बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 188, कुल 774 में से
संदर्भ में पढ़ेंदोहयतेति॑ प्रातरुदित आदित्ये विसृष्टायां वाच्यग्रेण शालां तिष्ठन्दे वयजनमध्यवस्यति यदि पुरस्तादनध्यवसितं भवत्येथा॑हैहि यजमानेति॑ पूर्वया द्वारा शालां प्रपाद्य पृष्ठ्याꣳ स्तीर्त्वापः प्रणीयादित्यं चरुं प्रायणीयामिष्टिं निर्वपति॑ हविष्कृता वाचं ५ विसृज्य गार्हपत्य आज्यं विलाप्योत्पूयाहवनीये स्रुवाहुतिं जुहोति कविर्यज्ञस्य वितनोति पन्थां नाकस्य पृष्ठे अधि रोचने दिवः । येन हव्यं वहसि यासि दूत रतः प्रचेता अमृतः सनोयान्स्वाहेत्य॑थो॑पनिष्क्रम्य संप्रैषमाह सोमविक्रयि- न्त्सोमꣳ शोधयोपरवाणां काले रोहिते चर्मण्यानडुहे ऽपामन्ते १० ब्राह्मणो दक्षिण आस्तां ता गावो दूरं मा गुर्यासु सोमक्रयणी च सोमवाहनौ चानड्वाहौ१ सोमवाहनमनः प्रक्षालयतोद्वृत्त- फलकमिति॑ यथासंप्रैषं ते कुर्वन्त्यैतेनैव यथेतमेत्याथैतं चरुꣳ श्रपयित्वाभिघार्योदञ्चमुद्वास्य षड्डोत्रा प्रायणीयमासादयति॑ समानं कर्मा प्रयाजेभ्यः॑ पञ्च प्रयाजानिष्ट्वोदङ्ङत्याक्रम्य सꣳ- १५ स्रावेण पञ्चकृत्वो ध्रुवामभिघार्य चरुमभिघारयत्युपभृतमन्ततो॑ ऽथ चतुर आज्यस्य गृहान आह ॥ १० ॥ पथ्यायै स्वस्तय इत्युपाꣳश्वनुब्रूहीत्युच्चै॒रत्याक्रम्याश्राव्याह पथ्याꣳ स्वस्तिमित्युपाꣳशु यजेत्युच्चै॒र्वषट्कृते पूर्वार्धे जुहोत्य॑थ चतुर एवाज्यस्य गृहान आहाग्नय इत्युपाꣳश्वनुब्रूहीत्युच्चै॒रत्या- २० क्रम्याश्राव्याहाग्निमित्युपाꣳशु यजेत्युच्चै॒र्वषट्कृते दक्षिणार्धे जुहो-
१ च only read in HB; the Viv. and Keś. do not cite the sam- praiṣa to the end.