भारतकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 12, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 12

( ४ ) सुधीजनाः । 'भूत्यै न प्रमदितव्यम्' इत्यादिस्यलेषु यत्र शङ्कराचार्य ऐश्वर्यमर्थं निश्चिनोति भूतिशब्दस्य, तत्र बोधायनस्तु बौधायनगृह्यसूत्रे 'भूतिः= भस्म' इत्यैदमर्थ्यं निर्धारयतीति श्रीभाष्यसिद्धान्तानैक्यान्महर्ती सन्देहपदवीमारोपयति विभेदोऽयम् । वस्तुतस्तु ब्रह्मसूत्रवृत्तिकृतो बौधायनात् कल्पसूत्राणां प्रवर्तक आचार्यो भिन्नो वर्तते । बौधायनधर्मसूत्रस्य भाष्यकारेण गोविन्दस्वामिनाऽयं 'काण्वायनः' इति नामान्तरेण स्मृतः । तत्र 'बोधायनः' इति 'बौधायनः' इति चोभयवर्तनीको लभ्यते पाठः । कृष्णानदी- प्रदेशे बौधायनशाखीया ब्राह्मणा भूयिष्ठतया दृश्यन्ते । वेदभाष्यकारः सायणोऽपि बौधायन- शाखीयो ब्राह्मणोऽभूत् । नन्दिवर्मणो नवमशताब्दीकेषु बहुषु शिलालेखेषु प्रवचनकाराणां कृते प्रदत्तस्य दानस्य समुल्ले खो वर्तते । एवं तावद् दाक्षिणात्यादस्माद् बौधायनाद् ब्रह्मसूत्रवृत्तिकृतः पखर्तिनो बौधायनस्य पार्थक्यं बाढं सिध्यति । शुल्बसूत्राणामाद्यः प्रवर्तको नासीद् बौधायनः । तस्मात् पूर्वं बहुभिराचार्यैः शुल्ब- सूत्राणि सूत्रितान्यासन्निति निर्विवादं शक्यते प्रतिपादयितुम् । बौधायनेनेह शुल्बसूत्रे पूर्ववर्तिनां बहूनामाचार्याणां मतानि 'अपरम्', 'एके', 'एकेषाम्' इत्यादिशब्दैः समुद्धृतानि सन्ति । यथा—'चतुस्त्रिंशत्तिलाः पृथुसंश्लिष्टा इत्यपरम्' ( १,४ ) ; 'विराट् सम्पन्नेत्येके- षाम्' ( १ ६२ ) ; 'यजमानमात्री चतुःस्रक्तिर्भवतीत्येकेषाम्' ( १,६५ ) ; एके समामनन्ति ( २,६ ); अथ हैके चिन्वते ( २,६ ) ; चतुरश्रेत्येकेषाम्, परिमण्डलेत्येकेषाम् ( २,३० ) ; अथ हैक एकविधप्रभृतीन् प्रउगादीन् ब्रुवते ( ३,१४२ ) ; समचतुरस्रानैक आचार्याः ( ३, १४३ ) इति । एकत्र स मैत्रायणीब्राह्मणमप्युद्धरति—'दैव्यस्य मानुषस्य च व्या- वृत्त्या इति मैत्रायणीब्राह्मणं भवति' ( ३, ६ ) इति । बौधायनीयं शुल्बसूत्रं पाणिनीयसूत्रवत् परिनिष्ठितं नास्ति । तत्रैकस्मिन्नेव सूत्रे सदृश्या क्रियाया आवृत्तिः क्रियते । यथा— न खण्डामुपदध्यात् , न भिन्नामुपदध्यात् , न जीर्णामुपदध्यात् , न लक्ष्मामुपदध्यात् ( २, २४ ) । बौधायनात् पूर्वं शुल्बविषयकाश्छन्दोबद्धा ग्रन्था अभूवन्निति प्रतीयते । बौधायनेन बहुवचनोपन्यासपूर्वकं स्वकीयं मतमित्यमभिव्यक्तम्—'अविशेषात् ते मन्यामहे' (३,१३० ) इति । सूत्रशैल्या लिखितानां ग्रन्थानां विश्लेषणार्थं वार्त्तिकानि भाष्याणि व्याख्याश्च परमोपकाराय सिध्यन्ति । व्याख्याकारस्य ग्रन्थकाराद् बुद्धिमत्तरत्वं विस्तृतपाण्डित्यं च भवत इति प्रसिद्धम् । ग्रन्थग्रन्थिभेदनाय विस्तरशो ग्रन्थकाराशयावबोधाय च व्याख्यानामस्ति कश्चिदनितरसाधारणो महिमा । इह व्याख्याद्वये विभिन्नानामाचार्याणां ग्रन्थानां च मतानि ग्रन्थावबोधाय प्रस्तुतानि । यथा—काश्यपीयैः ( शु० मी० ४ ) ; जैमिनिना ( शु० मी० ६ पृ० ) ; अस्म- Nepal Sanskrit University, Balmeeki Campus, Kathmandu