भारतकोश
भैषज्य रत्नावली (गोविन्ददास सेन - सान्वय भाषा टीका सहित)

भैषज्य रत्नावली (गोविन्ददास सेन - सान्वय भाषा टीका सहित)

Bhaishajya Ratnavali Hindi

कविराज गोविन्ददास सेन (टीकाकार: वैद्य शंकरलाल) द्वारा

स्रोत: Bhaishajya Ratnavali with Hindi Translation by Vaidya Shankar Lal (1942) (उद्गम)

DevanagariHindipublished1,416 पृष्ठ

पृष्ठ 1409, कुल 1416 में से

संदर्भ में पढ़ें
पृष्ठ 1409

ऽधिकारः ] भाषाटीकासहिता । १३७७


आनाहेऽर्शोविकारेषु चातुर्थकज्वरेऽपि च ।
हनुग्रहे तथा शोषे क्षीणे चैवापबाहुके ॥ ११ ॥
दण्डापतानके भग्ने दाहे चाक्षेपके तथा ।
जीर्णज्वरे विषे कुष्ठे शेफःस्तम्भे मदात्यये ॥ १२ ॥
आढ्यवातेऽग्निमान्द्ये च वातरक्तगदेषु च ।
एकाङ्गरोगिणे चैव तथा सर्वाङ्गरोगिणे ॥ १३ ॥
हस्तकम्पे शिरःकम्पे जिह्वास्तम्भे ज्वरे भ्रमे ।
क्षीणेन्द्रिये नष्टशुक्रे शुक्रनिःसरणे तथा ॥ १४ ॥
स्त्रीणां वातास्रपाते च पटले चाक्षिपन्दने ।
एकाङ्गस्पन्दने चैव सर्वाङ्गस्पन्दने तथा ॥ १५ ॥
नागादिपतिते वाते स्त्रीणामप्राप्तिहेतुके ।
आभिचारिकदोषे च मनःसन्तापसम्भवे ॥ १६ ॥
ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः ।
शिरोमध्यगता ये च जङ्घापार्श्वादिसंस्थिताः ॥ १७ ॥
मातृग्रहाभिभूतश्च शिशुर्यश्च विशुष्यति ।
प्रक्षीणबलमांसश्च न वर्त्मगमनक्षमः ॥ १८ ॥
घृतेनानेन सिद्ध्यन्ति वज्रमुक्तिरिवासुरान् ।
निहन्ति सकलान् रोगान् घृतं परमदुर्लभम् ॥ १९ ॥

इस सिद्ध ओषधिके गुणोंको कहता हूँ उसको सुनो-प्रतिदिन प्रातःकाल गणेश और देवाधिदेव महादेवको नमस्कार तथा पूजकर इस घृतको एक एक तोला प्रमाण पान करे और यथादोषानुसार अनुपानकी कल्पना करे तो यह घृत वातज, पित्तज और कफज तथा उल्लिखित सर्वप्रकारके भयङ्कररोगोंको तत्कालही इस प्रकार नष्ट करताहै जिसप्रकार इन्द्रका छोडाहुआ वज्र असुरोंका तत्क्षण नाश करदेताहै । यह परमदुर्लभ घृत है ॥५-३१९॥

रसायनं वह्निबलप्रदं च वपुःप्रकर्षं विदधाति रूपम् ।
दत्त्वा बलं चेन्द्रसमानतेजो दीर्घायुषं पुत्रशतं करोति ॥ ३२० ॥

८७