बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 252, कुल 774 में से
संदर्भ में पढ़ेंचैषोत्तमेति प्राङ्मैत्रावरुणस्य कालात्पराङावर्तते ऽध्वर्युर्भयेन- माङ्कयते मैत्रावरुणः' प्रत्याङ्कयते ऽध्वर्युः' प्राङ्सति' प्रति- गृह्णाति' प्रसिद्धमुक्थं प्रतिगीर्य प्राडेत्योद्यच्छत एतं ग्रह- मेनूद्यच्छन्ते चमसान्थाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमानामिति' वषट्कृतानुवषट्कृते द्विर्जुहोति' तथैव द्विर्द्विः सर्वाँश्चमसाञ्जुह्वत्यं प्रदक्षिणमावृत्य मैत्रावरुणस्य चमसे ग्रहस्य संस्रावमवनयति हुतं त्वा हुते ऽवनयाम्यूर्जस्वन्तं देवेभ्यो मधुमन्तं मनुष्येभ्य इति वा तूष्णीं वोचैवैतत्पात्रमुपनिधाय भक्षैः प्रत्यञ्च आद्रवन्त्येनुसवनभक्षो मित्रावरुणाभ्यां पीतस्येति' मैत्रावरुणचमसमेवैते त्रयः समुपहूय भक्षयन्ति' यथाचमसं चमसान्हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते' नाप्याययन्ति चम- सान्सर्वभक्षा मार्जयन्ते' ऽथाह प्रतिप्रस्थातर्ग्रहाँस्ते प्रचरेति' तच्छ्रुत्वा प्रतिप्रस्थाता प्राङायन्नाह ॥ १८ ॥ ब्राह्मणाच्छंसिनश्चमसमनूनयध्वमुन्नेतः सोमं प्रभावयेति' ब्राह्मणाच्छंसिनश्चमसमेव प्रथममुन्नयन्ति' यथोपपादमित- रांत्समुन्नीयोत्तरवेद्यां सादयन्त्येथादत्त उक्थ्यस्थाल्या औपशयं पात्रं' तस्मिन्नेतस्य राज्ञो ऽर्धवेलां गृह्णाति य उक्थ्यस्थाल्यां भवत्युपयामगृहीतो ऽसि देवेभ्यस्त्वा देवायुव- मुक्थेभ्य उक्थायुवं यज्ञस्यायुष इन्द्राय त्वा जुष्टं गृह्णामीति' पुनर्हविरसीत्युक्थ्यस्थालीं प्रत्यभिमृशति' परिमृज्य सादयत्येष ते योनिरिन्द्राय त्वेत्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ् द्रुत्वा स्तोत्रमुपाकरोति' स्तुवते' ब्राह्मणाच्छंसिन