बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 188, कुल 366 में से
संदर्भ में पढ़ें१५६ शुल्बसूत्रम् [ तृतीयो- तत्रैवमुपधानम्। पादवर्जं शिरसा सह द्वादश रीतयः। दक्षिणमनीकम्। मध्ये द्वे चतुर्थ्यौ। अभितो द्वेऽर्ध्ये। द्वितीयायां मध्ये षट् चतुर्थ्यः। पार्श्वयोर्द्वे अर्ध्ये। तृतीयायामादितोऽर्ध्या। ततश्चतर्थी। ततो द्वादशार्ध्याः। तत एका चतुर्थी। ततोऽर्ध्या च। चतुर्थ्यामादितो द्वे चतर्थ्यौ। ततश्चतुर्दशार्ध्याः। तत एका चतुर्थी। पञ्चम्यामाद्यन्तयोर्ध्ये। मध्ये चतुर्थ्यरीतिवत्। षष्ठ्यामादितस्तिस्रश्चतुर्थ्यः। ततश्चतु- र्दशार्ध्याः। ततस्तिस्रश्चतुर्थ्यः। तत एका हंसमुखी प्रागग्रा। तत उत्तरपूर्वकोट्या सह दक्षिणाग्रान्ता एका पाद्या। एवमुत्तरं पार्श्वम्। दक्षिणपार्श्वस्था अर्ध्याः प्रागुदक्सं- विशेषाः। विपरीता इतराः। पादेषु चतुरस्रभूतांशेषु चतस्रश्चतुरस्राः। छेदांशेषु मध्यत एकैका चतुरस्रा। शेषेषु पादेष्टके। एवं पादेषु अष्टाविंशतिः। शिरसि पञ्च। आत्मनि सप्तषष्टिशतम्। अस्मिन् प्रस्तारे चतुश्चत्वारिंशच्चतुर्थ्यः। चतुर्विंशतिशतं अर्ध्याः। दश पाद्याः। द्वे हंसमुख्यौ। विंशतिश्चतुरस्रार्ध्याः ॥ १३४ ॥ अपरस्मिन् प्रस्तारे शिरसोऽग्रे हंसमुखीमुपदध्यात् पादेष्टकेऽ- भितः। तयोरवस्तादभितो द्वे द्वे अध्यर्धपाद्ये विषूची। तयोरव- स्तादभितश्छेदसंहिते द्वे पादेष्टके। द्वे द्वे द्विपदे तिस्रस्तिस्रोऽर्धेष्टका इति पादेषूपदध्यात्। यदपच्छिन्नं तस्मिन्नर्धेष्टकाः पादेष्टकाश्चो- पदध्यात्। शेषमग्निं चतुर्भागीयाभिः प्रच्छादयेत्। अर्धेष्टकाभिः सङ्ख्यां पूरयेत् ॥ १३५ ॥ अपरस्मिन्निति। शिरसः प्रागग्रे प्रागग्रां हंसमुखीमुपदध्यादित्यर्थः। पादेष्टक इति। द्वे पादेष्टके सविशेषपार्श्वाभ्यां हंसमुखीश्लिष्टे दक्षिणोत्तर- पार्श्वयोरुपदध्यादित्यर्थः। तयोरवस्तादिति। व्यस्ताग्रे उपदध्यात्। अयमर्थः—पादेष्टका सहिता प्रागुदश्रिणाग्रा एका ततः पश्चात्पश्चि- मोत्तराग्रा एका अध्यर्धपाद्या उत्तरपार्श्वेऽप्युत्तरपूर्वाग्रा पाद्यासंश्लिष्टा एका। ततः पश्चात् पश्चिमदक्षिणाग्रा एकेति। तयोरवस्तादिति। तयोः पश्चिमभागोपहिताध्यर्धपाद्ययो- रवस्तात् पश्चिमभागे छेदसंहिते प्रागग्रे द्वे पाद्ये उपदध्यादित्यर्थः। द्वे द्वे द्विपद इति। चतुर्षु पादेषु अग्रे एका अर्ध्या। ततः अवस्ताद् द्वे द्वे चतुर्थ्यौ संश्लिष्टस्रक्ती उपदध्यात्। तयोरधस्तना चतुर्थी आत्मप्रविष्टा