भारतकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 243, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 243

तृतीयः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः १९१

एवं जनकादिः अन्यशिष्यान् प्रत्याह— २अप्रमत्ता रक्षथ तन्तुमेतं मा वः क्षेत्रे परबीजानि वप्सुः । जन- यितुः पुत्रो भवति साम्पराये मोघं वेत्ता कुरुते तन्तुमेतमिति ॥ ३६ ॥

अनु०—सावधान होकर सन्तान की उत्पत्ति की रक्षा करो, कहीं तुम्हारे क्षेत्र में दूसरे के बीज न पड़े । मृत्यु के बाद पुत्र उत्पन्न करने वाले का होता है ओर पति सन्तान की उत्पत्ति को निष्फल कर देता है ॥ ३६ ॥

अन्ये बीजवपनं मा कार्षुः। तत्र को दोषः? जनयितुः पुत्रो भवति साम्प- राये परलोकेऽपि यदनेन पिण्डोदकदानादि जनयितुरेव भवेत् , न क्षेत्रिण इति । ननु। भार्यायाः पुत्रस्य च रक्षणपोषणचिकित्सादि सर्वं क्षेत्रिणैव क्रियते, तत्कथमस्मिन् पक्षे इति ? उच्यते—मोघं वेत्ता कुरुते तन्तुमेतमिति । वेत्ता लब्धा क्षेत्रस्य कुरुते यतं तन्तुं मोघं कुरुते निष्फलोऽस्य प्रयासः इत्यभि- प्रायः । इतिशब्द औपजङ्घनेर्मतोपसंहारार्थः ॥ ३६ ॥

अथेदानीं स्वकीयमतेन पुत्रभरणक्रममाह— तेषामप्राप्तव्यवहाराणामंशान् सोपचयान् सुनिगुप्तान्निदध्युरा- व्यवहारप्रापणात् ॥ ३७ ॥

अनु०—पुत्रों में जो वयस्क न हों (बालिग न हों) उनके अंश को तथा सम्पत्ति के उस अंश पर होने वाले लाभ एवं वृद्धि को अत्यन्त सावधानी से उस समय तक सुरक्षित रखे जब तक वे समझदार या बालिग न हो जायें ॥ ३७ ॥

अप्राप्तव्यवहाराश्च बाला आ षोडशाद्वर्षात् । तथा हि— गर्भस्थैस्सदृशो ज्ञेय आऽष्टमाद्वत्सराच्छिशुः । बाल आ षोडशाज्ज्ञेयः पौगण्डश्चेति शब्द्यते ॥

तेषां पुत्राणां मध्ये बालानामंशान् सोपचयान् गुप्तान्निदध्युः । उपचयो नैयायिकी वृद्धिः । तथा बालानां द्रव्यं वर्धयेत् । उपचीयमानांश्चांशान्वा सुगुप्तान् रक्षितान् अव्यवहारप्रापणान्निदध्युः ॥ ३७ ॥

अतीतव्यवहारान् ग्रासाच्छादनैर्बिभृयुः ॥ अन्धजडक्लीबव्यसनि- व्याधितादींश्च ॥ अकर्मिणः ॥ पतिततज्जातवर्जम् ॥ ३८–४१ ॥

अनु०—जो किसी प्रकार का ( सम्पत्ति विषयक ) व्यवहार करने में असमर्थ हों उन्हें भोजन, वस्त्र आदि देकर उनका भरण-पोषण करे, यथा—अन्धे, जड,


२, cf. व. ध. १७. ९.