बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
| १० | बौधायन-धर्मसूत्रम् | [ देशाचारः |
|---|
'तथा हि—अहिच्छत्रब्राह्मण्यस्सुरां पिबन्ति ।। इति च ॥ ५ ॥'
ननु किमिति व्यवस्था ? यावता मूलश्रुतिरेषामविशेषेण कल्प्यते यथा ^२होलाकादीनाम् । यथा वा बौधायनीयं धर्मशास्त्रं कैश्चिदेव पाठ्यमानं सर्वाधिकारं भवति । गौतमयोगोभिलोये छन्दोगैरेव पठ्येते, वासिष्ठं तु बह्वृचैः, अथ च सर्वाधिकारणि । यथा वाऽन्यानि शास्त्राणि यथा वा गृह्यशास्त्राणि सर्वाधिकारणि, तद्वदनुपनीतसहभोजनादीन्यपि समानि कस्मान्न भवन्तोत्याशङ्कयाऽऽह—
तत्र तत्र देशप्रामाण्यमेव स्यात् ॥ ६ ॥
अनु०--इन विशिष्ट विषयों में उसी प्रदेश के नियम को प्रमाण मानना चाहिए ॥ ६ ॥
एवं व्यवस्थितविषयैव मूलश्रुतिः कल्प्यते । किन्नामाऽनुपपत्तिं कल्पयतीत्यभिप्रायः । तस्माद्व्यवस्थितविषयमेवाऽनुष्ठानं तद्वर्जनं च ।
मिथ्यैतदिति गौतमः ॥ ७ ॥
अनु०--किन्तु यह मिथ्या है, ऐसा धर्मसूत्रकार गौतम का मत है ॥ ७ ॥
टि०--गौतम आदि सूत्रकारों ने इन विशिष्ट स्थानीय आचरण नियमों को प्रामाणिकता नहीं प्रदान की है, वे उन धर्मों को तभी प्रमाण मानते हैं जब वे श्रुति सम्मत धर्म के अविरुद्ध हों । प्रायः सूत्रकारों ने यहाँ उल्लिखित विशिष्ट स्थानीय आचारों के विषय में भी प्रायश्चित्त की व्यवस्था की है । गोविन्दस्वामी ने अपनी टीका में कतिपय नियमों को उद्धृत किया है ।
गौतमग्रहणमादरार्थम्, नाऽऽत्मीयं मतं पर्युदसितुम् । स होवमाह—'देशजातिकुलधर्माश्चाऽऽम्नायैरविरुद्धाः प्रमाणम्' । तद्विरुद्धो देशादिधर्मो न कर्तव्यः । तद्विरुद्धश्चाऽयम् । आह च गृत्समदः-'अनुपनीतसहभोजने द्वादशरात्रमुच्छिष्टभोजने द्विगुणम्' इति । प्रायश्चित्तविधानान्निषेधः कल्प्यते । तथा 'स्त्रिया सह भोजने त्रिरात्रोपवासो घृतप्राशनं चेति' । तथा 'पर्युषितभोजने अहोरात्रोपवासः' इति संवर्तः । तथा मातुलदुहितृगमनेऽप्याह—
१. तन्त्रवार्तिके शिष्टाकोपाधिकरणे—अद्यत्वेऽप्याहिच्छत्रमथुरानिवासिब्राह्मणीनां सुरापानम्, इति वाक्यमस्ति । तदेवात्राऽनूदितमिति मन्यामहे ।
२. होलाकादयो देशविशेषेष्वनुष्ठीयमाना अपि न व्यवस्थाविषयाः । किन्तु सर्वैरप्यनुष्ठेया इति व्यवस्थापितं होलाकाधिकरणे पूर्वमीमांसायाम् । ( १.३.८. ) होलाका नाम फाल्गुनपोर्णमास्यां क्रियमाण उत्सवविशेषः ।
द्वितीयः खण्डः ] प्रथमप्रश्ने प्रथमोऽध्यायः ११
द्वितीयः खण्डः ] प्रथमप्रश्ने प्रथमोऽध्यायः ११
सखिभार्यां समारुह्य मातुलस्याऽऽत्मजां तथा ।
चान्द्रायणं द्विजः कुर्याच्छ्वश्रमपि तथैव च ॥ इति ॥
तथा विवाहेऽपि—
पञ्चमीं मातृबन्धुभ्यः सप्तमीं पितृबन्धुतः ॥ इति ॥
आह च—
पैतृष्वसेयीं भगिनीं स्वस्त्रीयां मातुरेव च ।
मातुश्च भ्रातृरात्रां च गत्वा चान्द्रायणं चरेत् ॥
एवमूर्णाविक्रयादिष्वप्याम्नायविरोधः प्रसिद्धः । ऊर्णा तावदपण्येषु पठिता । शीधुपाने गौतमः—‘नित्यं मद्यमपेयं ब्राह्मणस्य’ इति । तथोभयदन्तव्यवहारे वसिष्ठः—‘अश्वलवणमपण्यम्’ इति प्रकृत्य ‘ग्राम्यपशूनामेकशफाः केशिनश्च’ इत्याह । तथा च श्रुतिः—‘य उभयादत्प्रतिगृह्णात्यश्वं वा पुरुषं वा वैश्वानरं द्वादशकपालं निर्वपेत्’ इति प्रायश्चित्तम् । तथाऽऽयुधीयकेऽपि ‘परीक्षार्थोऽपि ब्राह्मण आयुधं नाऽऽददीत’ इति । स्वयमेव पतनीयेषु समुद्रसंयानं (२.१.४१) वक्ष्यति । एवमादीन्यालोच्याऽऽम्नायैरविरुद्धाः प्रमाणमित्युक्तम् । अतो ‘मिथ्यैतदिति गौतमः’ इत्युपपन्नं भवति ॥ ७ ॥
एतदेव स्वमतमित्याह—
'उभयं चैव नाऽऽद्रियेत ॥ ८ ॥
अनु०— ( उत्तर और दक्षिण ) दोनों ही प्रदेशों के विशिष्ट रिवाजों का आचरण नहीं करना चाहिए ॥ ८ ॥
च-शब्दः पक्षव्यावृत्त्यर्थः । अनुपेतादि सहभोजनमूर्णाविक्रयादि चोभयमपि न कर्तव्यमित्यभिप्रायः ॥ ८ ॥
कस्मादित्याह—
शिष्टस्मृतिविरोधदर्शनात्² शिष्टागमविरोधदर्शनाच्च ॥ ९ ॥
अनु०— क्योंकि ये आचरण ( मनु आदि ) शिष्ट जनों की स्मृतियों के विरुद्ध हैं तथा शिष्ट जनों की परम्परा के विरुद्ध हैं ॥ ९ ॥
टि०— यह सूत्र कहीं कहीं खण्डित मिलता है । गोविन्दस्वामी ने शिष्ट का अर्थ मनु से लिया है । "शिष्टो हि मनुः" ।
१. उभयं त्वेव नाद्रियेत । तुशब्दः पक्ष. इति. ग. पु.
