भारतकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 461, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 461

सोमारौद्रं चरुं निर्वपेदभिचरन्निति॑ ' तस्य एते एव भवतः॑ ' सोमारौद्रं चरुं निर्वपेज्ज्योगामयावीत्येतैर्यैश्चा यक्ष्यमाण उपकल्पयते होतानड्वाहं¹ ' तस्य एते एव भवतो ' ऽन्वाहार्य- मासाद्य होतानड्वाहं ददाति ' सोमारौद्रं चरुं निर्वपेद्यः काम- येत खे ऽस्मा आयतने भ्रातृव्यं जनयेयमिति ' सो ऽपरचेन्- ५ मर्यादायामधवसाय मथित्वाग्नीन्विहृत्य सोमारौद्रं चरुं निर्व- पत्यर्धं वै भवति वेदिं परिगृह्णात्यर्धमुद्धन्यादर्धं नार्धं बर्हिष स्तृणीयादर्धं नार्धमिध्मास्याभ्यादध्यादर्धं न ' स्व एवास्मा आयतने भ्रातृव्यं जनयतीति ब्राह्मणं ' तस्य एते भवतः ' ॥ १८ ॥ षष्ठः ॥ अथ वै भवत्यैन्द्रमेकादशकपालं निर्वपेन्मारुतꣳ सप्तकपालं १० ग्रामकाम इत्य॑थ वै भवत्याहवनीय ऐन्द्रमधिश्रयति गार्हपत्ये मारुतमनूच्यमान आसादयतीति ' काले प्रत्यञ्चमैन्द्रमासादय- त्यनूच्यमानासु सामिधेनीषु मारुतं ' तस्य एता भवन्तीन्द्रं वो विश्वतस्परीन्द्रं नरो मरुतो यद्ध वो दिवो या वः शर्मे- त्येतामेव निर्वपेद्यः कामयेत क्षत्राय च विशे च समदं १५ दधामीत्यैन्द्रस्यावद्यन्ब्रूयादिन्द्रायानुब्रूहीतीन्द्रं वो विश्वतस्परी- त्यन्वाहौत्याक्रम्याश्राव्याह मरुतो यजेति ' या वः शर्मेति यजति ' मारुतस्यावद्यन्ब्रूयान्मरुद्भ्यो ऽनुब्रूहीति ' मरुतो यद्ध वो दिव इत्यन्वाहौत्याक्रम्याश्राव्याहेन्द्रं यजेतीन्द्रं नर इति यजति ' स्व एवैभ्यो भागधेये समदं दधाति वितृꣳहाणास्तिष्ठन्तीति ब्राह्मणम् २०


¹ Thus MDB ; होतारमनड्वाहं Be U ; Be 8 om. , perhaps rightly, होता ।