बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 74, कुल 774 में से
संदर्भ में पढ़ेंकर्म करोति सर्वस्मात्तस्मान्निर्मुच्यानृणः स्वर्गं लोकमैतीति होवाच प्रजापतिः '॥ ११ ॥ चतुर्थः ॥ अग्नीनाधास्यमानो भवति स उपकल्पयत उषाश्च सिक- ताश्चाखूत्करं च वल्मीकवपां च सूदं च वराहविहतं च ५ पुष्करपर्णं च शर्कराश्चेत्यष्टौ पार्थिवा ' अथ वानस्पत्या अश्वत्थस्योदुम्बरस्य पर्णस्य शमीं च विकङ्कतस्याग्निहृतस्य शमीगर्भादरणी१ मुञ्चकुलायं विचित्यस्याश्वत्थस्य तिस्रः समिध आर्द्र्राः सपलाशाः सप्ररोहाः प्रादेशमात्रीरप्रतिशुष्काग्राः षड्ढिरण्याग्ँस्त्रीग्ंसौवर्णाग्ँस्त्रीन् राजतानथ पूर्ववाहग्ँ रथचक्रं १० ब्राह्मौदनिकान्व्रीहीन्सर्वौषधग्ँ रोहितं चर्मानडुहं नवानि यज्ञपात्राणीत्य॑थास्मा२ अरणी आहरति यो अश्वत्थः शमीगर्भ आरुरोह ते सचा । तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिः सहेत्य॑थातो नक्षत्राणामेव मीमाग्ँसा ' कृत्तिकास्वग्निमा- दधीत ' रोहिण्यामग्निमादधीत ' पुनर्वस्वोरग्निमादधीत ' १५ पूर्वयोः फल्गुन्योरुत्तरयोः फल्गुन्योश्चित्रायामित्य॑थात ऋतूना- मेव मीमाग्ँसा ' वसन्ते ब्राह्मणो ऽग्निमादधीत ' ग्रीष्मे राजन्यः ' शरदि वैश्यो ' वर्षासु रथकार इत्यथो खलु यदैवैनग्ँ३ श्रद्धोपनमेद्यादधीत ' सैवास्यर्द्धिरिति ' तदेतदा-
१ Thus B Be HF ; शमी० TJ. २ इति om. JF (H is defect here). ३ Thus BT Keś. ; यदैवेनग्ँ JHF Be, but cp. Sāyaṇa on T. Br. I.
- 2. 8 (page 13 of the commentary).