बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 319, कुल 486 में से
संदर्भ में पढ़ेंत्रयोदशः खण्डः ] द्वितीयप्रश्ने सप्तमोऽध्यायः २६७
अपरिमितं ग्रासानां परिमाणसङ्ख्यानियमो नास्तीत्यर्थः ॥ ८ ॥
'आहिताग्निरनड्वांश्च ब्रह्मचारी च ते त्रयः ।
अश्नन्त एव सिद्ध्यन्ति नैषां सिद्धिरनश्नतामिति ॥ ९ ॥
अनु०—अग्निहोत्री, बैल और ब्रह्मचारी-ये तीनों अपरिमित भोजन करने पर ही अपना कार्य सम्पादित कर पाते हैं; भोजन किये बिना वे अपने कार्य नहीं कर सकते ॥ ९ ॥
अनडुद्ग्रहणं दृष्टान्तार्थम् । नैतेषां परिमितमित्येतत्सिद्ध्यति । कर्मकर्तृत्वेनाऽनश्नतामेषां न सिद्धिः कर्मणः । उपवासप्रतिषेधो वाऽयम् । आहिताग्नेर्ब्रह्मचारिणश्चोपवासे सति शुश्रूषायाः कर्मणश्च लोपप्रसङ्गात् ॥ ९ ॥
किञ्च—
गृहस्थो ब्रह्मचारी वा योऽनश्नंस्तु तपश्चरेत् ।
प्राणाग्निहोत्रलोपेन ह्यवकीर्णी भवेत्तु सः ॥ १० ॥
अनु०—जो गृहस्थ वा ब्रह्मचारी उपवास करते हुए तपस्या करता है, वह प्राणाग्निहोत्र न करने से अवकीर्णी हो जाता है ॥ १० ॥
प्राणाग्निहोत्रलोपनिन्दैषा । नन्वेवं सति पञ्चाहुतिलोप एव दोषस्स्यात् , नेतरग्रासलोपे । यथाऽग्निहोत्रहोमे हुतशेषप्राशनाभावे दोषो नाऽस्ति तद्वदेतदपि । वक्तव्यो वा विशेषः उच्यते-स्यादेतदेवं यद्यनशननिन्दा न स्यात् , अस्ति तु । तस्मादनशननिन्दैषा ॥ १० ॥
किमेष एवोत्सर्गः ? सर्वदाऽशितव्यमेव ? नेत्याह—
अन्यत्र प्रायश्चित्तात्प्रायश्चित्ते तदेव विधानम् ॥ ११ ॥
अनु—प्रायश्चित्त की तपस्या के अतिरिक्त अन्य प्रायश्चित्त में उपवास ही नियम है ॥ ११ ॥
उपवास एव साधीयानित्यर्थः ॥ ११ ॥
अथाऽप्युदाहरन्ति
अन्तरा प्रातराशं च सायमाशं तथैव च ।
सदोपवासी भवति यो न भुङ्क्ते कदाचनेति ॥ १२ ॥
अनु० —इस विषय में निम्नलिखित उद्धृत करते हैं—जो प्रातः कालीन और
१. cf. वा. ध. ६. १९.