बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 11, कुल 366 में से
संदर्भ में पढ़ेंबौधायनीयप्रयोगसारः ( बौधायनीयश्रौतप्रयोगसारः ), बौधायनदर्शपूर्णप्रयोगः, बोधायन- कल्पविवरणम्, बौधायनकल्पप्रयोगः, बौधायनीयगृह्यमाला, बौधायनचरकसौत्रामणी, बौधायनप्रयोगः, बौधायनविधिः, बौधायनशिक्षा, बौधायनसंग्रहः, बौधायनस्मृतिः, बौधायन- परिशिष्टम्, भगवदज्जकीयम्, ब्रह्मसूत्रवृत्तिश्चेति । दशोपनिषत्सु श्रीमद्भगवद्गीतायां चापि तत्कृतं व्याख्यानं श्रूयते, न तूपलभ्यते । श्रीभाष्ये श्रीमता रामानुजाचार्येणोक्तम्-‘भगवद्बोधायनकृतां विस्तीर्णां ब्रह्मसूत्रवृत्तिं पूर्वाचार्याः संचिक्षिपुः । तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते' इति । आनन्दभाष्ये रामानन्दाचार्येण बोधायनस्य गुरुशिष्यपरम्परा निर्दिष्टा । तत्र स श्रीशुकदेवमुनेः शिष्य- स्तदाज्ञया ब्रह्मसूत्रवृत्तिमरीरचत् । अन्यच्च तदीयमन्यदीयं नामधेयं पुरुषोत्तममुनिरित्यपि ततो विज्ञायते – 'यस्याश्च ( शारीरकब्रह्ममीमांसायाः ) सूत्ररूपत्वेनातिसूक्ष्माकारतामवधार्य साक्षाद्भगवदवतारस्वरूपस्य स्वपरमगुरोस्तस्याशयं तत एव समधिगम्य परमैकान्त्यनिरतस्य स्वगुरोश्च श्रीशुकदेवमुनेराज्ञया बोधायनापरनामधेयश्रीपुरुषोत्तममुनिना सुखबोधाय विशदतमा वृत्तिरभ्यधायि' ( प्रथमसूत्रावतरणिकाभाष्यम् ) । श्रीमद्भगवद्गीताया आनन्दभाष्येऽपि स्वसम्प्रदायपरम्परायां श्रीशुकदेवशिष्यः पुरुषोत्तममुनिरिति स्वामिरामा- नन्देन समश्लोकि-- श्रीरामं जनकात्मजामनिलजं मेधोवसिष्ठावृषी । योगीशं च पराशरं श्रुतिविदं व्यासं जिताक्षं शुकम् ॥ श्रीमन्तं पुरुषोत्तमं गुणनिधिं गङ्गाधराद्यान् यतीन् ॥ इति । पाणिनेर्गुरुर्वर्षस्तस्यानुजस्तूपवर्षः कथासरित्सागरे वर्ण्यते शङ्करस्वामिसुतः । पूर्वोत्तरमीमांसासूत्रवृत्तिकारतयाऽयं प्रथितः । पूर्वमीमांसायाः शाबरभाष्ये ब्रह्मसूत्रभाष्ये च शङ्कराचार्येणैष बहुत्र स्मृतः । एवं खल्वेष उपवर्षो ब्रह्मसूत्रवृत्तिकाराद् बोधायनादभिन्नः प्रतिभाति । किन्तु रामानुजाचार्यानुसारेण तयोर्भिन्नता न शक्यते वक्तुम् । ऐकात्म्याधि- करणे शङ्कराचार्येण खल्पूपवर्षमतमित्थं समुदलेखि ( ३. ३, ५३ )- अत एव च भगवतोप- वर्षेण प्रथमे तन्त्रे ‘आत्माऽस्तित्वाभिधानप्रसक्तौ शारीरके वक्ष्याम इत्युद्धारः कृतः' इति । श्रीभाष्यकारेण रामानुजेन तु तदैकात्म्याधिकरणं प्रत्यगात्मपरकमाख्यायते । श्रीभाष्यो- पजीव्यब्रह्मसूत्रवृत्तिरस्य बोधायनस्य शङ्कराऽऽचार्योद्धृतस्योपवर्षस्य चाभेदे त्वैकात्म्या- धिकरणस्य स्थाने प्रत्यगात्मपरकत्वं न स्यात् । एवं खलु श्रीभाष्यदर्शनेन तयोर्भिन्नता प्रतीयते । वस्तुतस्तु रामानुजाचार्यो बौधायनकृतां ब्रह्मसूत्रवृत्तिं साक्षादाधारीकृत्य श्रीभाष्यं न प्रणिनाय । तेन तु तत्रादौ 'भगवद्बोधायनकृतां विस्तीर्णां ब्रह्मसूत्रवृत्तिं पूर्वाचार्याः संचि- क्षिपुः । तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते'. इति स्पष्टमभिहितं पूर्वाचार्यसंक्षिप्तीकृत- बोधायनवृत्त्युपयोगविषये । पूर्वाचार्योऽसौ श्रीकण्ठ एव भवितुमर्हतीति श्रीक्षेत्रेशचन्द्रचट्टो- पाध्यायामतम् । अतस्तत्र सर्वत्र श्रीभाष्यमतमेव बोधायनमतमित्यङ्गीकारे संकोचमञ्चन्ति