भारतकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 258, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 258

२०६ बौधायन-धर्मसूत्रम्

अथ द्वितीयप्रश्ने तृतीयोऽध्यायः

पञ्चमः खण्डः

भूयोऽपि नियमानोच्यते— 'तपस्यमवगाहनम्^१ ॥ १ ॥ **अनु०—**तपस्या के लिए स्नान करना चाहिए ॥ १ ॥ तपसे हितं तपस्यम् । अवगाहनं स्नानम् । तपस उपक्रमे कर्तव्यमित्यर्थः ॥ १ ॥

देवतास्तर्पयित्वा पितृतर्पणम् ॥ २ ॥ **अनु०—**देवताओं का जल द्वारा तर्पण करने के बाद पितरों का तर्पण करना चाहिए ॥ २ ॥ भवेदिति शेषः । ऋषितर्पणानन्तरं पितृतर्पणं किलाऽन्यत्रोच्यते^२ । इह तु देवतर्पणादनन्तरम् , अत आनन्तर्ये विकल्पः । यद्वा—तपस्येऽवगाहने एव विशेषः ॥ २ ॥

अनुतीर्थमप उत्सिञ्चे “दूर्जं^३ वहन्ती” रिति ॥ ३ ॥ **अनु०—**ऊर्जं वहन्ती मन्त्र का पाठ करते हुए तीर्थों के अनुसार जल गिराया जाता है ॥ ३ ॥ **टी०—**पूरा मन्त्र इस प्रकार है—“ऊर्जं वहन्तीरममृतं घृतं पयः कीलालं परिस्रुतं स्वधा स्थ तर्पयत मे पितॄन्” । अनुतीर्थं तीर्थमनुकूलमित्यर्थः । एतस्मादेव गम्यते जले तर्पणमिति । अयं हि मन्त्रः स्नानविध्यनुवाके कृत्स्नशः पठ्यते । यद्वा—नदीतरणानन्तरमेतदुत्सेचनं कर्तव्यम् ॥ ३ ॥

अथाप्युदाहरन्ति — स्रवन्तीष्वनिरुद्धासु त्रयो वर्णा द्विजातयः । प्रातरुत्थाय कुर्वीरन् देवर्षिपितृतर्पणम् ॥ ४ ॥


१. तपस्यमपोऽवगाहनम् इति व्याख्यानपुस्तकेषु ॥ २. अत्रैव नवमखण्डे 'अथोत्तरं देवतास्तर्पयति', इत्यारभ्य देवतर्पणान्युक्त्वा ततः “अथ निवीती ऋषींस्तर्पयामि” इत्यादिना ऋषितर्पणमुक्त्वा, अनन्तरमेव “अथ प्राचीनावीती पितॄन् स्वधा नमस्तर्पयामि” इति पितृतर्पणं विहितमाचार्येणेत्यर्थः । ३. “ऊर्जं वहन्तीरममृतं घृतं पयः कीलालं परिस्रुतं स्वधा स्थ तर्पयत मे पितॄन्” इति समग्रो मन्त्रः ॥

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद) · पृष्ठ 258, कुल 486 में से · BharatKosha