२. ‘शिष्टागमविरोधदर्शनात्’ इति नास्ति घ. पुस्तके सूत्रमिदमनुवदत्सु ग्रन्थान्तरेषु च ।
| १२ | बौधायन-धर्मसूत्रम् | [ देशाचारः |
|---|
शिष्टाममविरोधस्तावत् स्वयमुदितः 'पञ्चधा विप्रतिपत्तिः' ( १. २१. ) इत्यत्र । स्मृतिविरोधश्चाऽनुपनीतादिसहभोजने प्रायश्चित्तविधानात् । शिष्टस्मृतिविरोधः मनुविरोधः । शिष्टो हि मनुः । तद्विरोधश्च । तत्स्मृतिः शिष्टस्मृतिः । शिष्टस्मृतिविरोधः सोऽपि दर्शित एव । एकसूत्रतां त्वेके मन्यन्ते । यथा होलाकादयो व्यवस्थितदेशविषया अप्यन्यव्यवस्थिताः कर्तव्याः । इत्थमिमेऽपीत्यस्य चोद्यस्य व्यवस्थितदेशश्रुत्यनुमानमुक्तं 'तत्र तत्र देशप्रामाण्यमेव स्यात्' (१.२६.) इति तत्राह—'उभयं चैव नाऽऽद्रियेत शिष्टस्मृतिविरोधदर्शनात्' इति । स च विरोध उक्तः । तस्मादविरुद्धत्वाद्वोलाकाद्यनुष्ठानं सर्वाधिकारकम् । इह विरोधादनुपनीतसहभोजनादिवर्जनं सर्वाधिकारमिति विशेषः । आहुश्च न्यायविदः 'विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्' इति ॥ ५ ॥
अथ शिष्टदेशानाह—
'प्रागदर्शनात् प्रत्यक्कालकवनाद्दक्षिणेन हिमवन्तमुदक्पारियात्रमेतदार्यावर्तं तस्मिन् य आचारस्स प्रमाणम्' ॥ १० ॥
अनु०—( सरस्वती नदी के ) लुप्त होने के स्थान से पूर्व की ओर कालकवन नाम के वन से पश्चिम हिमालय पर्वत से दक्षिण का और पारियात्र पर्वत से उत्तर का भूभाग आर्यावर्त है, इस भूभाग में जो आचार-नियम प्रचलित है वही प्रमाण है ।
**टि०—**द्रष्टव्य मनु० २।२२ 'आ समुद्रात्तु वै पूर्वादासमुद्रात्तु पश्चिमात् । तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः ।'
तत्राऽपि शिष्टस्मृतिविरोधेऽनपेक्ष्यमेव ॥ १० ॥
१. अदर्शनः सरस्वत्या नद्या यत्र देशेऽन्तर्धानं स देशः । आर्यावर्तलक्षणं मनुनोक्तम्—आसमुद्रात्तु वै पूर्वादासमुद्रात्तु पश्चिमात् । तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः ॥ इति ॥ ( मनु० २-२२ ) शूद्राणामनिरवसितानाम् ( २. ४. १० ) इति पाणिनिसूत्रे भगवान् पतञ्जलिः 'कः पुनरार्यावर्तः ?' इति प्रश्नमुत्थाप्य तत्समाधानत्वेन "प्रागादर्शात् प्रत्यक्कालकवनाद् दक्षिणेन हिमवन्तमुदक्पारियात्रम्" इतीदमेव सूत्रमुददीधरत् इति प्रतिभाति । तत्रा "ऽऽदर्शादयः पर्वतविशेषाः" इति कैयटेन व्याख्यातम् । परन्तु बहुषु बौधायनधर्मसूत्रपुस्तकेषु हस्तलिखितेषु मुद्रितेषु च "प्रागदर्शनात्" इत्येव पाठस्समुपलभ्यते । अतः 'यत्प्राग्विनशनादपि' इति मनुवचनानुरोधेन च सूत्रे "अदर्शनात्" इत्येव पाठस्समुचितः, तस्य च यत्र सरस्वती नदी अदर्शनं गता स देशः विनशनाख्य एवाऽयं इत्युचितं प्रतिभाति ।
द्वितीयः खण्डः ] प्रथमप्रश्ने प्रथमोऽध्यायः १३
द्वितीयः खण्डः ] प्रथमप्रश्ने प्रथमोऽध्यायः १३
'गङ्गायमुनयोरन्तरमित्येके ॥ ११ ॥
अनु०—कुछ आचार्यों के अनुसार गंगा और यमुना नदियों के बीच का भूप्रदेश आर्यावर्त है ॥ ११ ॥
आर्यावर्तत्वे विकल्पः ॥ ११ ॥
अथाऽप्यत्र भाल्लविनो गाथामुदाहरन्ति ॥ १२ ॥
अनु०—इस सम्बन्ध में भाल्लविन् शाखा के अनुयायी एक गाथा भी उद्धृत करते हैं ॥ १२ ॥
टि०—गोविन्द स्वामी की टीका में भाल्लवियों को सामवेद की एक शाखा का बताया गया है ।
आर्यावर्तान्तरप्रदर्शनार्थं भाल्लविनः छन्दोगविशेषाः । गाथा श्लोकः ॥१२॥
तमाह— पश्चात् सिन्धुर्विसरणी सूर्यस्योदयनं पुरः । यावत्² कृष्णो विधावति तावद्धि ब्रह्मवर्चसमिति ॥ १३ ॥
अनु०—पश्चिम में लुप्त होनेवाली नदी पूर्व में सूर्य के उदय का स्थान —इनके बीच जहाँ तक कृष्णमृग पाया जाता है, वहाँ तक ( अध्ययन, ज्ञान, अनुष्ठान से उत्पन्न ) ब्रह्मतेज भी पाया जाता है ॥ १३ ॥
टि०—'सिन्धुः विसरणी' का सामान्यतः लुप्त होनेवाली नदी अर्थ किया गया है, किन्तु 'विकरणी' या 'विकरण' पाठ भी मिलता है जिसका अर्थ विभाजन करनेवाली नदी है । 'सिन्धु-विसरणी' से सरस्वती का अर्थ लेना अधिक संगत प्रतीत होता है ।
कृष्णः कृष्णमृगः । ब्रह्मवर्चसं अध्ययनज्ञानानुष्ठानाभिजनसम्पत् । म्लेच्छ-देशस्त्वतः परम् ॥ १३ ॥
तदाह- अवन्तयोऽङ्गमगधाः सुराष्ट्रा दक्षिणापथाः । उपावृत्सिन्धुसौवीरा एते संकीर्णयोनयः ॥ १४ ॥
१. अस्य च मूलम्—तैत्तिरीयारण्यके द्वितीयप्रपाठकान्तिमानुवाकस्यं "नमो गङ्गायमुनयोर्मुनिभ्यश्च नमः" इति वाक्यमिति विभावयामः ॥
२. कृष्णा विधावन्तीति क. पु. अत्र वासिष्ठान्यपि सूत्राणि प्रायश इमान्येवा-ऽनुकुर्वन्ति ।
१४ | बौधायन-धर्मसूत्रम् | [ अगम्यदेशाः
**अनु०—**अवन्ति, अङ्ग, मगध, सुराष्ट्र, दक्षिणापथ, उपावृत्, सिन्धु देशों के निवासी तथा सौवीर संकीर्णयोनि (मिश्रित उत्पत्तिवाले) होते हैं ॥ १४ ॥
**टि०—**इस गाथा का भाव यह है कि इन देशों में जो नियम या आचार प्रचलित है वे प्रामाणिक नहीं हैं, क्योंकि इन देशों के निवासियों की उत्पत्ति शुद्ध नहीं है।
^१स्त्रीषु व्यवस्था नाऽस्तीति यावत् । अवन्त्यादिषु कल्याणचारो नाऽस्ति ॥ १४ ॥
किञ्च–केचिद्देशाः प्रवेशार्हा अपि न भवन्ति । तत्प्रवेशे प्रायश्चित्तविधा-नात् । तत्र दूरोत्सारितमाचारग्रहणमित्याह—
आरट्टान् कारस्करान् पुण्ड्रान् सौवीरान् वंगान् कलिङ्गान् प्रानूनानिति च गत्वा पुनस्तोमेन यजेत सर्वपृष्ठया वा ॥ १५ ॥
**अनु०—**आरट्ट, कारस्कर, पुण्ड्र, सौवीर, वंग, कलिग, प्रानून—इनमें से किसी प्रदेश की यात्रा करने पर (प्रायश्चित्तस्वरूप) पुनस्तोम या सर्वपृष्ठा इष्टि करनी चाहिए ॥ १५ ॥
**टि०—**इस सूत्र के अनुसार उपर्युक्त प्रदेशों में प्रवेश करना पापजनक या दोष का कारण होता है और उसके लिए प्रायश्चित्त करना होता है । अवन्ती प्रयाग से पश्चिमोत्तर प्रदेश, अंग पूर्वी बंगाल, मगध बिहार, सौराष्ट्र दक्षिणी काठियावाड़ का प्रदेश है । सौवीर सम्भवतः पश्चिमी-दक्षिणी पंजाब के निवासी थे ।
आरट्टों का निवासस्थान पंजाब था, कारस्कर सम्भवतः दक्षिण भारतीय थे । कलिग कृष्णा नदी के मुहाने और उड़ीसा के बीच का प्रदेश है । उल्लेख ऐतरेय ब्राह्मण ७।१८ में तथा महाभारत में भी है । इस विषय में ब्यूह्लैर के अंग्रेजी अनुवाद की टिप्पणी द्रष्टव्य है ।
^२पुनस्तोमो नाम एकाहः । इष्टप्रथमसोमस्यैव प्रायश्चित्तमेकाहकाण्डोक्तं द्रष्टव्यम् । 'यदि पद्धयामेव विशेषं कुर्वीतैष ह वै पद्धयां पापं करोत्यारट्टान् कारस्करान् पुण्ड्रान् सौवीरान् वा गच्छति' इति । ^३सर्वपृष्ठेष्टिस्त्वाहिताग्नि-
१. स्त्रीपुंसयोरिति, ग. पु.
