भैषज्य रत्नावली (गोविन्ददास सेन - सान्वय भाषा टीका सहित)
Bhaishajya Ratnavali Hindi
कविराज गोविन्ददास सेन (टीकाकार: वैद्य शंकरलाल) द्वारा
स्रोत: Bhaishajya Ratnavali with Hindi Translation by Vaidya Shankar Lal (1942) (उद्गम)
पृष्ठ 148, कुल 1416 में से
संदर्भ में पढ़ें११६ भैषज्यरत्नावली । [ रस-
ज्वरमें पंचमूलके काढ़ेका, संग्रहणी और रक्तातिसाररोगमें अतीसके क्वाथ, घोर कम्पज्वरमें पित्तपापडेके क्वाथ और ज्वरातिसार, मन्दाग्नि, कामला, संग्रहणी, खाँसी, श्वास आदि रोगोंमें जीरेके क्वाथका अनुपान करना चाहिये । इस रसको पानीयवटिका कहते हैं ॥ ६५-१६७ ॥
सिद्धफलापानीयवटिका ।
अनाथनाथो जगदेकनाथस्त्रिलोकनाथः प्रथमं प्रसन्नः । जगाद पानीयवटीं सुपद्वीं तामेव वक्ष्यामि गुरुप्रसादात्॥६८ जयार्कस्वरसं चैव निर्गुण्डीवासकं तथा । वाट्यालकं करञ्जं च सूर्यावर्त्तकचित्रकौ ॥ ६९ ॥ ब्राह्मीं वनं सर्षपं च भृङ्गराजं विनिक्षिपेत् । दन्ती च त्रिवृता चैव तथाऽऽरग्वधपत्रकम् ॥ ७० ॥ सहदेवामरं भण्डी तथा त्रिपुरभण्डिका । मण्डूकपर्णी पिप्पल्यौ द्रोणपुष्पकवायसी ॥ ७१ ॥ गुञ्जाकिनी केशराजस्तथा योजनमल्लिका । आसारणेति विख्यातो धुस्तूरः कनकस्तथा ॥ ७२ ॥ त्रैलोक्यविजया चैव तथा श्वेताऽपराजिता । प्रत्येकं कार्षिकं चैव रसमाकृष्य भाजने ॥ ७३ ॥ एकैकं च रसं दत्त्वा मर्दयेल्लौहदण्डतः । चण्डातपे च संशोष्य क्षीरं तत्र पुनः क्षिपेत् ॥ ७४ ॥ स्नुहीक्षीरं चार्कदुग्धं वटदुग्धं तथैव च । प्रत्येकं कार्षिकं दत्त्वा मर्दयेच्च पुनः पुनः ॥ ७५ ॥ सुमर्द्दितं च तं ज्ञात्वा यदा पिण्डत्वमागतम् । द्रव्याण्येतानि संचूर्ण्य वस्त्रपूतानि कारयेत् ॥ ७६ ॥
अनाथोंके नाथ, जगत्पति, त्रिलोकीनाथ भगवान्ने प्रसन्न होकर पूर्वकालमें जिस सर्वरोगापहारिणी और सर्वसिद्धिप्रदायिनी पानीयवटीको वर्णन किया है, उसीको मैं श्रीगुरुमहाराजके चरणोंकी कृपासे वर्णन करताहूँ—अरणी, आक, सिंहालू, अडूसा, खिरैंटी, छोटीकरंज, हुलहुल, चीता, ब्राह्मी, वनसरसों, भाँगरा, दन्ती, निसोत, अमलतासके पत्ते, सहदेई, अमरकन्द, मजीठ, त्रिपुर-