भैषज्य रत्नावली (गोविन्ददास सेन - सान्वय भाषा टीका सहित)
Bhaishajya Ratnavali Hindi
कविराज गोविन्ददास सेन (टीकाकार: वैद्य शंकरलाल) द्वारा
स्रोत: Bhaishajya Ratnavali with Hindi Translation by Vaidya Shankar Lal (1942) (उद्गम)
पृष्ठ 1398, कुल 1416 में से
संदर्भ में पढ़ें| ११६६ | भैषज्यरत्नावली । | [ वाजीकरणा- |
|---|
ततोऽभिमन्त्रणमन्त्रः ।
“ॐ ह्रीँ शाँ सः अमृतं कुरु कुरु अमृते अमृतोद्भवाय नमः ।
ह्रीँ अमृतं कुरु कुरु अमृतेश्वराय स्वाहा ॐ स्वाहा ॥”
इति मन्त्रेणाभिमन्त्रितं कृत्वा पात्रान्तरे स्थापयेत् ॥
काञ्चने राजते काचे मृद्भाण्डे वा निधापयेत् ॥ २५ ॥
प्रथम एक एक मोदक शिव, इन्द्र, गणेश और अग्नि आदि देवताओंके लियें उक्तमन्त्रको उच्चारण करके समर्पण करे । उल्लिखितमन्त्रसे अभिमन्त्रित करके उन लड्डुओंको सुवर्ण, चाँदी, काँच अथवा मिट्टीके बर्त्तनमें भरकर रखदेवे ॥
प्रातःकाले शुचिर्भूत्वा हरगौर्यौ प्रपूजयेत् ।
कालानलभवं बीजं सतिलं घृतसंयुतम् ॥
गव्यं क्षीरं सितायुक्तमनुपेयं च पायसम् ॥ २६ ॥
विलासाथ प्रदोषे च मोदकं परिसेवयेत् ।
त्रिसप्ताहप्रयोगेण कामान्धो जायते नरः ।
कामज्वरो भवेत्तावद्यावन्नारीं न गच्छति ॥ २७ ॥
“स सहस्रं वरारोहा रमयत्यपि सोद्गमः ॥ २८ ॥
न च लिङ्गस्य शैथिल्यं वेगवीर्यं विवर्द्धयेत् ।
प्रमदाप्राणबाहुल्यं मत्तवारणविक्रमः ॥ २९ ॥
वामावश्यकरो रम्य ऊर्ध्वंरेता भवेन्नरः ।
कामतुल्यं भवेद्रूपं स्वरः परभृतोपमः ॥ ३० ॥
खगतुल्या भवेद्दृष्टिर्वृद्धोऽपि तरुणायते ।
अष्टोत्तरं भवेद्यस्तु भवेत्तस्य सुखोपमम् ॥ ३१ ॥
अपस्मारज्वरोन्मादभयानिलगदापहम् ॥ ३२ ॥
कास श्वासं सशोथं च भगन्दरगुदामयम् ।
अग्निमान्द्यमतीसारं विविधं ग्रहणीगदम् ॥ ३३ ॥
बहुमूत्रं प्रमेहं च शिरोरोगमरोचकम् ।
हन्ति सर्वान् गदान्घोरान् वातपित्तबलासजान् ॥ ३४ ॥
वन्ध्या च मृतवत्सा च नष्टपुष्पा च या भवेत् ।