२. अथैष पुनस्तोमः “यो बहु प्रतिगृह्य गरगीरिव मन्येत स एतेन यजेत” ( तां. ब्रा. १९.४. १) ( का. श्रौ. २२.१०.१६) इत्यनेन यो विहितस्सोमयाग एकाहा-त्मकः सः । एकसुत्याकस्सोमयाग एकाह इत्युच्यते ।
३. बृहत्, रथन्तर वैरूप, नैराज, शाक्वर, रैवताख्यानि, षट् सामानि पृष्ठाख्य-स्तोत्रसाधनभूतानि । तत्प्रतिपाद्यगुणविशिष्ट इन्द्रो देवताऽस्या इष्टेरिति कृत्वा इष्टि-रियं सर्वपृष्ठेष्टिरिति कथ्यते ।
द्वितीयः खण्डः ] प्रथमप्रश्ने प्रथमोऽध्यायः १५
द्वितीयः खण्डः ] प्रथमप्रश्ने प्रथमोऽध्यायः १५
मात्रस्य। सा च 'य इन्द्रियकामो वीर्यकामस्स्या'दित्यत्र विहिता। अनाहिता- ग्नेस्तु वक्ष्यति—'प्रतिषिद्धदेशगमन' इति ॥ १५ ॥
पुनरप्याहिताग्नेरेव देशान्तरगमने प्रायश्चित्तमाह—
अथाऽप्युदाहरन्ति—
पद्भ्यां स कुरुते पापं यः कलिङ्गान् प्रपद्यते । ऋषयो निष्कृतिं तस्य प्राहुर्वैश्वानरं हविः ॥ १६ ॥
अनु०—इसी विषय में एक और गाथा कही जाती है—जो कलिङ्ग देश की यात्रा करता है वह पैरों से पाप करता है, उसके प्रायश्चित्त के लिए ऋषियों ने वैश्वानरी इष्टि का विधान किया है ॥ १६ ॥
टि०—कलिङ्गगमन के लिए १५ के अन्तर्गत उद्धृत गाथा में पुनस्तोम या सर्वपृष्ठ इष्टि का प्रायश्चित्त बताया गया है, उसका अन्य विकल्प वैश्वानरी इष्टि भी है । गोविन्दस्वामी ने एक विशिष्टता प्रदर्शित की है कि आरट्ट आदि में न केवल प्रवेश के लिए अपितु वहाँ के लोगों के साथ बोलने, उठने-बैठने के लिए भी प्रायश्चित्त करना होता है, किन्तु कलिग में यात्रामात्र के लिए ही प्रायश्चित्त करना होता है ।
वैश्वानरं हविः वैश्वानरेष्टिः । एषा च कलिङ्गगमने सर्वपृष्ठया सह विकल्प्यते । अथ वा—आरट्टादिषु न गमनादेव प्रायश्चित्तं किं तर्हि सम्भाषण-सहासनादिभिरपि । कलिङ्गे पुनर्गमनमात्रमिति विशेषः ॥ १६ ॥
अथाऽप्याह—
बहूनामपि दोषाणां कृतानां दोषनिर्णये । पवित्रेष्टिं प्रशंसन्ति सा हि पावनमुत्तममिति ॥ १७ ॥
अनु०—अनेक दोषों या पापों के करने पर दूर करने के लिए पवित्रेष्टि की ही प्रशंसा की गयी हैं ? वही सर्वाधिक पवित्र करनेवाली इष्टि है ।
निर्णये नितरां नये अपनोदने । पवित्रेष्टिश्च यज्ञप्रायश्चित्तेषु प्रसिद्धा ॥१७॥
अथैतत्प्रसङ्गादाह—
'वैश्वानरीं व्रातपतीं पवित्रेष्टिं तथैव च ।
१. वैश्वानरं द्वादशकपालं निर्वपेत् ( तै. सं. २.२.६ ) इति विहितेष्टिर्वैश्वानरी । अग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेद्य आहिताग्निसन्नव्रत्यमिव चरेत्
| १६ | बौधायन-धर्मसूत्रम् |
|---|
ऋतावृतौ प्रयुञ्जानः पापेभ्यो विप्रमुच्यते ²पापेभ्यो विप्रमुच्यत इति ॥ १८ ॥
**अनु०—**जो वैश्वानरी इष्टि, व्रातपती इष्टि तथा पवित्रेष्टि को क्रमशः प्रत्येक ऋतु में करता है वह सभी पापों से पूर्णतः मुक्त हो जाता है ।
पवित्रेष्ट्याः पूर्वत्र ग्रहणं प्रशंसार्थम् । इह तु ऋतावृतार्विति कालविधानार्थम् । आसामेकैकस्या एव प्रयोगः । द्विरुच्चारणमादरार्थं विशेषज्ञापनार्थं वा ॥ १८ ॥
इति प्रथमप्रश्ने प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥
प्रथमाध्याये तृतीयः खण्डः
ब्रह्मचर्यमुपायच्छेत् गुरुशुश्रूषणं तथा ।
समिद्भैक्षगुरूक्तानां प्रायश्चित्तं विधीयते ॥
अथ ब्रह्मचर्यं प्रस्तूयते—तच्च समिदाधानं •भिक्षाचरणमाचार्योक्तकरणं स्वाध्यायाध्ययनं चेति । तच्चैतत् 'ब्राह्मणो वै ब्रह्मचर्यमुपयच्छंश्चतुर्धा भूतानी' ( १.४.७ ) त्यत्र स्पष्टीकरिष्यति । तत्कियन्तं कालं चरितव्यमित्यत आह—
अष्टाचत्वारिंशद्वर्षाणि पौराणं वेदब्रह्मचर्यम् ॥ १ ॥
**अनु०—**वेद के अध्ययन के लिए ब्रह्मचर्य की अवधि पुराने लोगों ने अड़तालीस वर्ष की निर्धारित की है ।
**टि०—**यज्ञोपवीत के बाद अड़तालीस वर्ष का ब्रह्मचर्य वेदाध्ययन के लिए निर्धारित था । पुराण से कृतयुगपुरुष, मनु आदि का अर्थ लिया जाता है । द्र०—गोविन्दस्वामी । अथवा पुराण से वेद का अर्थ लेंगे और वे 'तत्र भवं पौराणम्' अथवा इतिहास पुराण से उत्पन्न ।
( तै. सं. २.२.२.२ ) इति विहितेष्टिव्रातपती । अग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेत्, अग्नये पावकाय, अग्नये शुचये, इतीष्टित्रयम्, पूर्वोक्ताभ्यां वैश्वानरी, व्रातपतीभ्यां सहेष्टिपञ्चकं पवित्रेष्टिरित्युच्यते ।
२. द्विरुक्तिरध्यायसमाप्तिसूचिकेति युक्तं वदितुम् ।
तृतीयः खण्डः ] प्रथमप्रश्ने द्वितीयोऽध्यायः १७
तृतीयः खण्डः ] प्रथमप्रश्ने द्वितीयोऽध्यायः १७
पुरातनं पुराणं पौराणं कृतयुगपुरुषचरितम्। किं तत्? वेदस्वीकरणार्थं ब्रह्मचर्यं उपनयनात्प्रभृत्यष्टाचत्वारिंशद्वर्षपरिमितं च। तदिदानीन्तनैरपि कर्तव्यमिति वाक्यशेषः। यद्वा—पौराणं पुराणैर्मन्वादिभिर्दिष्टमाचरितं च। अथ वा—अनादित्वात् पुराणो वेदः तत्र भवं पौराणम्। यद्वा—प्रसिद्धेतिहास-पुराणप्रभवम् ॥ १ ॥
तस्यैव परिमाणान्तरमाह—
चतुर्विंशतिं द्वादश वा प्रतिवेदम् ॥ २ ॥
