भारतकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 330, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 330
२७८बौधायन-धर्मसूत्रम्[ ऋणापाकरणम्

आयुश्शब्देन तत्करणं लक्ष्यते। तच्च विधिवत्सन्ध्योपासनं विप्रापवादा- भाव इत्यादि। आह च— ऋषयो दीर्घसन्ध्यत्वाद्दीर्घमायुरवाप्नुयुः। आयुर्विप्रापवादेन सन्ध्यावन्दनहानतः॥ अतिथिपूजाहानाच्च नश्यत्यायुरपि ध्रुवम्। नाधितिष्ठेत केशांस्तु न भस्मास्थिकपालकान्। न कार्पासास्थि न तुषान् दीर्घमायुर्जिजीविषुः॥ इति ॥

तथा— न हीदृशमनायुष्यं लोके किञ्चन विद्यते। यादृशं पुरुषस्येह परदारोपसेवनम्॥ लोष्टमर्दी तृणच्छेदी नखखादी च यो नरः। स विनाशं व्रजत्याशु सूचकोऽशुचिरेव ॥

इत्येवमादि द्रष्टव्यम्। तपो दानम् । 'एतत्खलु वाव तप इत्याहुर्यत्सर्वं ददातीति' इति श्रुतेः। वक्ष्यमाणं वा ब्रह्मचर्यादि। स्वाध्यायेज्ये तु प्रसिद्धे एव। स्वे इति स्वे स्वे वर्णे ब्राह्मणो ब्राह्मण्यामित्यादि। इन्द्रियमिहोपस्थमभि- प्रेतं पुत्रकारणत्वात्। तज्जयः परदारादिवर्जनम्, स्वदारेष्वप्यकालवर्जनं च। एते प्रजोत्पत्त्युपायाः यथाविधानं क्रियमाणाः प्रजोत्पत्त्युपाया भवन्तीत्य- भिप्रायः॥ ३ ॥

ब्राह्मणस्यर्णसंयोगस्त्रिभिर्भवति जन्मतः। तानि मुच्याऽऽत्मवान् भवति विमुक्तो धर्मसंशयात् ॥ ४ ॥

**अनु०—**ब्राह्मण जन्म से ही तीन प्रकार के ऋणों से युक्त होता है। उन ऋणों को चुकाकर वह धर्म के आचरण विषयक संशय से मुक्त हो जाता है॥ ४॥

ब्राह्मणग्रहणात् स्वमूलश्रुतिप्रमाणं द्रष्टव्यम् । त्रिभिः अवश्यकर्तव्यैरिति शेषः। जन्म उपनयनं ततः प्रभृति ऋणवान् भवति। ततः प्राक् शूद्रसमत्वात्। तानि कर्माणि ऋणानि विमुच्य यथाविधि सम्पाद्य आत्मवान् स्वतन्त्रो भवति। यस्मादयं धर्मसंशयात् किमेतानि यथावत् सम्पादयितुं शक्ष्यामो न वेत्येवंरूपसंशयाद्विमुक्तो भवति ॥ ४ ॥

केन कर्मणा तदृणमपाक्रियत इत्याह—

'स्वाध्यायेन ऋषीन् पूज्य सोमेन च पुरन्दरम् । प्रजया च पितॄन्पूर्वाननृणो दिवि मोदते ॥ ५ ॥


१. cf. मनु. ३. ८१.