बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 164, कुल 366 में से
संदर्भ में पढ़ें१३४ शुल्बसूत्रम् [ तृतीयो- अपरस्मिन् प्रस्तारे आत्मनः दक्षिणेऽंसे प्राग्दक्षिणकोणप्रदेशे एकामध्यर्धामुपदध्यात् । पूर्वस्मिन्ननीके षड्भागीया उपदध्यात् । उपहितयोरध्यर्धयोर्मध्ये षष्ठ्युत्तरद्विशताङ्गुलं वर्तते । तत्र त्रयोदश षड्भागीया विंशत्यङ्गुलप्रमाणकाः पूर्वस्मिन्ननीकेऽग्रे प्रदेशे अध्यर्धसहिततया उपदध्यादित्यर्थः । दक्षिणोत्तरयोश्चतुर्भागीयामुपद- ध्यात् । तत्राप्यनीकानुवृत्ते आत्मनो दक्षिणोत्तरयोरग्रप्रदेशयोः पूर्वोपहिताध्यर्धयोः पश्चात्ताभ्यां सहिताः दश दश चतुर्थ्य उपदध्या- दित्यर्थः । त्सरोः पुरस्ताद् द्वे (द्वे) चतुर्भागीये उपदध्यात् । त्सरोः पुरस्तात्प्राक् प्रदेशे पार्श्वयोः दक्षिणोत्तरयोः पार्श्वयो द्वे (द्वे) चतुर्भागीये उपदध्यादित्यर्थः । तयोरवस्तादभितो द्वे द्वे अध्यर्धे विषूची तयोश्चतुर्थ्योरव- स्तात् पश्चाद्देशेऽभितः दक्षिणोत्तरपार्श्वद्वये द्वे द्वे अध्यर्धे विषूची दक्षिणो- दगूदीर्घे उपदध्यादित्यनुषङ्गः । तयोरवस्तात्तयोश्चतुर्थ्योः पश्चिमदेशे पूर्वो- पहितानां चतसृणामध्यर्धानां मध्ये द्वे षष्ठ्यौ प्राच्यौ प्राक् प्रत्यग्दीर्घे उपदध्यादित्यनुषङ्गः । शेषमंसि बृहतीभिः प्रच्छादयेत्, त्सरुगतचतुर्थ्योः मध्ये एका अध्यर्धा । आत्मनि पश्चिमदेशादारभ्याध्यर्धानां प्राक् प्रत्यग्दीर्घानां प्राक् प्रत्यक् (त्रयोदश ?) रीतयः । दक्षिणोत्तरमष्टा (दश ?) रीतयः । उपहितानामध्यर्धानां प्राग्देशगतानाम् अष्टानां पुरस्ताद् अध्य- र्धानां पञ्चदशाङ्गुलव्यासां विंशत्यङ्गुलदीर्घामैकामध्यर्धां दक्षिणोत्तरदीर्घा- मुपदध्यात् । पुनरुपहितानामुपरि अष्टावध्यर्धाः प्रागायता उपदध्यात् । पुनस्तासामुपरि अध्यर्धानामर्धाः पूर्ववदष्टा उपदध्यात् । एवञ्च दक्षिणपार्श्वे दक्षिणोत्तरं चत्वारिंशदङ्गुलं वर्तते । तत्राध्यर्धार्ना- मुद्गायतानां दक्षिणोत्तरं रीतिद्वयं (दक्षिणोत्तरं रीतिशतकं) उत्तरपार्श्वेऽपि षष्ठ्यङ्गुलं वर्तते । दक्षिणोत्तर ? तत्राध्यर्धानां दक्षिणोदग् (प्राक्प्रत्यक् ?) रीतित्रयं प्राक्प्रत्यक् रीतिशतकम् (?) आहत्य शतकमशीतिः द्वे इष्टकाः सम्पन्नाः । तत्राष्टादश योजनीयाः । दक्षिणपार्श्वस्थितचतुर्थीभ्यां उत्तरतः विद्यमानासु दशसु मध्ये प्रागायताम् एकां विधाय इतरा नवेष्टकाः