अनु०—अथवा प्रत्येक वेद के लिए चौबीस या बारह वर्ष के ब्रह्मचर्य का आचरण करे ॥ २ ॥
वर्षाणीत्यनुवर्तते । वाशब्दश्च प्रत्येकमभिसम्बध्यते ॥ २ ॥
संवत्सरावमं वा प्रतिकाण्डम् ॥ ३ ॥
अनु०—अथवा प्रत्येक काण्ड के लिए एक वर्ष के ब्रह्मचर्य का पालन करे ॥ ३ ॥
टि०—'संवत्सरावमम्' 'संवत्सराधिकम्' वा गोविन्द स्वामी। काण्ड पाँच हैं—प्राजापत्य, सौम्य, आग्नेय, वैश्वदेव, स्वायम्भुव। ब्यूहलेर ने तैत्तिरीय संहिता के सात काण्डों का निर्देश किया है। द्र० सेक्रेड बुक्स आफ दि ईस्ट, पृ० १४९, टि० ३।
प्राजापत्यादीनां ^१पञ्चानामपि काण्डानामेकैकस्मिन् काण्डे संवत्सरावमं वा संवत्सरावधिकमित्यर्थः। प्रतिशब्दो वीप्सार्थः ॥ ३ ॥
ग्रहणान्तं वा ॥ ४ ॥
अनु०—अथवा जब तक वेद का ग्रहण न करले तब तक ब्रह्मचर्य का आचरण करे ॥ ४ ॥
टि०—इस नियम के अनुसार वर्षों की किसी संख्या द्वारा ब्रह्मचर्याश्रम की अवधि का निर्देश नहीं किया गया है, अपितु वेद के अध्ययन, अर्थावबोध और ज्ञान को ही आवश्यक माना गया है। जब तक वेदविद्या का ज्ञान और अर्थावबोध न हो जाय तब तक दूसरे आश्रम में प्रवेश नहीं करना चाहिए।
यावता कालेन वेदस्वीकरणं भवति तावन्तं कालम्। एते च विकल्पास्सा-मर्थ्यापेक्षया द्रष्टव्याः। एतदुक्तं भवति—यावद्वेदस्वीकरणं तदर्थावबोधश्च न जायते तावन्नाऽऽश्रमान्तरप्रवेशाधिकार इति। तावदधीतवेदैराश्रमान्तर-प्रवेशः कार्यः, स त्वधीतवेदैरविप्लुतब्रह्मचर्येण च कार्यः।
१. प्राजापत्यसौम्याग्नेयवैश्वदेवस्वायम्भुवानि पञ्च काण्डानि। एतेषां स्वरूपं गृह्ये (३. १०.) द्रष्टव्यम्।
५ बौ० ध०
| १८ | बौधायन-धर्मसूत्रम् | [ उपनयनकालः |
|---|
आह च—
वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
अविप्लुतब्रह्मचयो गृहस्थाश्रममाविशेत् ॥ इति ॥
तथा च श्रुतिः—‘आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषे-
णाऽभिसमावृत्य कुटुम्बे शुचौ देशे’ इत्यादि ॥ ४ ॥
अधुना ग्रहणान्तपक्षमेव स्थापयितुं हेतुमाह—
जीवितस्याऽस्थिरत्वात् ॥ ५ ॥
**अनु०—**क्योंकि जीवन अनिश्चित है ॥ ५ ॥
**टि०—**इस सूत्र के अनुसार ब्रह्मचर्य की अवधि बहुत लम्बी नहीं होनी चाहिए क्योंकि आयु अनिश्चित है, और ब्रह्मचर्य की अवधि लम्बी होने पर अग्निष्टोम आदि अनेक यज्ञ कर्मों के लिए समय नहीं रह जायगा ।
पौराणिकादिवेदब्रह्मचर्यचरणं न कार्यम्, श्रौतस्य कर्मणोऽग्निहोत्रादेर्विच्छेदप्रसङ्गात् । किमिति विच्छेदः जीवितस्याऽस्थिरत्वात् ॥ ५ ॥
ननु कश्चित् कर्ता तावन्तं कालं जीवेदिति तेनैवाऽग्निहोत्रादि करिष्यते । तस्मान्न पूर्वेषां पक्षाणां त्यागो युक्त इत्याशङ्क्य श्रुतिविरोधमेव दर्शयति—
कृष्णकेशोऽग्नीनादधीतेति श्रुतिः ॥ ६ ॥
**अनु०—**श्रुति में कहा गया है कि केशों के काले रहते ही अग्नियों का आधान करना चाहिए ॥ ६ ॥
अनया श्रुत्या विरोधात्स्मार्तानां पूर्वेषां पक्षाणां त्यागः ॥ ६ ॥
अथेदानीं ब्रह्मचर्यस्य उपनयनानन्तरारम्भं दर्शयितुमनुपनीतस्य शास्त्रचोदितकर्मानधिकारमाह—
नास्य कर्म नियच्छन्ति किञ्चिदा मौञ्जिबन्धनात् ।
वृत्त्या शूद्रसमो ह्येष यावद्वेदेषु जायत इति ॥ ७ ॥
**अनु०—**मौञ्जीबन्धन (उपनयन संस्कार) के पहले बालक के कर्मों पर धर्माचार्य कोई बन्धन नहीं रखते । जब तक उसका पुनः जन्म वेद के माध्यम से नहीं होता तब तक वह आचरण से शूद्र के समान होता है ॥ ७ ॥
प्रायशो नियमरूपत्वाद्विधीनां नियच्छन्तोत्युक्तम् । तथा च गौतमः—‘यथोपपातंमूत्रपुरीषो भवती’ति । ननु किमिति तस्य धर्मानधिकारः ? यावता सोऽपि त्रैर्विणक एव । सत्यम्, तथाऽपि वृत्त्या शूद्रसमो ह्येषः । वृत्तिर्वर्तनमा-
तृतीयः खण्डः ] प्रथमप्रश्ने द्वितीयोऽध्यायः १९
तृतीयः खण्डः ] प्रथमप्रश्ने द्वितीयोऽध्यायः १९
चारः । तथा च गौतमः—'प्रागुपनयनात्कामचारवादभक्ष' इति । वेदंजनन-मस्योपनयनम् । ननु प्रागुपनयनाच्छूद्रसम इत्यत्राऽतिदेशान्मद्यपानादिष्वप्य-दोषस्स्यात् । नैतदेवम् , शूद्रसम इत्यतिदेशान्न स्वयं शूद्रः, ततश्च न स्वजात्या-श्रयधर्मनिवृत्तिर्भवति । जात्याश्रयश्च मद्यपानादिप्रतिषेधः 'मद्यं नित्यं ब्राह्मण' इत्यादिस्मृतेः । अत्र पूर्वेणाऽर्धेन विध्यभावमाह । उत्तरेण च प्रतिषेधा-भावम् ॥ ७॥
उपनयनस्य कालमाह—
गर्भादिससङ्ख्यया वर्षाणां तदष्टमेषु ब्राह्मणमुपनयेत् ॥ ८ ॥
अनु०— ( उपनयन काल के लिए ) वर्षों की संख्या गर्भ के समय से गिनी जाती है, गर्भकाल से आठवें वर्ष में ब्राह्मण का उपनयन करना चाहिए ॥ ८ ॥
तदष्टमेषु गर्भाष्टमेष्वित्यर्थः । 'छन्दोवत्सूत्राणि'ति व्यत्ययेन परस्मैपदम् । यद्यपि गर्भादिसर्वोऽप्युपनयनस्य कालः, तथाऽपि प्राक्पञ्चमादसामर्थ्यान्निवृत्तिः पञ्चमप्रभृतिरिष्यत एव¹ 'पञ्चमे ब्रह्मवर्चसकामः' इत्यादिश्रुतिस्तस्तदा-दिरेव गृह्यते ॥ ८ ॥
त्र्यधिकेषु राजन्यमुपनयीत ॥ ९ ॥
अनु०— ( ब्राह्मण की अपेक्षा) तीन वर्ष अधिक काल में क्षत्रिय का उपनयन करे । अर्थात् गर्भ से ग्यारहवें वर्ष में क्षत्रिय का उपनयन होना चाहिए ॥ ९ ॥
