपूर्व्येण चतस्रो भार्या ब्राह्मणस्य ॥ २ ॥


१. Cf आप. ध. १. १. ४. and वासिष्ठ ध. २. १.
२. वैश्यशूद्राः इति. कं. ग. पु.

१२२ बौधायन-धर्मसूत्रम् [ वर्णधर्मविचारः

**अनु०—**इन वर्णों में वर्णों के क्रमानुसार ( अर्थात् चार वर्णों की ) ब्राह्मण की चार पत्नियां हो सकती हैं ॥ २ ॥

तेषां मध्ये ब्राह्मणस्येति सम्बन्धः। आनुपूर्व्यग्रहणात् प्रथमं ब्राह्मणी, ततः क्षत्रिया इत्येवं द्रष्टव्यम्। अस्वजातीयापरिणयनम् (?) 'इतरथाऽसदृशीम्' इत्यविशेषकं स्यात्। आह च मनुः—

सवर्णाऽग्रे द्विजातीनां प्रशस्ता दारकर्मणि।
कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोवराः ॥ इति ॥ २ ॥

तिस्रो राजन्यस्य ॥३॥ द्वे वैश्यस्य ॥ ४ ॥

**अनु०—**क्षत्रिय की वर्णों के क्रम से तीन ( क्षत्रिय, वैश्य, शूद्र वर्ण की ) पत्नियां हो सकती हैं। वैश्य की दो पत्नियां ( वैश्य तथा शूद्र वर्ण की ) होती हैं ॥ ३-४ ॥

आनुपूर्व्येण कामत इति चाऽनुसन्धेयम् ॥ ३-४ ॥

एका शूद्रस्य ॥ ५ ॥

**अनु०—**शूद्र की केवल एक ( शूद्र वर्ण की ) पत्नी होती है ॥ ५ ॥

कामप्रवृत्तस्याऽपि शूद्रस्य शूद्रैव भार्या ॥ ५ ॥

तासु पुत्रास्सवर्णानानन्तरासु सवर्णाः ॥ ६ ॥

**अनु०—**इन पत्नियों में अपने वर्ण की या अपने वर्ण के ठीक नीचे वाले वर्ण की पत्नियों से उत्पन्न पुत्र सवर्ण कहलाते हैं ॥ ६ ॥

**टि०—**वस्तुतः सवर्ण पुत्र समान वर्ण की पत्नी से उत्पन्न पुत्र होते हैं किन्तु ठीक नीचे वाले वर्ण की पत्नी के पुत्र भी सवर्ण के समान ही समझे जाते हैं। गौतम० १.४.१४ 'अनुलोमा अनन्तरैकान्तरद्व्यन्तरासु जाताः सवर्णाम्बष्ठोग्रनिषाददौष्म-न्तपारशवाः'।

संव्यवहारार्थं संज्ञाकरणम्। सवर्णास्वनन्तरासु चेति विग्रहः। संवर्णास्स-मानजातीयाः। अनन्तरा इतराः। ब्राह्मणस्य क्षत्रिया वाऽनन्तरेत्यादि योज्यम्। तत्र सवर्णायां जातः पुत्रस्स एव वर्ण इति व्युत्पत्त्या सवर्णः। अनन्तरायां तु सवर्णसदृश इति। आह च मनुः—

स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान् सुतान् ।
सदृशानेव तानाहुर्मातृदोषविगर्हितान् ॥ इति ॥ ६ ॥

एकान्तरद्व्यन्तरास्वम्बष्ठोग्रनिषादाः ॥ ७ ॥

षोडशः खण्डः ] प्रथमप्रश्ने अष्टमोऽध्यायः १२३

अनु०—एक वर्ण के अन्तर से अपने से तीसरे वर्ण की पत्नी से (ब्राह्मण की वैश्यवर्ण की पत्नी से, क्षत्रिय की शूद्रा से) क्रमशः अम्बष्ठ और उग्र नाम के तथा अपने वर्ण से दो वर्ण के अन्तर वाले वर्ण की पत्नी से (ब्राह्मण की शूद्रा स्त्री से) निषाद नाम का पुत्र उत्पन्न होता है ॥ ७ ॥

