भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 219, कुल 639 में से
संदर्भ में पढ़ेंप्रधानस्य जगतकारणत्वभङ्गः ] हिन्दीसहितभामतीसंवलितम् २०१
प्रकृतत्वात्सेयं देवतेति परामृश्येत । न तदा देवता जीवमात्मशब्देनाभिदध्यात् । जीवो हि नाम चेतनः शरीराध्यक्षः प्राणानां धारयिता, तत्प्रसिद्धेर्निर्वचनाच्च । स कथमचेतनस्य प्रधानस्यात्मा भवेत् ? आत्मा हि नाम स्वरूपम्, नाचेतनस्य प्रधानस्य चेतनो जीवः स्वरूपं भवितुमर्हति । अथ तु चेतनं ब्रह्म मुख्यमीक्षितृ परिगृह्यते, तस्य जीवविषय आत्मशब्दप्रयोग उपपद्यते । तथा 'स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो' ( छान्दो० ६।१४।३ ) इत्यत्र 'स आत्मा' इति प्रकृतं सदणिमानमात्मानमात्मशब्देनोपदिश्य 'तत्त्वमसि श्वेतकेतो' इति चेतनस्य श्वेतकेतोरात्मत्वेनोपदिशति । अप्तेजसोस्तु विषयत्वादचेतनत्वं, नामरूपव्याकरणादौ च प्रयोक्तृत्वेनैव निर्देशात् । नचात्मशब्दवर्तिकचिन्मुख्यत्वे कारणमस्तीति युक्तं कूलवद् गौणत्वमीक्षितृत्वस्य । तयोरपि च सदधिष्ठितत्वापेक्षमेवेक्षितृत्वम् । सतस्त्वात्मशब्दान्न गौणमीक्षितृत्वमित्युक्तम् ॥ ६ ॥
अथोच्येत-अचेतनेऽपि प्रधाने भवत्यात्मशब्दः, आत्मनः सर्वार्थकारित्वाद्, यथा राज्ञः सर्वार्थकारिणि भृत्ये भवत्यात्मशब्दो ममात्मा भद्रसेन इति । प्रधानं हि पुरुषस्यात्मनो भोगापवर्गौ कुर्वदुपकरोति, राज्ञ इव भृत्यः संधिविग्रहादिषु वर्तमानः । अथवाक एवात्मशब्दश्चेतनाचेतनविषयो भविष्यति, भूतात्मेन्द्रियात्मेति च प्रयोगदर्शनात् । यथैक एव ज्योतिःशब्दः क्रतुज्वलनविषयः । तत्र कुत एतदात्मशब्दादीक्षतेरगौणत्वमिति-अत उत्तरं पठति-
तन्निष्ठस्य मोक्षोपदेशात् ॥ ७ ॥
न प्रधानमचेतनमात्मशब्दालम्बनं भवितुमर्हति, 'स आत्मा' इति प्रकृतं सदणिमानमादाय 'तत्त्वमसि श्वेतकेतो' ( छान्दो० ६।८।७ ) इति चेतनस्य श्वेतकेतोर्मोक्षयितव्यस्य तन्निष्ठामुपदिश्य 'आचार्यवान्पुरुषो वेद, तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये' ( छान्दो० ६।१४।२ ) इति मोक्षोपदेशात् । यदि ह्यचेतनं प्रधानं सच्छब्दवाच्यं तदसीति ग्राहयेन्मुमुक्षुं चेतनं सन्तमचेतनोऽसीति, तदा विपरीतवादि
भामती
❄ तन्निष्ठस्य मोक्षोपदेशाद् ❄ इति शङ्कोत्तरत्वेन वा स्वातन्त्र्येण वा प्रधाननिराकरणार्थं सूत्रम् , शङ्का च भाष्ये उक्ता ॥ ७ ॥
भामती-व्याख्या
"तन्निष्ठस्य मोक्षोपदेशात्" ( ब्र. सू. १।१।७ ) इस सिद्धान्त सूत्र का सामञ्जस्य दो प्रकार से किया जा सकता है-( १) "तत्त्वमसि" ( छां. ६।१४।३ ) इस मोक्षोपाय के उपदेश में जो 'तत्' पद से प्रधान के ग्रहण की शङ्का की गई है, उसका यह उत्तर है कि 'आत्मनिष्ठ' का ही मोक्ष होता है, प्रधाननिष्ठ का नहीं । ( २ ) अथवा स्वतन्त्ररूप से प्रधानकारणतावाद का इस सूत्र के द्वारा निराकरण अभिप्रेत है ।
[ 'तन्निष्ठ' शब्द का अर्थ है-तस्मिन् निष्ठा ( आत्मरूपापत्तिः ) यस्य, अर्थात् जगत् के कारणीभूत तत्त्व को जो अपना आत्मा निश्चय कर लेता है, वह मुक्त होता है । मुमुक्षु जीव के लिए प्रधान तत्त्व को अपना आत्मा समझना सम्भव नहीं, क्योंकि आत्मा का अर्थ है-स्वरूप । विजातीय पदार्थं विजातीय पदार्थ का आत्मा या स्वरूप नहीं हो सकता । जो श्रुति अचेतन प्रधान को जीव का स्वरूप बताती है-'तत्त्वमसि', उस श्रुति को विपरीतार्थवादी और अप्रमाण कहा जायगा, किन्तु वेदान्त-श्रुति सर्वथा निर्दोष और स्वतः प्रमाणभूत है, उसमें अप्रामाण्य की कल्पना नहीं कर सकते । यदि शास्त्र भोले-भाले मुमुक्षु को कह देता २६