गर्भेकादशेष्विति यावत् ॥ ९ ॥
तस्मादेकाधिकेषु वैश्यम् ॥ १० ॥
अनु०— ( क्षत्रिय से ) एक वर्ष अधिक में वैश्य का उपनयन करे । अर्थात् गर्भ से बारहवें वर्ष में वैश्य का उपनयन हो ॥ १० ॥
गर्भद्वादशेष्वित्यर्थः ॥ १० ॥
अत्राऽपि विशेषमाह—
²वसन्तो ग्रीष्मश्शरदित्यृतवो वर्णानुपूर्व्येण ॥ ११ ॥
अनु०— वर्णक्रमानुसार वसन्त, ग्रीष्म और शरद में उपनयन की ऋतुएँ होती हैं ॥ ११ ॥
१. सप्तमे ब्रह्मवर्चसकाम, इत्यापस्तम्बस्सत्याषाढश्च । गृह्यसूत्रेऽप्येवमेव । मनुस्तु पञ्चममेव स्मरति । मनु २, ३७,
२. Cf सू० १०. ४. of आपस्तम्बगृह्यसूत्र ।
२० बौधायन-धर्मसूत्रम् [ उपनयनकालः
उदगयनमात्रेऽपि केचिदिच्छन्ति । आह चाऽऽश्वलायनः—‘उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहा.’ इति । तस्मादुदगयनेऽपि योग्य नक्षत्रमारभेत । तदुपनयनं कर्तव्यम् । अथ कस्माद्वसन्तादावुपनयनोपसंहारो न भवति ? । उच्यते—उदगयनशब्दानर्थक्यप्रसङ्गान्नोपसंहारो युक्तः । उदगयन एव हि वसन्तो नाऽन्यत्र । तस्माद्वसन्तेऽप्युपनयनं कर्तव्यम् । वसन्तादिश्रुतिः किमर्था ? ^१विशेषज्ञापनार्था । अतश्च शुक्रास्तमयादिविरोधे सत्यपि वसन्ते कर्तव्यमिति वाक्यार्थः ॥ ११ ॥
गायत्रीत्रिष्टुब्जगतीभिर्यथाक्रमम् ॥ १२ ॥
**अनु०—**वर्णक्रमानुसार गायत्री, त्रिष्टुप् ओर जगती मन्त्रों से उपनयन करना चाहिए ॥ १२ ॥
उपनयीतेति शेषः ॥ १२ ॥
आपोडशादाद्वाविंशादाचतुर्विंशादित्यनात्यय एषां क्रमेण ॥ १३ ॥
**अनु०—**वर्णक्रमानुसार सोलहवें, बाइसवें और चौबीसवें वर्ष तक उपनयन का समय बीता हुआ नहीं माना जाता ॥ १३ ॥
अनात्ययः अनतिक्रमः उपनयनकालस्य ॥ १३ ॥
मौञ्जी धनुर्ज्या शाणीति मेखलाः ॥ १४ ॥
**अनु०—**वर्ण क्रम के अनुसार ही मूंज की ( ब्राह्मण की ), धनुष की डोरी ( क्षत्रिय की ) की तथा पटसन की ( वैश्य की ) मेखला होती है ॥ १४ ॥
एषां क्रमेणेत्यनुषज्यते । मौञ्जी ब्राह्मणस्य मेखलेत्यादि ॥ १४ ॥
कृष्णरुरुबस्ताजिनान्यजिनानि ॥ १५ ॥
**अनु०—**वर्णक्रम के अनुसार काले मृग, चितकबरे मृग तथा बकरे का चर्म अजिन होना चाहिए ॥ १५ ॥
एषां क्रमेण । अजिनशब्दः प्रत्येकमभिसम्बध्यते । कृष्णाजिनं ब्राह्मणस्येत्यादि । पुनरजिनग्रहणात् ^२कुशशरजातिकं वा उत्तरीयं स्मृत्यन्तराद्वेदितव्यम् । न त्वेवाऽनुत्तरीयस्यादित्यभिप्रायः ॥ १५ ॥
मूर्धललाटनासाग्रप्रमाणा याज्ञिकस्य वृक्षस्य दण्डाः ॥ १६ ॥
**अनु०—**वर्णक्रमानुसार सिर, ललाट और नासिका के अग्रभाग तक की ऊँचाई वाले ( पलाश आदि ) याज्ञिक वृक्षों के दण्ड होने चाहिए ॥ १६ ॥
१. प्रशंसाज्ञापनार्था इति क० पु.
२. कुशरज्ज्वादिकं इति ग. पु.
तृतीयः खण्डः ] प्रथमप्रश्ने द्वितीयोऽध्यायः २१
तृतीयः खण्डः ] प्रथमप्रश्ने द्वितीयोऽध्यायः २१
एषां क्रमेणेत्यनुषज्यते । याज्ञिकवृक्षविशेषाः पलाशोऽदयो¹ गृह्य एवोक्ताः । तेषां मध्ये प्रतिगृह्णीयादीप्सितं दण्डम् ॥ १६ ॥
भिक्षाचरणे कर्तव्ये ब्राह्मणस्य तावन्मन्त्रोद्धारमाह—
भवत्पूर्वां भिक्षामध्यां याञ्चान्तां चरेत् सप्ताक्षरां क्षां च² हिञ्च न वर्धयेत् ॥ १७ ॥
अनु०—'भवत्' को आरम्भ में 'भिक्षा' को मध्य में तथा याचनाार्थक क्रियापद को अन्त में रखते हुए सात अक्षर के मन्त्र ( वाक्य ) का उच्चारण करते हुए भिक्षा चरण करे, किन्तु ( भवति भिक्षां देहि' जैसे वाक्य में ) क्षां और हि का उच्च स्वर से उच्चारण न करे ॥ १७ ॥
भिक्षामन्त्रं व्यक्तमेवोच्चरेत् भवच्छब्दपूर्वां भिक्षाशब्दमध्यां याञ्चाप्रतिपादकशब्दान्तां सप्ताक्षरां चरेत् । एवं हि 'भवति भिक्षां देहि' इति सम्पन्नो भवति । तत्र च क्षाहिशब्दौ न वर्धयेत् नोच्चैराचक्षीतेत्यर्थः । वचने अवचने कण्वनिपातः ( ? ) । उच्चैराचक्षीतेति विधिर्गम्यते । यद्वा—ओदनादिदेयद्रव्यभेदे दातृभेदे च न वर्धयेत् । द्विवचनबहुवचन प्रयोगो न कर्तव्य इत्यर्थः । एवमुच्चारणमदृष्टार्थं भवति ॥ १७ ॥
अथ वर्णानुपूर्व्येण भिक्षामन्त्रोच्चारणवेलायां भवच्छब्दप्रयोगदेशमाह—
³भवत्पूर्वां ब्राह्मणो भिक्षेत भवन्मध्यां राजन्यो भवदन्त्यां वैश्यस्सर्वेषु वर्णेषु ॥ १८ ॥
अनु०—ब्राह्मण ( भिक्षा मन्त्र में ) 'भवत्' शब्द को पहले रखते हुए, क्षत्रिय 'भवत्' को मध्य में रखते हुए तथा वैश्य 'भवत्' को अन्त में रखते हुए भिक्षाचरण करे और सभी वर्ण से भिक्षा मांगे ॥ १८ ॥
टिप्पणी—सभी वर्ण से यहाँ केवल प्रथम तीन वर्णों से तात्पर्य है, शूद्र से नहीं: ‘प्रकृताश्च त्रैवर्णिकाः, ततश्च पर्युदस्तश्शूद्रः ।’—गोविन्दस्वामी ।
ब्राह्मणग्रहणं वर्णान्तरार्थमनुवादः । वर्णग्रहणेनैव सार्ववर्णिकभैक्षाचरणे सिद्धे सर्वग्रहणात् प्रकृतिविषयमिति गम्यते । प्रकृताश्च त्रैवर्णिकाः, ततश्च पर्युदस्तश्शूद्रः । ननु प्रतिलोमपर्युदासार्थः स किमिति न भवति ? भवतु यदि शूद्रान्नभोजनप्रतिषेधपराणि वाक्यानि न स्युः, सन्ति हि तानि ॥ १८ ॥