टि०—ये सभी पुत्र अनुलोम पुत्र कहे जाते हैं, क्योंकि पिता उच्च वर्ण का होता है और माता पिता से निम्न वर्ण की। प्रतिलोम इसके विपरीत सम्बन्ध से उत्पन्न होते हैं।

ब्राह्मणस्य वैश्या एकान्तरा । स तस्यामम्बष्ठं जनयति । तस्यैव शूद्रा द्वयन्तरा । तस्यां निषादम् । क्षत्रियस्य पुनस्सैवैकान्तरा । सोऽपि तस्यामेवोग्रं नाम पुत्रं जनयति । एते त्रयः पूर्वेरनुलोमैस्सह षडनुलोमा अनुक्रान्ताः । तत्र बीजोत्कर्षे क्षेत्रापकर्षे च सत्यानुलोम्यं भवति । विपर्यये तु प्रातिलोम्यं भवति ॥ ७ ॥

के पुनः प्रतिलोमाः ? तानाह—

प्रतिलोमास्त्वायोगवमागधवैणक्षत्तृपुल्कसकुक्कुटवैदेहकचण्डालाः ॥८॥ 'अम्बष्ठात् प्रथमायां श्वपाकः ॥ ९ ॥ उग्रात् द्वितीयायां वैणः ॥ १० ॥ निषादात् तृतीयायां पुल्कसः ॥ ११ ॥ विपर्यये कुक्कुटः ॥ १२ ॥

अनु०—प्रतिलोम विवाह वाली (अपने से निम्न वर्ण के पुरुष के साथ विवाहिता) स्त्रियों से आयोगव, मागध, वैण, क्षत्तृ, पुल्कस, कुक्कुट, वैदेहक और चण्डाल नाम के पुत्र उत्पन्न होते हैं ॥ ८ ॥

टि०—क्षत्रिय और ब्राह्मणी से सूत, वैश्य और ब्राह्मणी से क्षत्त, वैश्य और क्षत्रिया से मागध, शूद्र और वैश्या से आयोगव, शूद्र और क्षत्रिया से वैदेहक, शूद्र और ब्राह्मणी से चण्डाल नाम के पुत्र उत्पन्न होते हैं। द्रष्टव्य-गौतम ध०सू० १.४. १५ पृ० ४२: 'प्रतिलोमास्तु सूतमागधायोगवक्षत्तृवैदेहकचण्डालाः'।

अनु०—अम्बष्ठ प्रथम वर्ण की स्त्री से श्वपाक पुत्र उत्पन्न करता है। उग्र द्वितीय वर्ण की स्त्री से वैण पुत्र उत्पन्न करता है। निषाद तृतीय वर्ण की पत्नी से पुल्कस पुत्र उत्पन्न करता है। इसके विपरीत पुल्कस पुरुष निषाद वर्ण की स्त्री से कुक्कुट पुत्र उत्पन्न करता है ॥ ९-१२ ॥


१. अन्येपि श्वपाकादयः ११ सूत्रादावुच्यन्ते ।

३२४ बौधायन-धर्मसूत्रम् [वर्णधर्मविचारः

पुल्कसान्निषाद्यां जातस्य कुक्कुटसंज्ञेत्यर्थः। अनेनैतद्विज्ञातं भवति—प्रतिलोमानुलोमेन स्त्रियां जातोऽपि प्रतिलोम एवेति। अन्यथा कथमेवमर्धं-क्ष्यत् ॥ ८—१२ ॥

