बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 60, कुल 486 में से
संदर्भ में पढ़ें| ८ | बौधायन-धर्मसूत्रम् | [ देशाचारः |
|---|
अथैनामघिनोऽप्यवस्थां परिज्ञाय प्रायश्चित्तं विधीयत इत्याह—
शरीरं बलमायुश्च वयः कालं च कर्म च ।
समीक्ष्य धर्मविद्बुद्ध्या प्रायश्चित्तानि निर्दिशेत् ॥ १६ ॥
अनु०--शरीर, बल, आयु, अवस्था, समय और कर्म का पूरी तरह से विचार करके ही धर्मज्ञाता विवेकपूर्वक प्रायश्चित्त का विधान करे ॥ १६ ॥
शरीरं वातप्रकृतिकं पित्तप्रकृतिमित्यादि । आयुः ज्ञानं अयतेर्गत्यर्थादौणादिकः उण्प्रत्ययः । वयः बाल्यादिलक्षणम् । कालः शीतोष्णादिलक्षणः । कर्म प्रायश्चित्तस्य निमित्तभूतं सानुबन्धं हिंसादि ॥ १६ ॥
इति प्रथमप्रश्ने प्रथमाध्याये प्रथमः खण्डः ॥ १ ॥
प्रथमाध्याये द्वितीयः खण्डः
श्रौतस्मार्तशिष्टागम इति त्रिविधो धर्मो व्याख्यातः । तथा तत्र तत्र व्यवस्थिततया शिष्टाचारितानां धर्माणां—
पञ्चधा विप्रतिपत्तिर्दक्षिणतस्तथोत्तरतः ॥ १ ॥
अनु०--दक्षिण और उत्तर में पाँच विषयों में पारस्परिक विरोध है ॥ १ ॥
टिप्पणी--गोविन्दस्वामी ने व्याख्या में दक्षिण से नर्मदा और विन्ध्य के बीच के भूप्रदेश का तथा उत्तर से विन्ध्य से लेकर हिमालय तक का प्रदेश बताया है ।
दक्षिणेन नर्मदामुत्तरेण¹ कन्यातीर्थम् । उत्तरतस्तु दक्षिणेन हिमवन्तमुदग्विन्ध्यस्य । एतद्देशप्रसूतानां शिष्टानां परस्परं पञ्चधा विप्रतिपत्तिः विसंवादः 'यान् पदार्थान् अनुतिष्ठन्ति दाक्षिणात्याः न तानुदीच्याः । यानुदीच्या न तान् दाक्षिणात्याः' इति ॥ १ ॥
तत्र प्रथमम्—
यानि दक्षिणतस्तानि व्याख्यास्यामः ॥ २ ॥
अनु०—इनमें जो आचरण विशेषतः दक्षिण में प्रचलित हैं उनकी हम व्याख्या करेंगे ॥ २ ॥
²निगदव्याख्यातमेतत् ॥ २ ॥
१. कन्याकुमारी इति दक्षिणसमुद्रतीरे प्रसिद्धं स्थानम् ।
२. पाठमात्रेणार्थोऽवगम्यते । नाऽत्र व्याख्यानापेक्षेत्यर्थः ।