१. बौधायनगृह्ये द्वितीयप्रश्ने षष्ठखण्डे द्रष्टव्यम् ।
२. 'भि' इत्यपि पाठः ।
३. Cf. आपस्तम्बधर्मसूत्र. १. ३. २८–३०.
| २२ | बौधायन-धर्मसूत्रम् | [ ब्रह्मचारिधर्माः |
|---|
ते ब्राह्मणाद्यास्स्वकर्मस्थाः ॥ १९ ॥
अनु०— भिक्षाचरण ब्राह्मण आदि से ही करे जो अपने वर्णानुसार कर्म का आचरण करने वाले हों ॥ १९ ॥
स्वकर्मसु प्रसिद्धाः । तथा चाऽऽह गौतमः—'सार्ववर्णिकं भैक्षाचरणमभिशस्तपतितवर्जम्' ति । ननु 'द्विजातिषु स्वकर्मस्थेषु' इति सूत्रयितव्ये किमिति सूत्रद्वयारम्भः ? सत्यम्, अयं ह्याचार्यो नातीव ग्रन्थलाघवप्रियो भवति । अथवा आरम्भसामर्थ्यादेव प्रशस्ताभावे सत्यप्रशस्तद्विजातिष्वपि न दोष इति गम्यते ।
आह च मनुः—
वेद्यज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ।
ब्रह्मचार्याहरेद् भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥
सर्वं हि विचरेद् ग्रामं पूर्वोक्तानामसम्भवे ।
गौतमीयेऽपि सर्ववर्णग्रहणमप्रशस्तपरिग्रहार्थमेव ॥ १९ ॥
उक्तं भिक्षाचरणं ब्रह्मचर्ये । अथ समिदाधानमाह—
सदाऽरण्यात्समिध आहृत्याऽऽदध्यात् ॥ २० ॥
अनु०— प्रतिदिन वन से समिध् लाकर उनका अग्नि के ऊपर आधान करे ॥ २० ॥
अग्नाविति शेषः । अरण्यग्रहणं ससमित्कदेशप्रदर्शनार्थम् ॥ २० ॥
सत्यवादी ह्रीमाननहङ्कारः ॥ २१ ॥
अनु०— ब्रह्मचारी सत्यभाषी, लज्जाशील तथा अहङ्कार हीन होवे ॥ २१ ॥
स्यादिति शेषः ॥ २१ ॥
१पूर्वोत्थायी जघन्यसंवेशी ॥ २२ ॥
अनु०— ( गुरु से ) पहले सोकर उठे और रात्रि में गुरु के सोने के बाद शयन करे ॥ २२ ॥
गुरोरस्यादिति शेषः ॥ २२ ॥
सर्वत्राऽप्रतिहतगुरुवाक्योऽन्यत्र पातकात् ॥ २३ ॥
अनु०— उन कर्मों के आदेशों को छोड़कर, जिनके करने से पतित होने का विधान है, गुरु के सभी आदेशों का तत्काल पालन करना चाहिए ॥ २३ ॥
१. Cf आपस्तम्बधर्म १
तृतीयः खण्डः ] प्रथमप्रश्ने द्वितीयोऽध्यायः २३
तृतीयः खण्डः ] प्रथमप्रश्ने द्वितीयोऽध्यायः २३
गुरोर्वाक्यप्रतिघातः तदर्थाकरणं विलम्बनं वा । सोऽत्र दृष्टादृष्टार्थेषु कर्मसु । यद्वा—विद्याग्रहणात् प्रभृत्यूर्ध्वं च । अन्यत्र पातकात् पतनीयात् यस्मिन् गुरूक्तकर्मणि कृते ब्रह्महत्यादिना पतितो भवति तद्वर्जयेदित्यभिप्रायः ।
'यावदर्थसम्भाषी स्त्रीभिः ॥ २४ ॥
**अनु०—**स्त्रियों के साथ उतनी ही बात करे जितना प्रयोजन हो ॥ २४ ॥
बहुभाषणादतिप्रसङ्गसम्भवेदिति ॥ २४ ॥
नृत्तगीतवादित्रगन्धमाल्योपानच्छत्रधारणाञ्जनाभ्यञ्जनवर्जी ॥२५॥
**अनु०—**नृत्य, गीत, वादन, सुगन्धित द्रव्य का प्रयोग, मालाधारण, जूते और छाते का प्रयोग, आँखों में अंजन का प्रयोग, ( सिर पर या शरीर पर ) अभ्यञ्जन का प्रयोग—इन सबका वर्जन करे ॥ २५ ॥
वादित्रं पटहादि, गन्धश्चन्दनादि, माल्यं पुष्पादि, गन्धादिषु च त्रिषु धारणशब्दः प्रत्येकमभिसम्बध्यते—गन्धधारणमित्यादि । उपानद्ग्रहणं पादुकाया अप्युपलक्षणार्थम् । अञ्जनमक्ष्णोः । अभ्यञ्जनं शिरसि ।
दक्षिणं दक्षिणेन सव्यं सव्येन चोपसंगृह्णीयाद्दीर्घमायुः स्वर्गं चेच्छन् ॥ २६ ॥
**अनु०—**यदि दीर्घ आयु और स्वर्ग की इच्छा हो तो ( गुरु के ) दाहिने पैर को दाहिने हाथ से तथा बायें पैर को बाँये हाथ से स्पर्श करता हुआ प्रणाम करे ॥२६॥
**टिप्पणी—**आपस्तम्ब धर्म० १.२.५. २१ तथा विष्णु० २७.१५ में गुरु के चरण स्पर्श का नियम विशेष रूप से द्रष्टव्य है । कुछ पुस्तकों में इस सूत्र को दो भागों में विभक्त कर दिया गया है। आपस्तम्ब १.२.४.१५ में भी इसी प्रकार का अदृष्ट फल संयुक्त है।
दक्षिणं पादं दक्षिणेन पाणिना स्पृशेत् । इतरं चेतरेण । तदभिमुख एव ।
आह च—
व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः ॥ इति ॥
दीर्घमायुर्ध्यायन स्वर्गं च ॥ २६ ॥
'असावहं भो' इति श्रोत्रे संस्पृश्य मनस्समाधानार्थम् ॥ २७ ॥
**अनु०—**प्रणाम के समय अपने चित्त को एकाग्र करने के लिए कानों का स्पर्श करते हुए तथा 'असो अहं' ( अपना नाम लेकर ) भोः' कहना चाहिए ॥ २७ ॥
१. Cf आपस्तम्बधर्म १. ३. १६.
पादयोः कियान् देश उपसंग्राह्य इत्यत आह—
२४ बौधायन-धर्मसूत्रम् [ब्रह्मचारिधर्माः
उपसंग्रहणवेलायां च स्वश्रोत्रसंस्पर्शः कर्तव्यः चित्तसमाधानार्थम् । तत्र मन्त्रः—'असावहं भोः' इति । अस्मीति वाक्यसमाप्तिः । असावित्यात्मीयनाम-ग्रहणम् । 'गोविन्दशर्मा नामाऽस्मीति प्रयोगः ॥ २७ ॥
पादयोः कियान् देश उपसंग्राह्य इत्यत आह—
^२अधस्ताज्जान्वोरा पद्ध्याम् ॥ २८ ॥
अनु०—( पैरों का कितना भाग स्पर्श करे इस विषय में नियम है कि ) घुटनों से नीचे पैरों तक के भाग का स्पर्श करना चाहिए ॥ २८ ॥
उपसंगृह्णीयादिति शेषः ॥ २८ ॥
तत्राऽपवादमाह—
नाऽऽसीनो नाऽऽसीनाय न शयानो न शयानाय नाऽप्रयतो नाऽप्रयताय ॥ २९ ॥
अनु०—ब्रह्मचारी बैठे हुए अथवा बैठे हुए गुरु को, स्वयं लेटे हुए या लेटे हुए गुरु को, स्वयं अपवित्र रहने पर या गुरु के अपवित्र रहने पर प्रणाम न करे ॥ २९ ॥
उपसंगृह्णीयादित्यनुवर्तते । अप्रयतोऽशुचिः ॥ २९ ॥
^३काममन्यस्मै साधुवृत्ताय गुरुणाऽनुज्ञातः ॥ ३० ॥
अनु०—ब्रह्मचारी यदि चाहे तो गुरु की आज्ञा से अन्य उत्तम आचरण वाले विद्वान् के चरणों का भी स्पर्श कर सकता है ॥ ३० ॥
टि०—प्रायः सभी पुस्तकों में यह सूत्र ऊपर के सूत्र २६ के अंश के रूप में आया है, किन्तु टीका के आधार पर इसे ३० वें सूत्र के स्थान पर रखा गया है । द्रष्टव्य-पाद टिप्पणी ।
गुरोरन्यस्मै साधुवृत्ताय अनुष्ठानपराय विदुषे गुर्व्वनुज्ञया तत्सन्निधाव-प्युपसंगृह्णीयात् । कामग्रहणात्निवृत्तिरपि प्रतीयते । असन्निधौ तु बिनाऽप्यनु-ज्ञया कुर्यादेव ॥ ३० ॥
१. अत्र ग्रन्थकर्ता प्रयोगप्रदर्शनव्याजेन स्वनाम निर्दिशति ।
२. 'सकुष्ठिकमुपसंगृह्णीयात्' इत्यापस्तम्बः । सगुल्फमित्यर्थः । १५. २१.