अथ बीजोत्कर्षवशात् वर्णान्तरप्राप्तिमाह— निषादेन निषाद्यामा पञ्चमाज्जातोऽपहन्ति शूद्रताम् ॥ १३ ॥

अनु०—निषाद पुरुष निषाद स्त्री से विवाह करे तो उसके वंश में पाँचवें पुरुष में शूद्रत्व समाप्त हो जाता है ॥ १३ ॥

अत्र गौतमीयम्—'वर्णान्तरगमनमुत्कर्षापकर्षाभ्यां सप्तमेन । पञ्चमेनाऽऽचार्याः' इति। नाङ्ग तत्राऽभिविधौ। निषादो वैश्याच्छूद्रायां जात इति कृत्वोच्यते ॥ १३ ॥

तमुपनयेत्षष्ठं याजयेत्सप्तमोऽविकृतो भवति$^१$ ॥ १४ ॥ इति बोधायनधर्मसूत्रे प्रथमप्रश्ने षोडशः खण्डः ॥ १६ ॥

अनु०--पाँचवें पुरुष का उपनयन करे, छठें से यज्ञ कराये तो सातवाँ दोषरहित होता है ॥ १४ ॥

टि०—द्रष्टव्य मनु० १०: ५-४२

अविकृतः नैजमेव वर्णं प्रतिपद्यत इत्यर्थः। एवं तावच्छूद्रायां वैश्याज्जा-तस्याऽऽसप्तमाद्वैश्यत्वापत्तिरुक्ता। एवमेव वैश्यायां जातस्य क्षत्रियत्वापत्तिः। तथा क्षत्रियायां जातस्य ब्राह्मण्यापत्तिरुच्यते—सवर्णत्यागादपि वर्णसङ्करो जायत इतीदं प्रदर्शयितुम्। आह च मनुः— व्यभिचारेण वर्णानामवेद्यावेदनेन च। स्वकर्मणां च त्यागेन जायते वर्णसङ्करः॥ इति। स्वकर्मणां त्याग उपनयनादिसंस्कारहानिरधिकृते। अतो वर्णसङ्करप्रदर्श-नार्थत्वादुपपन्नमिहाभिधानम् ॥ १४ ॥

इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते प्रथमप्रश्नेऽष्टमोऽध्यायः ॥ ८ ॥


१. See. मनु १०. ५—४२.

सप्तदशः खण्डः ]प्रथमप्रश्ने नवमोऽध्यायः१२५

अथ नवमाध्याये सप्तदशः खण्डः

अथाऽनन्तरप्रभवानामेव किञ्चिद्वक्तव्यमित्यत आह—

तत्र सवर्णासु सवर्णाः ॥ १ ॥

**अनु०—**इन पुत्रों में सवर्णा पत्नियों से सवर्ण पुत्र होते हैं ॥ १ ॥

अनुलोमविषयमिदम् । वर्णानन्तरजसवर्णासु सवर्णैरुत्पादिता अपि सवर्णा भवन्तीत्यर्थः ॥ २ ॥

ब्राह्मणात्क्षत्रियायां ब्राह्मणो वैश्यायामम्बष्ठः शूद्रायां निषादः ॥ २ ॥

**अनु०—**ब्राह्मण से क्षत्रिया पत्नी से ब्राह्मण, वैश्य पत्नी से अम्बष्ठ, शूद्र पत्नी से निषाद होता है ॥ २ ॥

ब्राह्मणात्क्षत्रियायां जातायां तस्यां ब्राह्मणेनोत्पादितः । अत्र पूर्वसूत्रे आदि-स्सवर्णशब्दस्सदृशवर्ण इत्यनया व्युत्पत्त्या वर्तते । सूत्रारम्भस्तु तेषामपि वर्णधर्मप्राप्त्यर्थः ॥ २ ॥

