भारतकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 381, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 381

षष्ठः खण्डः ] तृतीयप्रश्ने षष्ठोऽध्याय : ३२९

'नमो रुद्राय भूताधिपतये द्यौश्शान्ता' ( प्राणियों के स्वामी रुद्र को नमस्कार । आकाश शान्त होवे ) इस मन्त्र का उच्चारण करे ॥ १२ ॥

अयमेको मन्त्रः ॥ १२ ॥

१ “कृणुष्व पाजः प्रसितिं न पृथ्वीम्” २“ये देवाः पुरस्सदोऽग्निनेत्रा रक्षोहण” इति पञ्चभिः पर्यायैः । ३‘मा नस्तोके ४'ब्रह्मा देवानामिति द्वाभ्याम् ॥ १३ ॥

अनु०—"कृणुष्व पाजः प्रसितिं न पृथ्वीम्” आदि अनुवाक का, 'ये देवाः पुरस्सदोऽग्निनेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु” आदि पाँच वाक्यों का, "मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तो नमसा विधेम ते ।” ( तैत्तिरीय संहिता ४.५.१०.३ ) तथा “ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन्” ( तैत्तिरीय संहिता ३.४.११.१ ) मन्त्रों का पाठ करता रहे ॥ १३ ॥

टि०—'कृणुष्व पाजः' आदि तैत्तिरीय संहिता १.२.४ का अनुवाक है । 'ये देवाः” आदि वाक्य तैत्तिरीय संहिता १.८.७.१ का है ।

'ये देवाः रक्षोहणः' इत्येतस्य पदत्रयस्य पञ्चस्वप्यनुषङ्गार्थं 'अग्निनेत्रा रक्षोहणः' इति पठितम् । 'नमो रुद्राय' इत्यादि 'ब्रह्मा देवानाम्' इत्येवमन्ता मन्त्रा ५रक्षामन्त्राः ॥ १३ ॥


१. 'कृणुष्वपाज' इत्यनुवाकस्तैत्तिरीयसंहितायां प्रथमकाण्डे द्वितीयप्रश्नेऽन्तिमोऽनुवाकस्ततोऽवगन्तव्यः ।
२. ये देवाः पुरस्सदोऽग्निनेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यस्स्वाहा ये देवा दक्षिणसदो यमनेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यस्स्वाहा ये देवाः पश्चात्सदस्सवितृनेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यस्स्वाहा ये देवा उत्तरसदो वरुणनेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यस्स्वाहा ये देवा उपरिषदो वृहस्पतिनेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यस्स्वाहा । इत्यनुषङ्गप्रकारः । ( तै. सं. १.८.७.१. ) ।
३. मानस्तोके तनये मा न आयुषि मा नोगोषु मा नो अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तो नमसा विधेम ते ॥ ( तै. सं. ४.५.१०.३ )
४. ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणा ५स्वधितिर्वनाना१् सोमः पवित्रमत्येति रेभन् ॥ ( तै. सं. ३.४.११.१ )
५. रक्षोहणमन्त्रा इति. घ. पु. ।