बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 174, कुल 366 में से
संदर्भ में पढ़ें१४४ शुल्बसूत्रम् [ तृतीयो- प्नुयामिति । षट् प्राञ्चः पुरुषाख्यः पुरस्तात्तिर्यञ्चौ द्वौ पश्चात्तिर्यञ्चौ स आत्मेति । अस्यायमर्थः—पुरुषशब्देन पञ्चदशभागा एवोच्यन्ते, षट् पञ्चदशभागायामं प्राक् प्रत्यग् भागत्रयव्यासं पुरस्ताद्, भागद्वयव्यासं पश्चा- देकतोऽणिमद्दीर्घचतुरश्रं कुर्यात् । स इदृग्रूपविशिष्टः आत्मेत्यर्थः ॥ १२४ ॥ सर्वमग्निमिति । सर्वमग्निक्षेत्रं पञ्चदशधा विभज्य समचतुरस्रान् कृत्वा । किम् ? कल्पे छन्दश्चिदध्याये तेषां चतुरस्रीकृतानां पञ्चदशधा विभक्तानां भागानां उपधान- विनियोगः तैः क्षेत्रक्रियेत्यर्थः । आख्यातमुक्तम् । तत् तत्रैवानुसन्धेयम् इत्यर्थः । श्मशानचितं चिन्वीत यः कामयेत पितृलोक ऋध्नुयामिति ( बौ० श्रौ० सू० १७।३० पृ० ३०९ षट् प्राञ्चः पुरुषाख्यः पुरस्तात् तिर्यञ्चौ तौ ( ? ) द्वौ । स आत्मेति । तत्र पुरुषशब्देन पञ्चदशधा विभक्ता भागा एवोच्यन्ते । अस्यायमर्थः । अग्निक्षेत्रं सर्वं लक्षमष्टौसहस्राण्यङ्गुलयः । ताः पञ्चदशधा विभज्य लब्धं सप्त- सहस्राणि द्वे शते चाङ्गुलयः । तस्य भागस्य समचतुरस्रकरणी षट्तिलोनपञ्चा- शीत्यङ्गुला । एवं पुरुषशब्दितैर्भागैः षट् प्राञ्चः पुरुषाः । षड्भागप्रमाणायामा इत्यर्थः । स च षट्त्रिंशतितिलोनदशाधिकपञ्चशताङ्गुलयः । त्रयः पुरस्तात् पार्श्वे तिर्यञ्चो दक्षिणोत्तराः । सार्धपञ्चाशच्छतद्वयाङ्गुलयः पुरस्तात् तिर्यगित्यर्थः । द्वौ पश्चात् तिर्यञ्चौ द्वादशतिलोनसप्ततिशताङ्गुलयः पश्चात् तिर्यगित्यर्थः । स आत्मा ! ईदृग् विशिष्टरूप आत्मा । नान्यदङ्गमस्तीत्यर्थः । एवं कल्पोक्तप्रकारेण क्षेत्रकरणमुक्तम् ॥ १२३-१२४॥ त्रिभिर्भागैर्भागार्धव्यासं दीर्घचतुरस्रं विहृत्य पूर्वस्याः कर- ण्या मध्याच्छ्रोणी प्रत्यालिख्यान्तावुद्धरेत् । तस्य दशधा विभागः। तानि विंशतिः सर्वोऽग्निः संपद्यते ॥ १२५ ॥ क्षेत्रकरणमुक्त्वा इष्टकाकरणमाह—त्रिभिर्भागैरिति । भाग- त्रयायामं एकतिलोनसार्धचतुःपञ्चाशच्छतद्वयाङ्गुलायामं भागार्धव्यासं चतुर्दशतिलाधिकद्विचत्वारिंशदङ्गुलव्यासम्, एवं दीर्घचतुरश्रं विहृत्य पूर्वस्याः करण्यास्तिर्यङ्मान्या मध्यदेशादारभ्य द्वे श्रोणी प्रत्यालिख्यान्ता- वुद्धरेत् । बहिःस्पन्द्यमपच्छिन्द्यात् । एवञ्च प्रउगः संपद्यते । तस्य दशधेति । तस्य प्रउगस्य दशधा विभागः प्रकारः । अस्मिन् प्रउगे चुबुके एकमुभयतः प्रउगम्, ततो द्वे उभयतः प्रउगे तत्संयुक्ते, ततश्रोणि उभयतः प्रउगानि,