पारशव इत्येके ॥ ३ ॥

**अनु०—**कुछ लोग ब्राह्मण द्वारा शूद्रा पत्नी से उत्पन्न को पारशव कहते ॥ ३ ॥
**टि०—**द्रष्टव्य गौतम० १.४.२१. पृ० ४४ ।
सोऽयं संज्ञाव्यतिरेकः ॥ ३ ॥

क्षत्रियाद्वैश्यायां क्षत्रियश्शूद्रायामुग्रः ॥ ४ ॥

**अनु०—**क्षत्रिय पुरुष द्वारा वैश्य वर्ण की स्त्री से क्षत्रिय तथा शूद्रा स्त्री से उग्र उत्पन्न होता है ॥ ४ ॥

अयमप्येकीयमतेन संज्ञाव्यतिरेकप्रकारः ॥ ४ ॥

वैश्याच्छूद्रायां रथकारः ॥ ५ ॥

**अनु०—**वैश्य पुरुष द्वारा शूद्रा स्त्री से रथकार उत्पन्न होता है ॥ ५ ॥

अस्य त्वाधानेऽधिकारो ‘वर्षासु रथकारः’ इति । एते अनुक्रान्ता अनुलोमाः ॥ ५ ॥


१. एवमेव सूत्रपाठो व्याख्यानपुस्तकेषु “तमुपनयेत् षष्ठं याजयेत् ॥ १४ ॥ ससमो विकृतबीजस्समबीजस्सम इत्येतेषां संज्ञाः क्रमेण निपतन्ति ॥ १५ ॥ त्रिषु वर्णेषु सादृश्याद्ब्रती जनयेत् यान् । तान् सावित्रीपरिभ्रष्टान् व्रात्यानाहुर्मनीषिणः—व्रात्यानाहुर्मनीषिणः इत्यधिकसूत्रपाठो दृश्यते ।

१२६बौधायन-धर्मसूत्रम्[ वर्णधर्मविचारः

अथ प्रतिलोमासु यच्छूद्रबीजं तदाह—
शूद्राद्वैश्यायां मागधः क्षत्रियायां क्षत्ता ब्राह्मण्यां चण्डालः ॥ ६ ॥
अनु०— शूद्र पुरुष द्वारा वैश्य स्त्री से मागध, क्षत्रिया से क्षत्ता, ब्राह्मणी से चण्डाल उत्पन्न होता है ॥ ६ ॥

अथ वैश्यबीजमुच्यते—
वैश्यात्क्षत्रियायामायोगवो ब्राह्मण्यां वैदेहकः ॥ ७ ॥
अनु०— वैश्य पुरुष द्वारा क्षत्रिया पत्नी से आयोगव तथा ब्राह्मणी से वैदेहक उत्पन्न होते हैं ॥ ७ ॥

क्षत्रियबीजं पुनः—
क्षत्रियाद् ब्राह्मण्यां सूतः ॥ ८ ॥
अनु०— क्षत्रिय पुरुष द्वारा ब्राह्मणी पत्नी से सूत उत्पन्न होता है ॥ ८ ॥

अथ वर्णसङ्करजातानां परस्परसङ्करजातानाह—
अत्राऽम्बष्ठोग्रसंयोगो भवत्यनुलोमः ॥ ९ ॥
अनु०— यदि इनमें अम्बष्ठ पुरुष और उग्र वर्ण की स्त्री का संयोग हो तो अनुलोम पुत्र उत्पन्न होता है ॥ ९ ॥
उत्कृष्टबीजप्रभवायामनुलोमायां जाता अप्यनुलोमा एव भवन्तीत्यभिप्रायः ॥ ९ ॥

क्षत्तृवैदेहकयोः प्रतिलोमः ॥ १० ॥
अनु०— क्षत्ता पुरुष और वैदेहक स्त्री के संयोग से प्रतिलोम पुत्र होता है ॥१०॥
शूद्रक्षत्रियापत्यभवात् प्रतिलोमाद्वैश्यब्राह्मणीप्रभवायां प्रतिलोमायामुत्पन्नोऽपि प्रतिलोमो भवतीत्यर्थः । एवमन्यत्राऽपि प्रयोजकानुसन्धानेन वेदनीयम् ॥ १० ॥

