भारतकोश
भैषज्य रत्नावली (गोविन्ददास सेन - सान्वय भाषा टीका सहित)

भैषज्य रत्नावली (गोविन्ददास सेन - सान्वय भाषा टीका सहित)

Bhaishajya Ratnavali Hindi

कविराज गोविन्ददास सेन (टीकाकार: वैद्य शंकरलाल) द्वारा

स्रोत: Bhaishajya Ratnavali with Hindi Translation by Vaidya Shankar Lal (1942) (उद्गम)

DevanagariHindipublished1,416 पृष्ठ

पृष्ठ 329, कुल 1416 में से

संदर्भ में पढ़ें
पृष्ठ 329

चिकित्सा ] भाषाटीकासहिता । २९७

एतत् प्रोक्तं कुमाराणां रक्षणाय महौषधम् । बालरोगं निहन्त्याशु सर्वोपद्रवसंयुतम् ॥ ४६ ॥ पिशाचा दानवा दैत्या बालानां ये विघातकाः । यत्रौषधवरस्तिष्ठेत् तत्र सीमां त्यजन्ति ते ॥ ४७ ॥ बालानां गदयुक्तानां स्त्रीणां चापि विशेषतः । महागन्धकमेतद्धि सर्वव्याधिनिषूदनम् ॥ विना पाकेन सर्वाङ्गसुन्दरोऽयं प्रकीर्त्तितः ॥ ४८ ॥

यह रस विशेषकर बालकोंकी रक्षाके लिये कहा गया है । बालकोक सम्पूर्ण उपद्रवोंसहित रोगोंको तत्काल नष्ट करता है । जिस स्थानम यह उत्तम औषधि रहती है वहाँ बालकोंके प्राणोंको हरनेवाले पिशाच, दैत्य और दानव आदि नहीं ठहर सकते । यह महागन्धक नामक रस रोगसे पीडित बालकों और विशेषकर स्त्रियोंके सब प्रकारके रोगोंको दूर करता ह । इस रसकी यदि विना पुटपाक किये औषधियोंको एकत्र तपाये जलमें खरलकर गोली बना ली जाय तो इसको सर्वाङ्गसुन्दर रस कहते हैं ॥ २४६-४८ ॥

वैद्यनाथ वटी ।

रसस्य शाणं संगृह्य काञ्जिकेन तु शोधयेत् । चित्रकस्य रसेनापि त्रिफलायाश्च बुद्धिमान् ॥ ४९ ॥ रसार्द्धं गन्धकं शुद्धं भृङ्गराजरसेन वा । द्वाभ्यां संमूर्च्छनं कृत्वा स्वरसैः शाणसम्मितैः ॥ २५० ॥ खल्लयेत्तु शिलाखल्ले क्रमशो वक्ष्यमाणजैः । निर्गुण्डीमण्डुकीश्वेताकुचेलाग्रीष्मसुन्दरैः ॥ ५१ ॥ भृङ्गाह्वकेशराद्यैश्च जयेन्द्राशनकोत्कटैः । सर्षपाभां वटीं कृत्वा दद्यात्तां ग्रहणीगदे ॥ ५२ ॥ आमवातेऽग्निमान्द्ये च ज्वरे प्लीहोदरेषु च । वातश्लेष्मविकारेषु तथा श्लेष्मगदेषु च ॥ ५३ ॥ दातव्या गुटिकाः सप्त रोगिणे ग्रहणीगदे । अम्लतक्रादि सेव्यं तु कुर्वीत स्वेच्छया बहु ॥ ५४ ॥ श्रीमता वैद्यनाथेन लोकानुग्रहकारिणा । स्वप्नान्ते ब्राह्मणस्येयं भाषिता लिखितापि च ॥ ५५ ॥