बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 168, कुल 366 में से
संदर्भ में पढ़ें१३८ शुल्बसूत्रम् [ तृतीयोऽध्यायः अपरस्मिन् प्रस्तारे प्रधिमध्यमामोष्ठ उपधाय यदवस्तात्तद् द्वेधा विभजेत् । स एष नवकरणो द्रोणचित् परिमण्डलः ॥ ११७ ॥ अपरस्मिन्निति । दक्षिणोत्तरयोः प्रधिमध्यमां(नां) पूर्वोक्तां क्रम- विस्तारां स्वसन्निहितमण्डलान्तर्गतैकदेशयुक्ते उपधायोपहितेष्टकायाः पश्चाच्चतुरश्राणां पुरस्ताद् यत्क्षेत्रं तद्दक्षिणोत्तरभागेन द्वेधा विभजेत् । एवं करणेन च युक्त (?) मण्डलाकारो द्रोणचितोऽग्निर्निष्पद्यते इत्यर्थः । अयमत्र प्रकारः—पूर्ववत् परिमण्डलं कृत्वा तस्मिन् यथा महादिक्षु स्रक्तयो भवन्ति तथा चतुरश्रं कुर्यात् । तस्मिन् पूर्ववच्चतुश्चत्वारिंशच्छतेष्ट- काभिरुपधानं कुर्यादित्यर्थः । अ (यम) त्र पूर्ववच्चतुर्षु प्रधिषु प्रत्येकष्टा- विष्टका उपदध्यात् । पूर्ववत् त्रीन् परिधीन् (प्रधीन् ?) सप्तधा विभजेत् । पूर्वस्मिन् प्रधौ तु विशेषोऽस्ति । इष्टकाचयसंमिते ओष्ठे धनुराकारक्षेत्रे प्रधि- मध्यमामेकां बृहतीमात्मनिवेशितामुपदध्यात् । अस्याः पश्चात् प्रधिगतानामिष्ट- कानां पुरस्ताद् ओष्ठक्षेत्रसंमितं यदस्ति तद्दक्षिणोत्तरभागेन द्वेधा विभजेत् । अस्या दक्षिणत उत्तरतश्च द्वे तयोर्दक्षिणत उत्तरतश्च द्वे द्वे । एवं च द्विन्यू- नद्विशतेष्टकाः सम्पन्नाः । तत्र द्विशतसंख्यापूरणार्थं द्वयोश्चतुरश्रयोर्द्वाभ्यां द्विशतसङ्ख्यां पूरयेत् । द्वितीयप्रस्तार इति प्रथमप्रस्तार एवोक्तं सूत्रकारेणे- त्यस्माभिर्वर्णितं अत्रैव । स एष इति । नव करणानि आत्मगतानां चतुर- श्राणां प्रधिगतानां चतुरश्राणां (च १) एकं करणं । शिरसीष्टकाद्वयस्य करणद्वयं । प्रधिमध्यगतानां प्रक्रमविस्ताराणां चतसृणामेकं करणम् । तत्पा- र्श्वोपधेयानामेकं करणम् । प्रध्युपान्त्यानामेकं करणम् । प्रध्यन्त्यानामेकं करणम्, अर्ध्यानामेकं करणम् । आहत्य प्रथमे प्रस्तारेऽष्टौ करणानि । द्वितीयप्रस्तारे ओष्ठोपहितेष्टकापश्चिमक्षेत्रोपहितेष्टका तस्या एकं करणम्। एवं नव करणानीति । सर्वतः षड्विंशतितिलसहितैकविंशत्यङ्गुल- प्रमाणफलं चतुरश्रेष्टकानामेकं करणम् ॥ ११७ ॥ अपरस्मिन्निति । विधिवक्ष्यते । ओष्ठस्य प्रक्रमविस्तारत्वात् तया पूर्येते । प्रधिमध्यमायाः प्रक्रमादधिकं तिलोनाङ्गुलित्रयं मण्डले विशति । तस्मादोष्ठसन्धौ