बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 166, कुल 366 में से
संदर्भ में पढ़ेंतत्पूर्वेणेति । तत्परिमण्डलं पूर्वेण प्रधियुक्तरथचक्रचिता । पूर्ववच्च- तुरश्रस्य परिमण्डलकरणं परिमण्डलमध्ये चतुरश्रकरणमेतत्सर्वं व्याख्या- तमित्यर्थः ॥ ११५ ॥ पुरुषस्येति । षोडशीभिः सर्वतः त्रिंशदङ्गुलाभिः । विंशत्यधिकं शतम् । तासा- मिति । तासां षोडशीनां मध्ये एकां षोडशीमपोद्धृत्य शेषा एकोनविंशत्यधिकं शतं षोडशीः परिमण्डलं करोति । तत्र सारत्निप्रादेशस्य सप्तविधस्याग्नेः क्षेत्रं लक्षमष्टौ सहस्राण्यङ्गुलयः । तस्मात् षोडशीपरिमितं नवशताङ्गुलक्षेत्रमुद्धृत्य शिष्टं लक्षं सप्त सहस्राणि शतञ्च । तस्य मूलमानीय नवतिलसहितसप्तविंशत्यङ्गुलसहितशतत्रयाङ्गुल- प्रमाणेन समचतुरश्रं कृत्वा अक्ष्णयार्ध ( ११४७ ) मित्यादिना मण्डलं करोतीत्यर्थः । तत्पूर्वेणेति । तत् द्रोणचित उपधानम् । पूर्वेण प्रधियुक्तेन रथचक्रचिता । व्याख्यातं तस्मिन् यावत् सम्भवेत् तावत् समचतुरस्र ( ३।९१ ) मित्यादि । तद्वत् कर्त्त- व्यम् ॥ ११५ ॥ षोडशीं पुरस्ताद् विशये उपधाय तया सह मण्डलं परिलिखेत् । यदवस्तादपच्छिन्नं तत् पुरस्तादुपदध्यात् । प्रधीनां सप्तधा विभागः । प्रधिमध्यमाः प्रक्रमण्यासा भवन्ति । चतुर- श्रणामभ्याभिः सङ्ख्यां पूरयेत् ॥ ११६ ॥ षोडशीमिति । प्राक्प्रदेशविशये मध्ये अव्यवहिततया उपधाय तया षोडश्या सह आत्ममण्डलमूलभूतचतुरश्रं परिलिखेत् । यदवस्तादिति । षोडश्याः पुरस्ताद्यथा धनुराकारतया षोडश्या संमितं भवति तथोपदध्या- दित्यर्थः । अयमत्र प्रकारः—विंशत्युत्तर ( शतं ? ) षोडश्यात्मकं सार्धसप्तविधस्याग्नेः क्षेत्रं तावत् लक्षमष्टौ सहस्राण्यङ्गुलयः । तत्राप्येकैकस्याः षोडश्याः क्षेत्रं नवशताङ्गुलं (क्षेत्रं)। तत्रैकां षोडशीमपोद्धृत्यावशिष्टाभिरेकोन- विंशत्युत्तरशतेष्टकाभिः षोडशीभिश्चतुरश्रं कुर्यात् । नवतिलाधिकसप्तविंशत्य- धिकशतत्रयाङ्गुलेन समचतुरश्रं कुर्यादित्यर्थः । अस्य चतुरश्रस्य पुरस्ता- न्मध्यदेशे निहितां षोडशीमव्यवहिततया योजयेत् । अस्मिन् चतुरश्रे “चतुरश्रं परिमण्डलम्”त्यादि (१।४७) न्यायेन परिमण्डलं कुर्यात् । एवं परि- मण्डले क्रियमाणे एतत्परिमण्डलगतां षोडशीपश्चिमदेशक्षेत्रं यदवशिष्टं तत् षोड- श्याः पुरस्ताद् धनुराकारतया योजयेत् । एवञ्चास्य क्षेत्रस्य सार्धसप्तविधत्वं