अतः पुनरपि प्रतिलोमानेवाह—
¹उग्राज्जातः क्षत्तायां श्वपाकः ॥ ११ ॥
वैदेहकादम्बष्ठायां वैणः ॥ १२ ॥
निषादाच्छूद्रायां पुल्कसः ॥ १३ ॥


१. See मनु. १० ५.४२.
२. क्षत्तुश्चायां जातः पुल्कसः ( म. १०. १९. ) इति मनुः ।

सप्तदशः खण्डः ] प्रथमप्रश्ने दशमोऽध्यायः १२७

शूद्रान्निषाद्यां कुक्कुटः ॥ १४ ॥

**अनु०—**उग्र पुरुष और क्षत्तृ स्त्री से श्वपाक, वैदेहक पुरुष और अम्बष्ठ स्त्री से वैण, निषाद पुरुष और शूद्रा स्त्री से पुल्कस, शूद्र पुरुष तथा निषाद स्त्री से कुक्कुट उत्पन्न होता है ॥ ११ ॥

**टि०—**क्षत्तुमुग्रायां जातः पुल्कसः ( मनु० १०।१९ )

इदमपि प्रयोजकमहणार्थं, नोदाहरणावधिकमेव कथ्यते । एवं एकार्था अनेकशब्दाः अनेकार्थश्चैकशब्दः शब्दान्तरेषु तत्र संव्यवहारभेदप्रदर्शनार्थः । एवं च तेन कर्मणा तरतमभावं विजानीयादित्युकतं भवति । तथा च वसिष्ठः—

छन्नोत्पन्नास्तु ये केचित्प्रातिलोम्यगुणाश्रिताः ।
गुणाचारपरिभ्रंशात्कर्मभिस्तान् विजानीयुरिति ॥

तद्विशेषावगतिश्च तत्परिहरणार्थम् ॥ ११–१४ ॥

वर्णसंकरादुत्पन्नान्त्रात्यानाहुर्मनीषिणो व्रात्यानाहुर्मनीषिण इति ॥ १५ ॥

इति बोधायनीये धर्मसूत्रे प्रथमप्रश्ने सप्तदशः खण्डः ॥ २६ ॥

**अनु०—**विद्वान् लोग इस प्रकार वर्णों के संकर से उत्पन्न को व्रात्य कहते हैं ॥ १५ ॥

वर्णग्रहणात्सङ्करजा व्रात्या भवन्ति । यद्वा प्रतिलोमजा वर्णसङ्करादुत्पन्ना इति कल्पनीयम् । ततश्च व्रात्यास्संस्कारहीना इति कृत्वा प्रतिलोमा धर्महीना इत्येतदेव ज्ञापितं भवति ॥

इति बौधायनधर्मसूत्रविवरणे गोविन्दस्वामिकृते प्रथमप्रश्ने नवमोऽध्यायः ॥ ९ ॥


अथ दशमोऽध्यायः

रक्षकाभावे सति आगः प्रवर्तते । ततश्च वर्णसङ्करोऽपि जायते । अतस्तत्परिहारार्थमाह—

षड्भागभृतो राजा रक्षेत्प्रजाम् ॥ १ ॥

**अनु०—**राजा प्रजा की आय या पुण्य का छठाँ भाग वेतन के रूप में लेकर प्रजा की रक्षा करे ॥ १ ॥

षट्शब्दोऽत्र लुप्तपूरणप्रत्ययो द्रष्टव्यः । भृतिर्वेतनं तद्ग्राही भृतः । राजा चाऽत्राऽभिषिक्तः। स चाऽपि तासां प्रजानां षष्ठभागमाग्भवति । ब्राह्मणस्याऽनु