भारतकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 62, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 62
१०बौधायन-धर्मसूत्रम्[ देशाचारः

'तथा हि—अहिच्छत्रब्राह्मण्यस्सुरां पिबन्ति ।। इति च ॥ ५ ॥'

ननु किमिति व्यवस्था ? यावता मूलश्रुतिरेषामविशेषेण कल्प्यते यथा ^२होलाकादीनाम् । यथा वा बौधायनीयं धर्मशास्त्रं कैश्चिदेव पाठ्यमानं सर्वाधिकारं भवति । गौतमयोगोभिलोये छन्दोगैरेव पठ्येते, वासिष्ठं तु बह्वृचैः, अथ च सर्वाधिकारणि । यथा वाऽन्यानि शास्त्राणि यथा वा गृह्यशास्त्राणि सर्वाधिकारणि, तद्वदनुपनीतसहभोजनादीन्यपि समानि कस्मान्न भवन्तोत्याशङ्कयाऽऽह—

तत्र तत्र देशप्रामाण्यमेव स्यात् ॥ ६ ॥

अनु०--इन विशिष्ट विषयों में उसी प्रदेश के नियम को प्रमाण मानना चाहिए ॥ ६ ॥

एवं व्यवस्थितविषयैव मूलश्रुतिः कल्प्यते । किन्नामाऽनुपपत्तिं कल्पयतीत्यभिप्रायः । तस्माद्व्यवस्थितविषयमेवाऽनुष्ठानं तद्वर्जनं च ।

मिथ्यैतदिति गौतमः ॥ ७ ॥

अनु०--किन्तु यह मिथ्या है, ऐसा धर्मसूत्रकार गौतम का मत है ॥ ७ ॥

टि०--गौतम आदि सूत्रकारों ने इन विशिष्ट स्थानीय आचरण नियमों को प्रामाणिकता नहीं प्रदान की है, वे उन धर्मों को तभी प्रमाण मानते हैं जब वे श्रुति सम्मत धर्म के अविरुद्ध हों । प्रायः सूत्रकारों ने यहाँ उल्लिखित विशिष्ट स्थानीय आचारों के विषय में भी प्रायश्चित्त की व्यवस्था की है । गोविन्दस्वामी ने अपनी टीका में कतिपय नियमों को उद्धृत किया है ।

गौतमग्रहणमादरार्थम्, नाऽऽत्मीयं मतं पर्युदसितुम् । स होवमाह—'देशजातिकुलधर्माश्चाऽऽम्नायैरविरुद्धाः प्रमाणम्' । तद्विरुद्धो देशादिधर्मो न कर्तव्यः । तद्विरुद्धश्चाऽयम् । आह च गृत्समदः-'अनुपनीतसहभोजने द्वादशरात्रमुच्छिष्टभोजने द्विगुणम्' इति । प्रायश्चित्तविधानान्निषेधः कल्प्यते । तथा 'स्त्रिया सह भोजने त्रिरात्रोपवासो घृतप्राशनं चेति' । तथा 'पर्युषितभोजने अहोरात्रोपवासः' इति संवर्तः । तथा मातुलदुहितृगमनेऽप्याह—


१. तन्त्रवार्तिके शिष्टाकोपाधिकरणे—अद्यत्वेऽप्याहिच्छत्रमथुरानिवासिब्राह्मणीनां सुरापानम्, इति वाक्यमस्ति । तदेवात्राऽनूदितमिति मन्यामहे ।
२. होलाकादयो देशविशेषेष्वनुष्ठीयमाना अपि न व्यवस्थाविषयाः । किन्तु सर्वैरप्यनुष्ठेया इति व्यवस्थापितं होलाकाधिकरणे पूर्वमीमांसायाम् । ( १.३.८. ) होलाका नाम फाल्गुनपोर्णमास्यां क्रियमाण उत्सवविशेषः ।