बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 193, कुल 366 में से
संदर्भ में पढ़ेंअध्यायः ] बौधायनीयं १६१ अयमत्र प्रकारः—चतुरश्रस्य पूर्वस्यां रीत्यामुपहिता द्वादशेष्टका उद्धृत्य तत्राप्यध्यर्धाः प्रागायता उपदध्यात् । एवं चतस्र इष्टका अपनीता भवन्ति । तदनन्तररीत्यां चा(या)विष्टका उद्धृत्य तत्र चतस्रोध्यर्धेष्टका उप- दध्यात् । एवं च द्वे द्वे इष्टके अपनीते भवतः । आहत्य षडधिका भवन्ति । एष द्विशतः प्रस्तारः ॥ १३८ ॥ प्रधीनामिति । तदुत्तरेण द्रोणचिता व्याख्यातमित्यस्यैव प्रपञ्चः । यदतिरिक्त- मिति । मण्डलमध्यचतुरस्रे चतुश्चत्वारिंशच्छतमिष्टकाः शेरते । प्रधिमूलेषु चतुर्विं- शतिश्चतुरस्राः । प्रधीष्टका अष्टाविंशतिः । प्रथमे प्रस्तारे शिरसोऽवस्तात् प्रधिमध्यमस्थाने एकविंशतिरिष्टकाः । शिरसि एका प्रधिमध्यमा । अष्टौ पादेषु । एवमुपहिते यदतिरिक्तं संपद्यते तच्चतुरस्राणां अध्यर्धाभिः योज्युज्यते युज्यत इत्यर्थः । यत्तदिति सामान्यनिर्देशः । अध्यर्धेष्टकानां अर्धांशस्य अक्ष्णयापच्छेदः । नित्यमक्ष्णयापच्छेदनम इत्युक्तेः ॥ १३८ ॥ अपरस्मिन् प्रस्तारे पादानां शिरोवद्विभागः शिरसः पादवत् ॥ १३९ ॥ अपरस्मिन्निति । अपरप्रस्तारे अग्निक्षेत्रमण्डले यथा प्रधान- दिक्षु चतस्रः स्रक्तयो भवन्ति तथा चतुरस्रं कृत्वा तत्र पूर्ववत् चतुरश्रेष्ट- काभिरुपधानं कृत्वा प्रधिमूलेष्वपि तथैवोपधानं कृत्वा (प्रधिमूलेष्वपि) शिरसि यावदिष्टकाद्वयं चतुर्षु पादेषु प्रधिमध्यमाः प्रक्रमविस्ताराः चतस्र इष्टका यथा आत्मान्तरगता भवन्ति तथोपदध्यात् । प्रक्रमविस्तारपादेष्टका- सहितप्रधिक्षेत्रे पूर्ववदिष्टकाद्वयं उपधेयम् । तयोरुभयतो द्वे द्वे पूर्ववत्, तयोः पार्श्वयोः द्वे द्वे पूर्ववदाहृत्य एकस्मिन् प्रधावष्टावेव अवशिष्टेषु त्रिषु प्रधिषु अष्टाविष्टका उपधेयाः, एवं च षडधिकद्विशतेष्टकाः सम्पन्नाः । तत्र द्विशतसङ्ख्यापूरणार्थमष्टादशेष्टका उद्धृत्य तत्र द्वादशाध्यर्धा उपधेयाः । एष द्विशतः प्रस्तारः ॥ १३९-१४० ॥ अपरस्मिन्निति । अपरस्मिन् प्रस्तारे विशेषो वक्ष्यत इति शेषः । द्रोणचितो- द्वितीयप्रस्तारे प्रधिमध्यमामोष्ठ उपधायावस्तात्तद् द्वेधा विभजेद् ( ३।११७ ) इति यदुक्तं तदिह मण्डलकूर्मचितौ द्वितीयप्रस्तारे पादानां भवति । शिरसः पादवत् । द्वेधा विभाग इत्यर्थः । प्रथमे प्रस्तारे विपरीतमपधानमित्युक्तं भवति । प्रधिमध्यमा- २१