भारतकोश
भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ

पृष्ठ 222, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 222

२०४ ब्रह्मसूत्रशाङ्करभाष्यम् [अ. १ पा. १ सू. १०]

तदेव सच्छब्दवाच्यं कारणं प्रकृत्य श्रूयते–‘यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवति’ (छा० ६।८।१) इति । एषा श्रुतिः स्वपितीत्येतत्पुरुषस्य लोकप्रसिद्धं नाम निर्वक्ति । स्वशब्देनेहात्मोच्यते । यः प्रकृतः सच्छब्दवाच्यस्तमपीतो भवत्यपि- गतो भवतीत्यर्थः । अपिपूर्वस्यैतेर्लयार्थत्वं प्रसिद्धं, प्रभवाप्ययावित्युत्पत्तिप्रलययोः प्रयोगदर्शनात् । मनःप्रचारोपाधिविशेषसम्बन्धादिन्द्रियार्थान्गृह्णन् तद्विशेषापन्नो जीवो जागर्ति । तद्वासनाविशिष्टः स्वप्नान् पश्यन् मनःशब्दवाच्यो भवति । स उपाधिद्वयो परमे सुषुप्तावस्थायामुपाधिकृतविशेषाभावात्स्वात्मनि प्रलीन इवेति ‘स्वं ह्यपीतो भवति’ इत्युच्यते । यथा हृदयशब्दनिर्वचनं श्रुत्या दर्शितम्–‘स वा एष आत्मा हृदि तस्यैत- देव निरुक्तं हृदयमिति तस्माद् हृदयमिति’ (छा० ८।३।३) इति । यथा वाऽशनायोद- न्याशब्दप्रवृत्तिमूलं दर्शयति श्रुतिः–‘आप एव तदशितं नयन्ते, तेज एव तत्पीतं नयते’ (छा० ६।८।३, ५) इति च, एवं स्वमात्मानं सच्छब्दवाच्यमपीतो भवतीतीममर्थं स्वपितिनामनिर्वचनेन दर्शयति । न च चेतन आत्माऽचेतनं प्रधानं स्वरूपत्वेन प्रति- पद्येत । यदि पुनः प्रधानमेवात्मीयत्वात्स्वशब्देनैवोच्येत, एवमपि चेतनोऽचेतनमप्ये- तीति विरुद्धमापद्येत । श्रुत्यन्तरं च–‘प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम्’ (बृह० ४।३।२१) इति सुषुप्तावस्थायां चेतनेऽप्ययं दर्शयति । अतो यस्मि- न्नप्ययः सर्वेषां चेतनानां तच्चेतनं सच्छब्दवाच्यं जगतः कारणं न प्रधानम् ॥ ९ ॥

कुतश्च न प्रधानं जगतः कारणम्–

गतिसामान्यात् ॥ १० ॥

यदि तार्किकसमय इव वेदान्तेष्वपि भिन्ना कारणावगतिरभविष्यत् क्वचिच्चेतनं ब्रह्म जगतः कारणं, क्वचिदचेतनं प्रधानं, क्वचिदन्यदेवेति, ततः कदाचित्प्रधान-


भामती स्वशब्द आत्मवचनस्तथापि चेतनस्य पुरुषस्याचेतनप्रधानत्वानुपपत्तिः । अथात्मीयवचनस्तथाप्यचेतने पुरुषार्थतयाऽऽत्मीयेऽपि चेतनस्य प्रलयानुपपत्तिः । न हि मृदात्मा घट आत्मीयेऽपि पाथसि प्रलीयतेऽपि त्वात्मभूतायां मृद्येव । न च रजतमनामभूते हस्तिनि प्रलीयते, किन्त्वात्मभूतायां शुक्तावेवेत्याह ॐ स्वाप्ययात् ॐ ॥ ९ ॥ ॐ गतिसामान्यात् ॐ । गतिरवगतिः । ॐ तार्किकसमय इव इति ॐ । यथा हि तार्किकाणां


भामती-व्याख्या "यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति, स्वमपीतो भवति" (छां. ६।८।१) । स्वपिति का निर्वचन है—‘स्वमपीतो भवति', यहाँ ‘स्व’ शब्द यदि आत्मा का वाचक है, तब जीव का अचेतनभूत प्रधानरूप होना सम्भव नहीं। यदि ‘स्व’ शब्द आत्मीय का बोधक है, तब प्रधान का ‘स्व’ पद से ग्रहण हो जाने पर भी उसमें जीव का प्रलय (अभिभव) नहीं हो सकता, क्योंकि मृन्मय घट आत्मीय (अपने सम्बन्धित जल) पदार्थ में प्रलीन नहीं होता, अपितु स्वात्मभूत मृत्तिका में ही विलीन होता है। रजतादि पदार्थ कभी भी अपने आरोप के अनाधारभूत हस्ती में प्रलीन नहीं होता, अपितु शुक्ति में ही विलीन होता है, अतः जीव का प्रलय ब्रह्म में ही सम्भव होने के कारण वही जगत् का उपादान कारण है, प्रधान नहीं ॥ ९ ॥

सभी वेदान्त-वाक्यों से जगत्कारणत्वेन एकमात्र ब्रह्म की ही गति (अवगति या ज्ञान) होती है, तार्किक (न्याय, वैशेषिक, सांख्यादि) मतवादों के अनुसार विविधता प्रतीत नहीं होती ।