३. सूत्रमिदं २६ सूत्रानन्तरमेव पठितं सर्वेष्वपि मूलपुस्तकेषु । व्याख्यानपुस्तकेषु तु सर्वत्राऽत्रैव पठितमुचितं च ।
तृतीयः खण्डः ] प्रथमप्रश्ने द्वितीयोऽध्यायः २५
तृतीयः खण्डः ] प्रथमप्रश्ने द्वितीयोऽध्यायः २५
'शक्तिविषये मुहूर्तमपि नाप्रयतस्स्यात् ॥ ३१ ॥
अनु०—( ब्रह्मचारी या अन्य व्यक्ति भी आचमन या स्नान से शुद्धि करना ) संभव हो तो एक क्षण भी अपवित्र न रहे । ३१ ॥
शक्ताविति वक्तव्ये विषयग्रहणं ब्रह्मचारिणोऽन्यस्य वा प्राप्त्यर्थम् । स्नाननिमित्ते स्नायादेव, आचमननिमित्तेऽप्याचामेदिति ॥ ३१ ॥
अथ पर्युदस्यति—
समिद्धार्युदकुम्भपुष्पान्नस्तो नाऽभिवादयेद्यच्चान्यदप्येवं युक्तम् ॥३२॥
अनु०—समिध् लिये हुए, हाथ में जल का घड़ा, पुष्प या अन्न लिये रहने पर या इसी प्रकार अन्य ( पितृ देवता अग्नि संबन्धी ) कार्य में संलग्न होने पर इसी 'प्रकार के कर्मों में संलग्न गुरु का अभिवादन न करे ॥ ३२ ॥
समिद्धारी समित्पाणिः । उदकुम्भादिषु हस्तशब्दः प्रत्येकमभिसम्बध्यते । एवं युक्तं पितृदेवताग्निकार्यादिषु व्यापृतो व्यापृतमपि नाऽभिवादयेत् ॥ ३२ ॥
न समवायेऽभिवादनमत्यन्तशः ॥ ३३ ॥
अनु०—गुरु के अत्यन्त समीप स्थित होकर अभिवादन न करे ॥ ३३ ॥
अत्यन्तशस्समवायेऽत्यन्तसमीपे स्थित्वेत्यर्थः ॥ ३३ ॥
भ्रातृपत्नीनां युवतीनां च गुरुपत्नीनां जातवीर्यः ॥ ३४ ॥
अनु०—युवावस्था प्राप्त करने पर भाई की युवती पत्नी या गुरु की युवती पत्नी का चरण स्पर्श कर अभिवादन न करे ॥ ३४ ॥
टि०—सूत्र में 'च' शब्द से अन्य निकट संबन्ध वाली युवती स्त्रियों यथा चाची आदि का ग्रहण करना चाहिए ।
'न समवायेऽत्यन्तश' इति वर्तते । जातवीर्यो जातशुक्लः । चशब्दात्पितृव्यादिपत्नीनामपि युवतीनाम् । स्थविराणां बालानां च न दोषः ॥ ३३ ॥
नौशिलाफलककुञ्जरप्रासादकटकेषु चक्रवत्सु चाऽदोषं सहासनम् ॥३५॥
अनु०—नौका, शिला, फलक, हाथी, मकान की छत, चटाई या पहियेदार यानों पर उनके ( अर्थात् गुरु, उनकी पत्नी आदि के ) साथ बैठने में कोई दोष नहीं होता ॥ ३५ ॥
टि०—इस सूत्र से यह अर्थ ध्वनित है कि इन स्थानों के अतिरिक्त अन्यत्र एक साथ बैठने से दोष उत्पन्न होता है ।
१. समानाकारमेव सूत्रमापस्तम्बीये । Cf with आपस्तम्बधर्म. १. १५ ८.
| २६ | बौधायन-धर्मसूत्रम् | [ ब्रह्मचारिधर्माः |
|---|
चक्रवन्तो रथशकटायः । इतरे प्रसिद्धाः । एषु गुरुणा तत्पत्नीभिर्वा सहा- सनं अदोषं दोषावहं न भवति । एषु सहासनाभ्युपगमादन्यत्र सदोषं सहास- नमिति गम्यते ॥ ३५ ॥
प्रसाधनोच्छादनस्नापनोच्छिष्टभोजनानीति गुरोः ॥ ३६ ॥
अनु०—गुरु के प्रसाधन, उच्छादन (छत्र धारण) तथा स्नान कराने का कार्य करे तथा उनके उच्छिष्ट अन्न का भोजन करे ॥ ३६ ॥
टि०—सूत्र में 'इति' शब्द से इसी प्रकार के अन्य गुरु-सेवापरक कार्यों का ग्रहण होता है—जैसे पीठ मलना, पैर दबाना आदि।
शिष्येण कार्याणीति शेषः । प्रसाधनं मण्डनम् । उच्छादनं छत्रधारणम् । स्नपनं गात्रमलापकर्षणम् । इतिकरणात् पादमर्दनपृष्ठधावनादयो गृह्यन्ते ॥३६॥
उच्छिष्टवर्जं तत्पुत्रेऽनूचाने वा ॥ ३७ ॥
अनु०—गुरु को पुत्र यदि अनूचान (वेद की एक शाखा का अङ्गों सहित अध्ययन कर चुका हो तो उसकी भी सेवा करे किन्तु उसके उच्छिष्ट अन्न का भोजन न करे ॥ ३७ ॥
उच्छिष्टभोजनवर्जं कार्यम् । अनूचाने चाऽगुरुपुत्रेऽपि । अनूचानः एक-शाखायास्साङ्गध्यायी । वाशब्दोऽवधारणार्थः, अनूचान एवेति ॥ ३७ ॥
प्रसाधनोच्छादनस्नापनोच्छिष्टवर्जं च तत्पत्न्याम् ॥ ३८ ॥
अनु०—प्रसाधन, उच्छादन, स्नपन तथा उच्छिष्ट भोजन को छोड़कर गुरु की पत्नी की भी सेवा करे ॥ ३८ ॥
टि०—यहाँ गुरु की युवती पत्नी का अभिप्राय है अर्थात् वृद्धों की वैसी सेवा भी करे।
युवत्यामिति शेषः । स्थविराया उच्छादनादिप्राप्त्यर्थोऽयमारम्भः ॥ ३८ ॥
¹धावन्तमनुधावेद्गच्छन्तमनुगच्छेत्तिष्ठन्तमनुतिष्ठेत् ॥ ३९ ॥
अनु०—गुरु के दौड़ने पर उनके पीछे दौड़े, उनके चलते रहने पर पीछे चले, उनके खड़े रहने पर उनके निकट खड़ा रहे ॥ ३९ ॥
