बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 170, कुल 366 में से
संदर्भ में पढ़ें१४० शुल्वसूत्रम् [ तृतीयो- प्रथमे प्रस्तारे चतुरस्रगताः चतुश्चत्वारिंशच्छतम् । प्रधिमूलगताः चतुर्विं- शतिः । प्रधिगता अष्टाविंशतिः । ओष्ठाथंकयोरिष्टकयोः ह्रस्वेष्टकां मण्डलसन्धावुपद- ध्यात् । बृहतीं तस्याः पुरस्तात् । पश्चात् पुरस्ताच्च चतुरस्रसक्तिगते उद्धृत्य द्वे द्वे अर्धेष्टके । एवं द्विशतः प्रस्तारः । द्वितीयेऽपि प्रस्तारे पूर्ववत् प्रधिवर्जमेव उपधानम् । अत्र अवान्तरदिक्षु सक्तयः । पूर्वस्मिन् प्रधौ मध्यसामुद्धृत्य ओष्ठे प्राग् धनुर्वक्रामुपदध्यात् । तस्याः पश्चात् प्रधिमध्यस्थाने द्वितीयप्रस्तारार्थकपणेष्टके उपधेये । मण्डलमध्य- चतुरस्रसक्त्योर्दक्षिणत उत्तरतश्च द्वे चतुरस्रे उद्धृत्य द्वे द्वे अर्धेष्टके । एवमपरः प्रस्तारः । स एष इति । स्पष्टार्थं वचनम् । कूर्मस्यान्ते तनुपुरीषमुपदध्यात्, मध्ये बहुलं, एतदेव द्रोणे विपरोत (३।१४१) मिति वक्ष्यमाणं स्मर्त्तव्यम् । अत्र कल्पोक्तो विधिरनुसन्धेयः । तत्रैवमुक्तम् । द्रोणचितं चिन्वीत अन्नकाम इत्येतस्यैव सतो त्रिमात्रेण प्रागोष्ठमिव निरूहति । अथ मध्ये निम्नमिवेष्टकाया आयातयति । स एष द्रोणचिदन्नकामस्य परिकृष्यते ( बौ० श्रौ० सू० १७।२९ पृ० ३०८) इति ॥ ११८ ॥ [ इति परिमण्डलद्रोणचित्उपधानप्रकारः । ] समूद्यपरिचाय्यौ पूर्वेण रथचक्रचिता व्याख्यातौ ॥ ११८ ॥ परिमण्डलद्रोणचयनप्रकारमुक्त्वा समुह्यपरिचाय्यचयनप्रकारमाह- समूद्यपरिचाय्याविति । समूह्ये परिचाय्ये च प्रधियुक्तरथचक्र- चयनधर्माः परिमण्डलकरणधर्माः चतुरश्रकरणेष्टकानिर्माणोपधानादयः सर्वेऽपि प्राप्नुवन्तीत्यर्थः ॥ ११८ ॥ समूह्येति । यावानग्नि ( ३।९१ ) रित्यादि परिमण्डलान्तं कुर्यात् ॥ ११८ ॥ समूह्यस्य दिक्षु चात्वालान् खानयित्वा तेभ्यः पुरीषं समूद्यो- पदध्यात् ॥ ११९ ॥ ननूक्तरीत्या समूह्ये सर्वधर्मप्राप्तौ को विशेषस्तमाह-समूह्यस्येति । समूह्यस्य वाग्नेर्महादिक्षु चात्वालान् खानयित्वा तेषु च नामातिदेशतः सर्वधर्मान् (?) चात्वालेभ्यः पुरीषं समूह्य गृहीत्वा अग्निक्षेत्रे मन्त्रैः क्रमाद यथा पञ्चप्रस्तारा भवन्ति तथोपद्ध्यादित्यर्थः । अयमत्र प्रकारः-प्रधियुक्तरथचक्रचयनवत् सार्धसप्तपुरुषप्रमाणं चतु- रस्रं विहृत्य "चतुरश्रं परिमण्डल" (१।४७) मिति न्यायेन परिमण्डलं कर्त्तव्यम् । तस्मिन् परिमण्डलमध्ये यावत्समचतुरश्रं कर्तुं शक्यते तावत्