ऋज्वेतत् ॥ ३९ ॥
नाप्सु श्लघमानस्स्नायात् ॥ ४० ॥
अनु०—जल में क्रीडा करते हुए स्नान न करे ॥ ४० ॥
१. Cf with आपस्तम्बधर्मसूत्र १. ६. ७-९.
तृतीयः खण्डः ] प्रथमप्रश्ने द्वितीयोऽध्यायः २७
तृतीयः खण्डः ] प्रथमप्रश्ने द्वितीयोऽध्यायः २७
श्लाघनं विकत्थनं तच्च क्रीडनं करताडनादिः । तथा च वसिष्ठः—'न पादेन पाणिना वा जलमभिहन्यान्न जलेन जलम्' इति ॥ ४० ॥
दण्ड इव प्लवेत् ॥ ४१ ॥
**अनु०—**जल में सीधा दण्ड की भाँति तैरे ॥ ४१ ॥
अप्सूदूर्त्तनप्रतिषेधोऽयम् ॥ ४१ ॥
अब्राह्मणादध्ययनमापदि ॥ ४२ ॥
**अनु०—**आपत्ति काल में ( अर्थात् ब्राह्मण गुरु उपलब्ध न होने पर ) ब्राह्मणेतर वर्ण के गुरु से ( ब्राह्मण के अभाव में क्षत्रिय गुरु से और क्षत्रिय के अभाव में वैश्य गुरु से ) विद्या ग्रहण करे ॥ ४२ ॥
**टि०—**अब्राह्मण से शूद्र का भी ग्रहण नहीं होगा । 'शूद्र से कभी भी लौकिकी विद्या भी नहीं ग्रहण करनी चाहिए ।'—गोविन्द स्वामी ।
कुर्यादिति शेषः । आपत् ब्राह्मणाभावः । अध्ययनं श्रवणस्याऽपि प्रदर्शनार्थम् । ब्राह्मणाभावे क्षत्रियात्, तदभावे वैश्यात् । अब्राह्मणग्रहणात् त्रैवर्णिका गृह्यन्ते । ततश्च न कदाचिच्छूद्रालौकिक्यपि विद्या ग्रहीतव्या ॥ ४२ ॥
क्षत्रियवैश्ययोरपि—
शुश्रूषाऽनुव्रज्या च यावदध्ययनम् ॥ ४३ ॥
**अनु०—**जब तक अध्ययन करे तब तक ही उस अब्राह्मण ( क्षत्रिय, वैश्य वर्ण के ) गुरु की प्रसाधन आदि सेवा करे ॥ ४३ ॥
तावत् । शुश्रूषा प्रसाधनादि । अनुव्रज्या अनुगमनम् ॥ ४३ ॥
अयुक्तमेतदिति चेत् —
तयोस्तदेव पावनम् ॥ ४४ ॥
**अनु०—**उन दोनों का ( शिष्य और उपाध्याय का ) यह संबन्ध स्वतः ही वर्ण व्यतिक्रम दोष को पवित्र करने वाला होता है ॥ ४४ ॥
पावनं शुचिहेतुः । एवं कृतेऽपि शिष्योपाध्याययोर्वर्णधर्मव्यतिक्रमदोषोनाऽस्तीत्यभिप्रायः ॥ ४४ ॥
भ्रातृपुत्रशिष्येषु चैवम् ॥ ४५ ॥
**अनु०—**इसी प्रकार गुरु के भ्राता, पुत्र तथा अन्य शिष्यों के प्रति भी ( अध्ययन काल तक ) सेवाकार्य करे ॥ ४५ ॥
| २८ | बौधायन-धर्मसूत्रम् | [ ब्रह्मचारिधर्मः |
|---|
शुश्रूषाऽतिदिश्यते यावदध्ययनम् । यवीयसामित्युपरितनसूत्रात् प्रतिकर्षो द्रष्टव्यः ॥ ४५ ॥
'ऋत्विक्श्वशुरपितृव्यमातुलानां तु यवीयसां प्रत्युत्थायाऽभिभाषणम् ॥ ४६ ॥
**अनु०—**अपने से कम अवस्था वाले-ऋत्विक्, श्वशुर, चाचा, मामा के आगमन पर ( उनका चरण स्पर्श न कर ) आसन से उठकर स्वागतार्थ शब्दों का उच्चारण करे ॥ ४६ ॥
**टि०—**तुलना० आपस्तम्बधर्म० १.१४.१०
अयमपि नियमोऽध्यापकानामेवर्त्विगादीनाम् । अभिभाषणं स्वागतादिशब्दप्रयोगः ॥ ४६ ॥
प्रत्यभिवाद इति कात्यः ॥ ४७ ॥
**अनु०—**कात्य नाम के धर्मशास्त्री का मत है कि कम अवस्था वाले ऋत्विक् आदि को अभिवादन का उत्तर उसी प्रकार से देना चाहिए ॥ ४७ ॥
**टि०—**गोविन्द स्वामी के अनुसार ऋत्विक् आदि को अभिवादन करना चाहिए ।
कतस्य ऋषेरपत्यं कात्यः । स एवं मन्यते स्म-ऋत्विगादिभिः प्रत्यभिवादः कर्तव्य इति । एषां प्रत्यभिवादनविधानादितरैरभिवादनं कर्तव्यमिति गम्यते ॥ ४७ ॥
तत्र हेतुमाह—
२शिशावाङ्गिरसे दर्शनात् ॥ ४८ ॥
धर्मार्थौ यत्र न स्याताम् ॥ ३ ॥
**अनु०—**क्योंकि शिशु आङ्गिरस के उपाख्यान से स्पष्ट है ॥ ४८ ॥
**टिप्पणी—**शिशु आङ्गिरस की कथा मनुस्मृति २. १५१-१५३ में उल्लिखित है । शिशु आङ्गिरस ने अपने पिता को वेद का अध्यापन किया तथा उन्हें "पुत्रकाः" कहकर संबोधित किया ।
यह कथा ताण्ड्यमहाब्राह्मण १३.३.२४ में भी दी गयी है ।
१. Cf with आपस्तम्बधर्म. १. १४ १०
२. ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता ।
बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ॥
चतुर्थः खण्डः ] प्रथमप्रश्ने द्वितीयोऽध्यायः २९
चतुर्थः खण्डः ] प्रथमप्रश्ने द्वितीयोऽध्यायः २९
शिशुः किलाऽऽङ्गिरसः पितॄनध्यापयामास । तान् 'पुत्रकाः' इत्यामन्त्र- यामास, तच्च न्याय्यमेवेति देवा ऊचुः। अनेनाऽपि प्रकारेण ज्ञानत एव ज्यैष्ठ्यं न वयस्त इति दर्शयति ॥ ४८ ॥ ३ ॥
इति प्रथमप्रश्ने द्वितीयाध्याये तृतीयः खण्डः
प्रथमप्रश्ने द्वितीयाध्याये चतुर्थखण्डः
अनर्हाय विद्या न दातव्येत्याह—
'धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा । विद्यया सह मर्तव्यं न चैनामूषरे वपेत् ॥ १ ॥
अनु०— यदि धर्म या अर्थ की उपलब्धि न हो, अथवा ( शिष्य में ) उचित सेवाभाव न हो, तो उस विद्या के साथ ही मर जाना श्रेयस्कर है, किन्तु उसे ऊसर में बोना नहीं चाहिए। ( अर्थात् अयोग्य, सेवाभाव विहीन शिष्य को नहीं प्रदान करना चाहिए ॥ १ ॥ )
यथा कृषीवलश्शुभं बीजमूषरे न वपति। तथा शुश्रूषादिवर्जिते विद्या न दातव्येत्यर्थः ॥ १ ॥
अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः । पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥ ते तमर्थमपृच्छन्त देवानागतमन्यवः । देवाश्चैतान् समेत्योचुर्न्याय्यं वश्शिशुरुक्तवान् ॥ अज्ञो भवति वै बालः पिता भवति मन्त्रदः । अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥ इति मनो ( म, २, १५०-१५४ )
ताण्ड्यमहाब्राह्मणे-शिशुर्वा आङ्गिरसो मन्त्रकृतां मन्त्रकृदासीत् स पितॄन् पुत्रका इत्यमन्त्रयत तं पितरोऽव॒अधर्मं करोषि यो नः पितॄन् सतः पुत्रका इत्यामन्त्रयस इति सोऽब्रवीदहं वाव पिताऽस्मि यो मन्त्रकृदस्मीति ते देवेष्वपृच्छन्त ते देवा अब्र॒वन्नेष वाव पिता यो मन्त्रकृत्तदिति तद्वै स उदजयदिति श्रुतम् । ( ता, ब्रा, १३, ३, २४ ) मनुना सूत्रकारेण चाऽनुसंहितं वेदितव्यम् ।
१. Cf with मनु २ ११२